51073: संशयमापन्नः¶
Padacheda: संशयम् | S | 2 | 1 |
आपन्नः | S | 1 | 1 |
Sutrartha¶
‘आपन्नः’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘संशय’शब्दात् ठञ्-प्रत्ययः भवति ।
आपन्नः इत्युक्ते प्राप्तः । ‘आ + पद्’ धातोः ‘क्त’प्रत्यये कृते अयम् शब्दः सिद्ध्यति । ‘आपन्नः’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘संशय’शब्दात् संशयस्य अधिष्ठानम् (कर्म) निर्देशयितुम् ठञ्-प्रत्ययः भवति । संशयमापन्नः सांशयिकः । कः अस्य अर्थः ? उदाहरणम् एकम् पश्यामः । कश्चन स्थाणुः (pillar / stem) अस्तीति मन्यामहे । कश्चन देवदत्तः रात्रौ प्रकाशस्य अभावात् एतम् स्थाणुं दृष्ट्वा ‘अयम् कोऽपि पशुः / मनुष्यः अस्ति वा’ इति चिन्तयति । अत्र अन्धःकारस्य कारणात् भ्रमवशात् ‘पशुरूपेण / मनुष्यरूपेण भासमानः स्थाणुः संशयम् प्राप्तः अस्ति’ इति उच्यते ।अत्र संशयस्य कर्ता अस्ति देवदत्तः, तथा च संशयस्य कर्म अस्ति स्थाणुः । अस्यां स्थितौ अस्य संशयस्य कर्मणः (इत्युक्ते स्थाणोः) निर्देशः ‘सांशयिकः स्थाणुः’ इति क्रियते । संशयमापन्नः सांशयिकः स्थाणुः । The object of the confusion / doubt is called सांशयिक । ज्ञातव्यम् - 1. अत्र स्त्रीत्वे टिड्ढाणञ्.. (4.1.15) इत्यनेन ङीप्-प्रत्ययः विधीयते । यथा, अन्धःकारे सर्परूपेण भासमाना रज्जूः संशयमापन्ना, अतः सा ‘सांशयिकी रज्जूः’ अस्तीति उच्यते । 2. यः संशयस्य कर्ता अस्ति (इत्युक्ते यस्य मनसि संशयः जायते) तस्य विषये अस्य सूत्रस्य प्रयोगः न भवति । संशयस्य यत् कर्म (इत्युक्ते यस्मिन् वस्तुनि संशयस्य अधिष्ठानम् भवति), तस्य विषये एव ‘सांशयिक’ शब्दस्य प्रयोगः भवति । यथा, उपरिनिर्दिष्टे उदाहरणे ‘सांशयिकः’ इति स्थाणोः विशेषणमस्ति, न हि देवदत्तस्य ।
Vasu English Summary¶
The affix ठञ् (+/- – इक) comes in the sense of ‘being fallen into this or thrown into it’ after the word संशय in the Accusative -2nd case in construction.
Vasu English Translation¶
The affix ठञ् (+/- – इक) comes in the sense of ‘being fallen into this or thrown into it’ after the word संशय in the Accusative -2nd case in construction. Thus संशयमापन्नः प्राप्तः = सांशयिकः स्थाष्टः “a doubtful pillar”, i.e. in a precarious state.
Kashika¶
संशयशब्दाद् द्वितीयासमर्थादापन्न इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। संशयमापन्नः प्राप्तः सांशयिकः स्थाणुः॥
Siddhanta Kaumudi¶
संशयविषयीभूतोऽर्थः सांशयिकः ॥
Balamanorama¶
संशयमापन्नः - संशयमापन्नः । अस्मिन्नर्थे संशयशब्दाद्द्वितीयान्ताट्ठक्स्यादित्यर्थः । अत्र ‘आपन्न’ इति कर्तरि क्तः । विषयतया प्राप्त इत्यर्थः, उपसर्गवशात् । संशयविषयीभूतोऽर्थ इति । तेन समवायेन संशयाधारे संदेग्धरिनायं प्रत्यय इति भावः । अमरस्तुसांशयिकः संशयापन्नमानसः॑ इत्याह ।
Tattvabodhini¶
संशयमापन्नः - विषयीभूतोऽर्थ इति ।स्थाणुर्वा पुरुषो वे॑तित संशयविषयीभूते स्थाण्वादावेव प्रत्यय इष्यते, न तु संदेग्धरीति भावः । कथं तर्हिसांशयिकऋ संशयापन्नमानसः॑इत्यमर इति चेत् । अत्राहुः — — — संशयापन्नं मानसं यस्मिन्विषये स विषयः संशयापन्नमानस इति ।ततोऽभामनमर्हतीति च वक्तव्यम् । ततोऽभिगमनमिति । अत्र पञ्चम्यन्तात्प्रत्ययः ।
Padamanjari¶
सांशयिकः स्थाणुरिति। स्थाणुर्वा पुरुषो वेत्येवंरूपस्य संशयस्य विषय इत्यर्थः। अननैतद्दर्शयति-यद्यपि द्वे अपि कर्तृकर्मणी संशयमापन्ने, तथापि यद्विषयकः संशयस्तत्रैव प्रत्ययो भवति, न कर्तरि परुषे; अनभिधानाधिति ॥
Nyaas¶
अत्रापि द्वितीयाप्रकरणे पुनर्द्वितीयोच्चारणमिष्टविषये द्वितीयान्ताद्यथा स्यादित्येवमर्थम्। तेन यद्यपि द्वे अपि कर्तृकर्मणी संशयमापन्ने, तथापि यद्विषयः संशय उत्पद्यते तत्रैव कर्मणि स्थाण्वादौ प्रत्ययो भवति, न तु संशयस्य कर्तरि पुरुषे; अनभिधानात्॥
Prakriyasarvasvam¶
संशयं प्राप्तः सांशयिकोऽर्थः ।।