51076: पन्थो ण नित्यम्

Padacheda: पन्थः | S | 1 | 1 |

ण | S | | | 1

नित्यम् | S | 1 | 1 |

Sutrartha

‘नित्यम् गच्छति’ अस्मिन् अर्थे द्वितीयासमर्थात पथिन्-शब्दात् ण-प्रत्ययः भवति, तथा च तस्य ‘पन्थ’ इति आदेशः अपि जायते ।

‘मार्गम् नित्यम् गच्छति’ (Regularly travels on that road) अस्मिन् अर्थे पथिन्-शब्दात् पथः ष्कन् (5.1.75) इत्यनेन निर्दिष्टं ष्कन्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण ‘ण’ प्रत्ययः क्रियते, तथा च ‘पथिन्’ शब्दस्य ‘पन्थ’ इति आदेशः अपि भवति । यथा - पन्थानम् नित्यम् गच्छति सः = पथिन् + ण → पन्थ + ण [पथिन्-शब्दस्य पन्थ-आदेशः] → पान्थ + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → पान्थ् + अ [यस्येति च (6.4.148) इति अन्तिमवर्णलोपः] → पान्थ पन्थानम् नित्यम् गच्छति सः पान्थः भिक्षुः । ज्ञातव्यम् - भाष्यकारस्य मतेन लोके ‘पान्थ’ शब्दस्य प्रयोगः केवलम् ‘नित्यम् गच्छति’ अस्मिन्नेव अर्थे भवतीति न, अपितु ‘कदाचित् गच्छति’ इत्यस्मिन् अर्थे अपि भवति । अतः अस्मिन् सूत्रे ‘नित्य’ग्रहणमनावश्यकमस्तीति सः प्रतिपादयति । इत्युक्ते, सः वदति - अत्र केवलम् ‘पन्थः णः’ इति वक्तव्यम्, येन ‘तत् पन्थानम् गच्छति’ इत्यस्मिन् अर्थे अपि पान्थ-शब्दः सिद्ध्यति ।

Vasu English Summary

The affix ण comes after the word पन्थ which becomes the substitute of पथिन्, the sense of the affix being ‘who always goes’.

Vasu English Translation

The affix ण comes after the word पन्थ which becomes the substitute of पथिन्, the sense of the affix being ‘who always goes’. The word नित्य qualifies the sense of the affix. Thus पन्थानं नित्यं गच्छति = पान्थः as पान्थो भिक्षां याचते ॥ Why नित्यं ? See पथिकः ॥

Bhashya

पन्थो ण नित्यम् (1958) (णप्रत्ययाधिकरणम्) (5653 सूत्रद्वयेऽपि नित्यग्रहणाक्षेपवार्तिकम्॥ 1 ॥) - छेदादिपथिभ्यो विग्रहदर्शनान्नित्यग्रहणानर्थक्यम् - (भाष्यम्) छेदादिपथिभ्यो नित्यग्रहणमनर्थकम्। किं कारणम्? विग्रहदर्शनात्। विग्रहो दृश्यते - छेदमर्हति, पन्थानं गच्छतीति॥ (नित्यग्रहणप्रयोजनभाष्यम्) विकारार्थं तर्हीदं नित्यग्रहणं क्रियते, विकारेण विग्रहो मा भूदिति। विराग विरङ्गं च। पन्थो ण नित्यमिति॥ (5654 नित्यग्रहणवैफल्यबोधकवार्तिकम्॥ 2 ॥) - विकारार्थमिति चेदकङादिभिस्तुल्यम् - (भाष्यम्) विकारार्थमिति चेदकङादिभिस्तुल्यमेतत्। यथाऽकङादिभिर्विकारैर्विग्रहो न भवति, एवमाभ्यामपि न भविष्यति। (सन्नियोगशिष्टन्यायेन नित्यग्रहणवैफल्यबोधकभाष्यम्) किं पुनरिहाकर्तव्यं नित्यग्रहणं क्रियते, आहोस्विदन्यत्र कर्तव्यं न क्रियते? इहाकर्तव्यं क्रियते। एष एव न्यायो यदुत-संनियोगशिष्टानामन्यतरापाये उभयोरप्यभावः। तद्यथा - देवदत्तयज्ञदत्ताभ्यामिदं कर्तव्यमिति देवदत्तापाये यज्ञदत्तोऽपि न करोति॥

