51070: स्थालीबिलात् =================== **Padacheda:** स्थालीबिलात् | S | 5 | 1 | Sutrartha --------- **'अर्हति' अस्मिन् अर्थे 'स्थालीबिल'शब्दात् छ-प्रत्ययः यत्-प्रत्ययः च भवति ।** स्थाल्याः उत पात्रस्य अन्तर्भागः 'स्थालीबिल' नाम्ना ज्ञायते । The interior of a vessel इत्यर्थः । अस्मात् शब्दात् 'अर्हति' इत्यस्मिन् अर्थे छ-प्रत्ययः तथा च यत्-प्रत्ययः भवति ।यथा, स्थालीबिलमर्हति तत् स्थालीबिलीयम् स्थालीबिल्यम् वा ओदनम् । स्थालीबिलमर्हति ते स्थालीबिलीयाः स्थालीबिल्याः वा तण्डुलाः । प्रक्रिये एतादृशे - 1. स्थालीबिल + छ → स्थालीबिल + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ईय्-आदेशः] → स्थालीबिल् + ईय [**यस्येति च** (6.4.148) इति अकारलोपः] → स्थालीबिलीय । 2. स्थालीबिल + यत् → स्थालीबिल् + यत् [**यस्येति च** (6.4.148) इति अकारलोपः] → स्थालीबिल्य स्त्रीत्वे विवक्षिते उभयत्र **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययः भवति । स्थालीबिलीया स्थालीबिल्या वा रोटिका । Vasu English Summary -------------------- The affixes छ (ईयं) and यत् (यं) comes in the sense of 'deserving that' after the word स्थालीबिल। Vasu English Translation ------------------------ The affixes छ (ईयं) and यत् (यं) comes in the sense of 'deserving that' after the word स्थालीबिल। This debars ठक् ॥ Thus स्थालीबिलीयास्तण्डुलाः or स्थालीबिल्याः 'rice deserving the pot' i. e. cookable rice. Kashika ------- छयतावनुवर्तते। स्थालीबिलशब्दात् छयतौ प्रत्ययौ भवतः तदर्हतीत्यस्मिन्नर्थे। ठकोऽपवादौ। स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः। स्थालीबिल्याः। पाकयोग्या इत्यर्थः॥ Siddhanta Kaumudi ----------------- स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः-स्थालीबिल्याः । पाकयोग्याः इत्यर्थः ॥ Balamanorama ------------ **स्थालीबिलात्** - स्थालीबिलात् । छयतावनुवर्तेते, तदर्हतीति च । Tattvabodhini ------------- **स्थालीबिलात्** - स्थालीबिलात् । छयतावनुवर्तेते । अस्माच्छयतौ स्तः । ठकोऽपवादः । पाकयोग्या इति । त्रिष्फलीकृता इति यावत् । Padamanjari ----------- च्छयतावनार्तेते इति। पूर्वसूत्रेऽपि न यच्चकारेणानुकृष्टः, तथा सति घन एव प्रसङ्गात्। किं तर्हि ? स्वरितत्वात्। अतो न सत्यानुवृत्तिर्दुलेभेति भावः। पाकयोग्या इत्यर्थ इति। त्रिफलीकृता इति यावत् ॥ Nyaas ----- `छयतावनुवर्तेते` इति। ननु चानुकृष्टमुत्तरत्र नानुवर्तत इति चानुकृष्टस्य यतः पुनरिह चकारेणानु-वृत्तिर्नोपपद्यते? नैष दोषः; अनित्या ह्रेषा परिभाषा। कथं ज्ञायते? **एकाजुत्तरपदे णः** (8.4.12) इत्यत्र णे प्रकृते पुनर्णग्रहणात्। तद्धि **वा भावकरणयोः** (8.4.10) इत्यनुवर्तमानस्य विकल्पस्य निवृत्त्यर्थं क्रियते। यदि चेयं नित्या स्यातद्, पूर्वसूत्रे चानुकृष्टत्वादेव हि तस्यानुवृत्तिर्न भवति। अथ वा - चकारोप्यत्रानु-वर्तते यतोऽनुकर्षणार्थः। तेन पूर्वत्र चानुकृष्टस्यापि तस्य पुनरिह चकारेणानुकृष्यमाणस्यानुवृत्तिर्भविष्यति। `स्थालीबिलकडङ्गरदक्षिणाच्छ च` इत्येकयोगे कर्तव्ये यदिदं योगविभागकरणं तत्स्थालीबिलाद्विशेषे वर्तमानात्? प्रत्ययो यथा स्यादित्येवमर्थम्। तेन स्थालोमुख एव वर्तमानः स्थालीविलशब्दः प्रत्ययमुत्पादयति। न तु स्थालीसम्बन्धिनि च्छिद्रमात्रे वर्तमानः॥ Prakriyasarvasvam ----------------- अस्माच्छ्यतौ । स्थालीबिलार्हाः स्थालीबिलीयाः स्थालीबिल्या वा शोधित- तण्डुलाः ॥