51069: कडङ्करदक्षिणाच्छ च ========================= **Padacheda:** कडङ्कर-दक्षिणात् | S | 5 | 1 | छ | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **'तद् अर्हति' अस्मिन् अर्थे 'कडङ्कर'शब्दात् 'दक्षिणा'शब्दात् च छ-प्रत्ययः यत्-प्रत्ययः च विधीयते ।** 'कडङ्करमर्हति' तथा 'दक्षिणामर्हति' एतयोः अर्थयोः 'कडङ्कर' तथा 'दक्षिण' शब्दात् छ-यत्-प्रत्ययौ भवतः । यथा - 1. 'कडङ्कर' इत्युक्ते धेनवे दीयमानम् खाद्यम् । कडङ्करमर्हति सः कडङ्करीयः कडङ्कर्यः वा गौः । 2. 'दक्षिणा' इत्युक्ते पूजादिकर्मणि ब्राह्मणाय दीयमानम् धनम् । दक्षिणामर्हति सः दक्षिणीयः दक्षिण्यः भिक्षुः । ज्ञातव्यम् - अस्मिन् सूत्रे 'कडङ्करदक्षिण' इति पुंलिङ्गशब्दः समाहारद्वन्द्वेन जायते - कडङ्करश्च दक्षिणा च तयोः समाहारःकडङ्करदक्षिणः । यद्यपि समासान्ते अत्र 'दक्षिण' इति पुंलिङ्गः शब्दः दृश्यते, तथाप्यत्र प्रातिपदिकम् 'दक्षिणा' इति अस्ति, 'दक्षिण' इति न , इति स्मर्तव्यम् । Vasu English Summary -------------------- The affixes छ (ईयं) and यत् (यं) comes in the sense of 'deserving that' after the words 1. कडङ्गर and 2. दक्षिणा। Vasu English Translation ------------------------ The affixes छ (ईयं) and यत् (यं) comes in the sense of 'deserving that' after the words 1. कडङ्गर and 2. दक्षिणा। This debars ठक् ॥ Thus कडङ्करमर्हति = कडङ्करीयः or कडङ्कयः 'one deserving straw' such as a cow. So also दक्षिणीयः or दक्षिण्यो ब्राह्मणः 'a *Brahmana* deserving alms.' Kashika ------- कडङ्करदक्षिणाशब्दाभ्यां छः प्रत्ययो भवति, चकाराद् यत् च, तदर्हतीत्यस्मिन् विषये। ठकोऽपवादः। कडङ्करमर्हति कडङ्करीयो गौः। कडङ्कर्यः। दक्षिणामर्हति दक्षिणीयो भिक्षुः। दक्षिण्यो ब्राह्मणः। दक्षिणाशब्दस्याल्पाच्तरस्यापूर्वनिपातेन लक्षणव्यभिचारचिह्नेन यथासंख्याभावं सूचयति॥ Siddhanta Kaumudi ----------------- चाद्यत् । कडं करोतीति विग्रहे अत एव निपातनात्खच् । कडंकरं माषमुद्रादिकाष्ठमर्हतीति कडंकरीयो गौः । कडंकर्यः । दक्षिणामर्हतीति दक्षिणीयः-दक्षिण्यः ॥ Balamanorama ------------ **कडङ्गरदक्षिणाच्छ च** - कडङ्करदक्षिणाच्छ च । 'कडमदे' कडनं कडः=मजः ।घञर्थे कविधान॑मिति कः । खजिति । तथा चखित्यनव्ययस्ये॑ति मुमिति भावः । कडङ्करं च दक्षिणा चेति समाहारद्वन्द्वात्पञ्चमी । Tattvabodhini ------------- **कडङ्गरदक्षिणाच्छ च** - कडङ्करदक्षिणाच्छ च ।कडङ्गरे॑ति पाठस्तूपेक्ष्य इति ध्वनयति -कडं करोतीति ।कड मदे॑ । कडतीति कडः । माषमुद्नादिकाष्ठमिति । अमरश्चाहकडङ्करो बुसं क्लीब ॑मिति । गौरिति ।नीवारपाकादिकडङ्करीयैः॑इति रघुः । Padamanjari ----------- 'कड मदे' , कडतीति कडः, कडं करोतीत्यत एव निपातनात्खच्, कडङ्करं माषमुद्गादिकाष्ठमुच्यते। दक्षेरुत्साहकर्मणः करणे'दुदक्षिभ्यामिनन्' इतीनन्प्रत्ययः - दक्षिणा। चकाराद्यच्येति। घÄस्त्वनन्तरोऽपि न समुच्चीयते, य एव; स्वरितत्वात्। कडङ्करीय इति। यो बलीवर्हो दुर्जरमपि कडङ्करं जरयितुं प्रभावति स तदर्हतदीत्यच्यते। अल्पाच्चस्स्येत्यादि। यद्धा - यथासंख्येऽभिप्रेते यस्माद्यदिष्टः, तं दण्डादिषु पठ्ंअत् ॥ Nyaas ----- `चकाराद्यच्च` इति। अथानन्तरस्य यतः समुच्चयः कस्मान्न भवति? एवं मन्यते - स्वरतत्वं प्रतिज्ञातमिति। अनन्तराच्च स्वरित आसन्नतरः। स च प्रतियोगमुपतिष्ठमानो वाक्यशेष एव भवति। तस्माद्यत एव समुच्चयो युक्त इति। यो गौर्निर्गुणत्वात्? खलकणाद्यनर्हः स कडङ्गर्यः कडङ्गरीय इति चोच्यते। माषादीनां खलेष्ववस्करणालकाष्ठमतिदुर्जरं बुसाद्यपि कडङ्गरमुच्यते। अथात्र यथासंख्यं कस्मान्न भवति, अस्ति हि तस्य प्राप्तिः, प्रकृतिप्रत्ययानां साम्यात; तथा हि - द्वे प्रकृतौ, द्वौ प्रत्ययौ? इत्यत आह - `अल्पाच्तरस्य` इत्यादि। दक्षिणशब्दस्याल्पाच्तरस्य पूर्वनिपाते प्राप्ते योऽयमिह परनिपातः स लक्षणानपेक्षतां निर्देशस्य दर्शयन्? लक्षणव्यभिचारस्यचिह्नं भवति। अतस्तेन चिह्नेन यथा-संख्याभावं सूचयति सूत्रकारः। तेन न भवति यथासंख्यम्॥ Prakriyasarvasvam ----------------- यश्च कडङ्करो बुसं, तदर्हन् कडङ्करीयः कडङ्कर्यो वा गौः । दक्षिणाहीं दक्षिणीयो दक्षिण्यः ॥ Sutra Prayogas -------------- * **कडंगरीयैः** (रघुवंशम्): `कडंगरदक्षिणाच्छ च` इति छप्रत्ययः। * **दक्षिणीयम्** (शिशुपालवधम्): `कडङ्करदक्षिणाच्छ च` इति छप्रत्ययः। * **दक्षिण्य-दिष्टं** (भट्टिकाव्यम्): `कडङ्कर-दक्षिणाच्छ च` इति चकाराद्यत्।