51070: स्थालीबिलात्¶
Padacheda: स्थालीबिलात् | S | 5 | 1 |
Sutrartha¶
‘अर्हति’ अस्मिन् अर्थे ‘स्थालीबिल’शब्दात् छ-प्रत्ययः यत्-प्रत्ययः च भवति ।
स्थाल्याः उत पात्रस्य अन्तर्भागः ‘स्थालीबिल’ नाम्ना ज्ञायते । The interior of a vessel इत्यर्थः । अस्मात् शब्दात् ‘अर्हति’ इत्यस्मिन् अर्थे छ-प्रत्ययः तथा च यत्-प्रत्ययः भवति ।यथा, स्थालीबिलमर्हति तत् स्थालीबिलीयम् स्थालीबिल्यम् वा ओदनम् । स्थालीबिलमर्हति ते स्थालीबिलीयाः स्थालीबिल्याः वा तण्डुलाः । प्रक्रिये एतादृशे - 1. स्थालीबिल + छ → स्थालीबिल + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईय्-आदेशः] → स्थालीबिल् + ईय [यस्येति च (6.4.148) इति अकारलोपः] → स्थालीबिलीय । 2. स्थालीबिल + यत् → स्थालीबिल् + यत् [यस्येति च (6.4.148) इति अकारलोपः] → स्थालीबिल्य स्त्रीत्वे विवक्षिते उभयत्र अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः भवति । स्थालीबिलीया स्थालीबिल्या वा रोटिका ।
Vasu English Summary¶
The affixes छ (ईयं) and यत् (यं) comes in the sense of ‘deserving that’ after the word स्थालीबिल।
Vasu English Translation¶
The affixes छ (ईयं) and यत् (यं) comes in the sense of ‘deserving that’ after the word स्थालीबिल। This debars ठक् ॥ Thus स्थालीबिलीयास्तण्डुलाः or स्थालीबिल्याः ‘rice deserving the pot’ i. e. cookable rice.
Kashika¶
छयतावनुवर्तते। स्थालीबिलशब्दात् छयतौ प्रत्ययौ भवतः तदर्हतीत्यस्मिन्नर्थे। ठकोऽपवादौ। स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः। स्थालीबिल्याः। पाकयोग्या इत्यर्थः॥
Siddhanta Kaumudi¶
स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः-स्थालीबिल्याः । पाकयोग्याः इत्यर्थः ॥
Balamanorama¶
स्थालीबिलात् - स्थालीबिलात् । छयतावनुवर्तेते, तदर्हतीति च ।
Tattvabodhini¶
स्थालीबिलात् - स्थालीबिलात् । छयतावनुवर्तेते । अस्माच्छयतौ स्तः । ठकोऽपवादः । पाकयोग्या इति । त्रिष्फलीकृता इति यावत् ।
Padamanjari¶
च्छयतावनार्तेते इति। पूर्वसूत्रेऽपि न यच्चकारेणानुकृष्टः, तथा सति घन एव प्रसङ्गात्। किं तर्हि ? स्वरितत्वात्। अतो न सत्यानुवृत्तिर्दुलेभेति भावः। पाकयोग्या इत्यर्थ इति। त्रिफलीकृता इति यावत् ॥
Nyaas¶
छयतावनुवर्तेते इति। ननु चानुकृष्टमुत्तरत्र नानुवर्तत इति चानुकृष्टस्य यतः पुनरिह चकारेणानु-वृत्तिर्नोपपद्यते? नैष दोषः; अनित्या ह्रेषा परिभाषा। कथं ज्ञायते? एकाजुत्तरपदे णः (8.4.12) इत्यत्र णे प्रकृते पुनर्णग्रहणात्। तद्धि वा भावकरणयोः (8.4.10) इत्यनुवर्तमानस्य विकल्पस्य निवृत्त्यर्थं क्रियते। यदि चेयं नित्या स्यातद्, पूर्वसूत्रे चानुकृष्टत्वादेव हि तस्यानुवृत्तिर्न भवति। अथ वा - चकारोप्यत्रानु-वर्तते यतोऽनुकर्षणार्थः। तेन पूर्वत्र चानुकृष्टस्यापि तस्य पुनरिह चकारेणानुकृष्यमाणस्यानुवृत्तिर्भविष्यति। स्थालीबिलकडङ्गरदक्षिणाच्छ च इत्येकयोगे कर्तव्ये यदिदं योगविभागकरणं तत्स्थालीबिलाद्विशेषे वर्तमानात्? प्रत्ययो यथा स्यादित्येवमर्थम्। तेन स्थालोमुख एव वर्तमानः स्थालीविलशब्दः प्रत्ययमुत्पादयति। न तु स्थालीसम्बन्धिनि च्छिद्रमात्रे वर्तमानः॥
Prakriyasarvasvam¶
अस्माच्छ्यतौ । स्थालीबिलार्हाः स्थालीबिलीयाः स्थालीबिल्या वा शोधित- तण्डुलाः ॥