51066: दण्डादिभ्यः

Padacheda: दण्डादिभ्यः | S | 5 | 3 |

Sutrartha

दण्डादिगणस्य द्वितीयासमर्थेभ्यः शब्देभ्यः ‘अर्हति’ अस्मिन् अर्थे यत्-प्रत्ययः भवति ।

दण्डादिगणस्य शब्देभ्यः ‘अर्हति’ अस्मिन् अर्थे यत्-प्रत्ययः भवति । दण्डादिगणः अयम् - दण्ड, मुसल, मधुपर्क, कशा, अर्घ, मेधा, मेघ, युग, उदक, वध, गुहा, भाग, इभ। यथा - 1. दण्डमर्हति सः दण्ड्यः। 2. मुसलमर्हति सः मुसल्यः । 3. मधुपर्कमर्हति सः मधुपर्क्यः । 4. कशामर्हति सः कश्यः । 5. अर्घ्यमर्हति सः अर्घ्यः । 5. मेधामर्हति सः मेध्यः । 6. मेघमर्हति सः मेघ्यः । 7. गुहामर्हति सः गुह्यः । गोपनीयः इत्याशयः । स्मर्तव्यम् - यत्-प्रत्यये तकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनद्वयम् - अ) मुसल्य, मधुपर्क्य इत्यत्र तित्स्वरितम् (6.1.185) इत्यनेन यत्-प्रत्ययस्य यकारः स्वरितः भवति । आ) अन्यत्र सर्वत्र यतोऽनावः (6.1.213) इत्यनेन तद्धितान्तस्य आदिस्वरः उदात्तः जायते ।

Vasu English Summary

After the words दण्ड etc. in the Accusative -2nd case the affix य comes in the sense of ‘who deserves that’.

Vasu English Translation

After the words दण्ड etc. in the Accusative -2nd case the affix य comes in the sense of ‘who deserves that’. The word नित्य does not govern this sutra. This य debars ठक् (5.1.19). Thus दण्डमर्हति = दण्ड्यः ‘deserving to be killed’. मुसल्यः &c.

1 दण्ड, 2 मुसल, 3 मधुपर्क, 4 कशा, 5 अर्घ, 6 मेघ, 7 मेधा, 8 सुवर्ण, 9 उदक, 10 वध, 11 युग, 12 गुहा, 13 भाग, 14 इभ, 15 भङ्ग, ॥

Note.- The Sidhanta-Kaumudi gives the sutra as दण्डादिभ्यो यत्; another version gives the sutra as दण्डादिभ्यः only drawing the affix यत् from the last sutra.

Kashika

नित्यमिति निवृत्तम्। दण्डादिभ्यो द्वितीयासमर्थेभ्योऽर्हतीत्यस्मिन्नर्थे यः प्रत्ययो भवति। ठकोऽपवादः। दण्डमर्हति दण्ड्यः। मुसल्यः॥ दण्ड। मुसल। मधुपर्क। कशा। अर्घ। मेधा। मेघ। युग। उदक। वध। गुहा। भाग। इभ। दण्डादिः॥

Siddhanta Kaumudi

एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्ध्यः । वध्यः ॥

Laghu Siddhanta Kaumudi

एभ्यो यत् स्यात्। दण्डमर्हति दण्ड्यः। अर्घ्यः। वध्यः॥

Balamanorama

दण्डादिभ्यः - दडादिभ्यः । यदित्यनुवर्तते । तदाह — यत्स्यादिति । ‘दण्डादिभ्यो यः’ इति त्वपपाठः,अचोय॑दिति सूत्रभाष्ये तथैव दर्शनात् । अध्र्य इति । मूल्यं, पूजाविधि वार्हतीत्यर्थः ।मूल्ये पूजाविधावर्धः॑ इत्यमरः । वध्य इति । वधमर्हतीत्यर्थः ।

Tattvabodhini

दण्डादिभ्यः - दण्डादिभ्यः । पूर्वसूत्राद्यदनुवर्तत इकत्याह — यत्स्यादिति । केचित्तुदण्डादिभ्यो यः॑इति पठन्ति, स चाऽपपाठ एव, भाष्यादिविरोधादित्याहुः । तथा हिअचो य॑दिति सूत्रे भाष्ये उक्तं -॒हनो वा यद्वधा देशश्च॑ । वध्यः घात्यः ।तद्धितो वा॑ । वधमर्हति वध्य इति । यदि चेह यद्विधीयतेतदैवैतदुपपद्यते, पक्षेद्वयेऽपियतोऽनावः॑इत्याद्युदात्तत्वात् । यदि त्वर यो विधीयत तदा स्वरो भिद्येत । मनोरमायां तुक्यब्विधौ हनो वा वधस्तद्धितो वा॑इति भाष्यम् । यदि चेह यद्विधीयते, तदैवैतदुपपद्यते । क्यप्याद्युदात्तत्वं, यत्यपि तद्धितेयतोऽनावः॑इत्याद्युदात्तत्वमित्यादि स्थितम् ।

Padamanjari

उपायविशेषःउदण्डः, हस्तालम्बश्च। इह’दण्डादिभ्यः’ इत्येतावत्सूत्रम्, अनन्तरश्च यत्प्रत्ययो विधीयतेऽ। तथा च वध्यशब्दवल्युत्पादनाय क्यब्विधावुक्तम् -‘हनो वध च तद्वितो वा’ इति, यदि चात्र यद्विधीयते तत एव तदुपपद्यते तद्धितो वेति। कथम् ? क्यप्याद्यौदातत्वम्, यत्यपि तद्धिते’यतो’ नावःऽ इत्याद्यौदातत्वमेव। यदि त्वत्र यो विधीयेत ततः स्वरे विशेषादनुपपन्नमेतत्स्यात्। उतरसूत्रे चास्य यस्यैवानुवृत्तिः स्यात्, न यतः। अथापि स्वरितत्वाद्यत एवानुवृत्तिरुच्यते ? एवमपि वृत्तिकारस्यैतद्वक्तुमापद्येत -‘यदनुवर्तते नानन्तरो यः’ इति। ये त्विभ-वध-मेधशब्दाना यदन्तानामाद्यौदातानां च्छन्दसि प्रयोगाः - ठिभ्यान्न राजा वनान्यति, तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति, अपां मेध्यं यज्ञियम्ऽ इत्याद्याः, ते दण्कडादिभ्यो यविधानेऽप्युपपद्यन्ते। कथम् ? दण्कडादिभ्यो यःऽ दण्डादिभ्यश्च्छन्दस्युभयप्रसङ्गे परत्वाद्यद्भविप्यति। तस्मादेते प्रयोगाः’दण्डादिभ्यो यद्विधीयते’ इत्यत्रार्थे प्रमाणत्वेन नोपन्यसनीयाः ॥

Nyaas

दण्डशब्दोऽयमस्ति क्रियावचनः - द्डनं दण्ड इति, अस्ति द्रव्यवचनः; विशेषाभावाद्द्वयोरपि ग्रहणम्॥

Sutra Prayogas

  • दण्ड्यान् (रघुवंशम्): दण्डादिभ्यो यः इति यप्रत्ययः।

  • वध्यस्य (रघुवंशम्): दण्डादिभ्यो यत् इति यत्प्रत्ययः।

  • अनर्घ्यम् (कुमारसम्भवम्): दण्डादिभ्यो यः इति यप्रत्ययः।