51069: कडङ्करदक्षिणाच्छ च

Padacheda: कडङ्कर-दक्षिणात् | S | 5 | 1 |

छ | S | | | 1

च | S | 0 | 0 |

Sutrartha

‘तद् अर्हति’ अस्मिन् अर्थे ‘कडङ्कर’शब्दात् ‘दक्षिणा’शब्दात् च छ-प्रत्ययः यत्-प्रत्ययः च विधीयते ।

‘कडङ्करमर्हति’ तथा ‘दक्षिणामर्हति’ एतयोः अर्थयोः ‘कडङ्कर’ तथा ‘दक्षिण’ शब्दात् छ-यत्-प्रत्ययौ भवतः । यथा - 1. ‘कडङ्कर’ इत्युक्ते धेनवे दीयमानम् खाद्यम् । कडङ्करमर्हति सः कडङ्करीयः कडङ्कर्यः वा गौः । 2. ‘दक्षिणा’ इत्युक्ते पूजादिकर्मणि ब्राह्मणाय दीयमानम् धनम् । दक्षिणामर्हति सः दक्षिणीयः दक्षिण्यः भिक्षुः । ज्ञातव्यम् - अस्मिन् सूत्रे ‘कडङ्करदक्षिण’ इति पुंलिङ्गशब्दः समाहारद्वन्द्वेन जायते - कडङ्करश्च दक्षिणा च तयोः समाहारःकडङ्करदक्षिणः । यद्यपि समासान्ते अत्र ‘दक्षिण’ इति पुंलिङ्गः शब्दः दृश्यते, तथाप्यत्र प्रातिपदिकम् ‘दक्षिणा’ इति अस्ति, ‘दक्षिण’ इति न , इति स्मर्तव्यम् ।

Vasu English Summary

The affixes छ (ईयं) and यत् (यं) comes in the sense of ‘deserving that’ after the words 1. कडङ्गर and 2. दक्षिणा।

Vasu English Translation

The affixes छ (ईयं) and यत् (यं) comes in the sense of ‘deserving that’ after the words 1. कडङ्गर and 2. दक्षिणा। This debars ठक् ॥ Thus कडङ्करमर्हति = कडङ्करीयः or कडङ्कयः ‘one deserving straw’ such as a cow. So also दक्षिणीयः or दक्षिण्यो ब्राह्मणः ‘a Brahmana deserving alms.’

Kashika

कडङ्करदक्षिणाशब्दाभ्यां छः प्रत्ययो भवति, चकाराद् यत् च, तदर्हतीत्यस्मिन् विषये। ठकोऽपवादः। कडङ्करमर्हति कडङ्करीयो गौः। कडङ्कर्यः। दक्षिणामर्हति दक्षिणीयो भिक्षुः। दक्षिण्यो ब्राह्मणः। दक्षिणाशब्दस्याल्पाच्तरस्यापूर्वनिपातेन लक्षणव्यभिचारचिह्नेन यथासंख्याभावं सूचयति॥

Siddhanta Kaumudi

चाद्यत् । कडं करोतीति विग्रहे अत एव निपातनात्खच् । कडंकरं माषमुद्रादिकाष्ठमर्हतीति कडंकरीयो गौः । कडंकर्यः । दक्षिणामर्हतीति दक्षिणीयः-दक्षिण्यः ॥

Balamanorama

कडङ्गरदक्षिणाच्छ च - कडङ्करदक्षिणाच्छ च । ‘कडमदे’ कडनं कडः=मजः ।घञर्थे कविधान॑मिति कः । खजिति । तथा चखित्यनव्ययस्ये॑ति मुमिति भावः । कडङ्करं च दक्षिणा चेति समाहारद्वन्द्वात्पञ्चमी ।

Tattvabodhini

कडङ्गरदक्षिणाच्छ च - कडङ्करदक्षिणाच्छ च ।कडङ्गरे॑ति पाठस्तूपेक्ष्य इति ध्वनयति -कडं करोतीति ।कड मदे॑ । कडतीति कडः । माषमुद्नादिकाष्ठमिति । अमरश्चाहकडङ्करो बुसं क्लीब ॑मिति । गौरिति ।नीवारपाकादिकडङ्करीयैः॑इति रघुः ।

Padamanjari

‘कड मदे’ , कडतीति कडः, कडं करोतीत्यत एव निपातनात्खच्, कडङ्करं माषमुद्गादिकाष्ठमुच्यते। दक्षेरुत्साहकर्मणः करणे’दुदक्षिभ्यामिनन्’ इतीनन्प्रत्ययः - दक्षिणा। चकाराद्यच्येति। घÄस्त्वनन्तरोऽपि न समुच्चीयते, य एव; स्वरितत्वात्। कडङ्करीय इति। यो बलीवर्हो दुर्जरमपि कडङ्करं जरयितुं प्रभावति स तदर्हतदीत्यच्यते। अल्पाच्चस्स्येत्यादि। यद्धा - यथासंख्येऽभिप्रेते यस्माद्यदिष्टः, तं दण्डादिषु पठ्ंअत् ॥

Nyaas

चकाराद्यच्च इति। अथानन्तरस्य यतः समुच्चयः कस्मान्न भवति? एवं मन्यते - स्वरतत्वं प्रतिज्ञातमिति। अनन्तराच्च स्वरित आसन्नतरः। स च प्रतियोगमुपतिष्ठमानो वाक्यशेष एव भवति। तस्माद्यत एव समुच्चयो युक्त इति। यो गौर्निर्गुणत्वात्? खलकणाद्यनर्हः स कडङ्गर्यः कडङ्गरीय इति चोच्यते। माषादीनां खलेष्ववस्करणालकाष्ठमतिदुर्जरं बुसाद्यपि कडङ्गरमुच्यते। अथात्र यथासंख्यं कस्मान्न भवति, अस्ति हि तस्य प्राप्तिः, प्रकृतिप्रत्ययानां साम्यात; तथा हि - द्वे प्रकृतौ, द्वौ प्रत्ययौ? इत्यत आह - अल्पाच्तरस्य इत्यादि। दक्षिणशब्दस्याल्पाच्तरस्य पूर्वनिपाते प्राप्ते योऽयमिह परनिपातः स लक्षणानपेक्षतां निर्देशस्य दर्शयन्? लक्षणव्यभिचारस्यचिह्नं भवति। अतस्तेन चिह्नेन यथा-संख्याभावं सूचयति सूत्रकारः। तेन न भवति यथासंख्यम्॥

Prakriyasarvasvam

यश्च कडङ्करो बुसं, तदर्हन् कडङ्करीयः कडङ्कर्यो वा गौः । दक्षिणाहीं दक्षिणीयो दक्षिण्यः ॥

Sutra Prayogas

  • कडंगरीयैः (रघुवंशम्): कडंगरदक्षिणाच्छ च इति छप्रत्ययः।

  • दक्षिणीयम् (शिशुपालवधम्): कडङ्करदक्षिणाच्छ च इति छप्रत्ययः।

  • दक्षिण्य-दिष्टं (भट्टिकाव्यम्): कडङ्कर-दक्षिणाच्छ च इति चकाराद्यत्।