Kashika

नित्यग्रहणं प्रत्ययार्थविशेषणम्। पथः पन्थ इत्ययमादेशो भवति णश्च प्रत्ययो नित्यं गच्छतीत्यस्मिन् विषये। पन्थानं नित्यं गच्छति, पान्थो भिक्षां याचते। नित्यमिति किम्? पथिकः॥

Siddhanta Kaumudi

पन्थानं नित्यं गच्छति पान्थः । पान्थी ॥

Balamanorama

पन्थो ण नित्यम् - पन्थो ण नित्यम् । पथ इत्यनुवर्तते, गच्छतीति च । नित्यमिति गच्छतीत्यत्रान्वितं प्रत्ययार्थप्रविष्यमेव, नतु विधानान्वितं सत् महाविभाषानिवृत्त्यर्थम् । द्वितीयान्तात्पथिन्शब्दान्नित्यं गच्छतीत्यर्थे णप्रत्ययः स्यात्, प्रकृतेः पन्थादेशश्चेत्यर्थः । भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् ।

Tattvabodhini

पन्थो ण नित्यम् - पन्थो ण । पथःपन्थ॑इत्ययमादेशः स्याण्णश्च प्रत्ययः । नित्यग्रहणमिह प्रत्ययार्थविशेषणं , न तु वाक्यनिवृत्त्यर्थमित्याशयेनाह -नित्यं गच्छतीति । नित्यमिति किम् । पथिकः । भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् । इहं हि भाष्याशयः -नित्यं पन्थानं गच्छतीत्यर्थोऽत्र यद्यपि संभवति, तथापि नात्रैवार्थे पान्थशब्दस्य प्रयोग इष्यते, कदाचिद्गच्छत्यपि तत्प्रयोगात् । न चैवमपि विग्रहवाक्यनिवृत्त्यर्थं नित्यग्रहणमस्त्विति शङ्क्यम् । शिष्टप्रयोगे विग्रहवाक्यस्य दर्शनादिति । उत्तरपथेन । चकारेण गच्छतीति प्रत्ययार्थः समुच्चीयते ।

Padamanjari

नित्यग्रहणं प्रत्ययार्थविशेषणमिति। वाक्यनिवृत्यर्थं तु न भवति; पन्थादेशो हि प्रत्ययसन्नियोगेन विधीयमानो नैव वाक्ये सम्भवति; पथिन्श्ब्देन तु वाक्येऽनभिप्रेते पूर्वसूत्र एव नित्यग्रहणं कुर्यात्। यत्र पथिन्शब्दः श्रूयते, प्रत्ययान्तरनिवृत्यर्थमपि न भवति; पथः कनो विधानसामर्थ्यात्, प्रत्ययान्तरस्य प्राप्त्यभावात्। पन्थानं नित्यं गच्छतीति। नन्वयमर्थो न सम्भवति, विश्रमस्यावश्यम्भवित्वात्; सम्भवतु वा कथञ्चिदादित्यादौ, तथापि न तत्रैवेष्यते, उदाहृतं हि - पान्थो भिक्षां याचते इति ? तस्मादाभीक्षण्मुनित्यम्, परित्यागाभावो वा ॥

Nyaas

नित्यग्रहणम् इत्यादि। अथ वाक्यनिवृत्त्यर्थं कस्मान्न भवति? पन्थशब्दस्य वाक्यासमवायित्वात्। स हि प्रत्ययसन्नियोगेन विधीयते, न वाक्येन समवैति। ननु च पथिन्शब्देन वाक्यं मा भूदित्येवमर्थं नित्यग्रहणं स्यात्? नैतदस्ति; यदि तदेवमर्थं स्यात्? पूर्वसूत्र एव कृतं स्यात् - यत्र पथिन्शब्दः श्रुयते। इह तु करणे प्रत्ययार्थविशेषणं विज्ञायते॥

Prakriyasarvasvam

नित्यं गच्छतीत्यर्थे पथः पन्थादेशो णश्च । पन्थानं नित्यं गच्छन् पान्थः ।।