51065: शीर्षच्छेदाद्यच्च

Padacheda: शीर्षच्छेदात् | S | 5 | 1 |

यत् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘नित्यमर्हति’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘शीर्षच्छेद’ यत् प्रत्ययः भवति, पक्षे ठक् प्रत्ययः अपि विधीयते ।

तदर्हति (5.1.63) अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः ‘अर्हति’ अस्मिन् अर्थे प्रत्यनविधानं भवति । तद् बाधित्वा अनेन सूत्रेण ‘नित्यम् (= सर्वदा) अर्हति’ अस्मिन् अर्थे ‘शीर्षच्छेद’ शब्दात् यत्-प्रत्ययः भवति । अस्मिन् सूत्रे ‘च’ इति उच्यते, अतः पक्षे आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक् (5.1.19) इति ठक्-प्रत्ययः अप्यत्र विधीयते । उदाहरणात् पूर्वमत्र एकः बिन्दुः ज्ञातव्यः । काशिकायाम् कौमुद्यां च एतत् स्पष्टीक्रियते, यत् अत्र विग्रहवाक्यम् ‘शिरसः छेदम् नित्यमर्हति’ एतादृशम् भवति । अत्र विग्रहवाक्ये वस्तुतः ‘शिरस्’ इति शब्दः विद्यते । परन्तु प्रक्रियायां प्रत्ययसन्नियोगेन ‘शिरस्’ इत्यस्य ‘शीर्ष’ अयमादेशः निपात्यते । प्रक्रिया इयम् - 1) यत्-प्रत्ययः - शिरसः छेदम् नित्यमर्हति सः = शिरस् + छेद + यत् → शीर्षछेद + यत् [प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते - इति काशिका ।] → शीर्षछेद् + य [यस्येति च (6.4.148) इति अकारलोपः] → शीर्षत्छेद्य [छे च (6.1.73) इति तुगागमः] → शीर्षच्छेद्य [स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वम्] 2) ठक्-प्रत्ययः -

शिरसः छेदम् नित्यमर्हति सः

= शिरस् + छेद + ठक् → शीर्षछेद + ठक् [प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते - इति काशिका ।] → शैर्षछेद + ठक् [किति च (7.2.118) इति आदिवृद्धिः] → शैर्षछेद + इक [ठस्येकः (8.3.50) इति इक-आदेशः] → शैर्षछेद् + इक [यस्येति च (6.4.148) इति अकारलोपः] → शैर्षत्छेदिक [छे च (6.1.73) इति तुगागमः] → शैर्षच्छेदिक [स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वम्] शिरसः छेदम् नित्यमर्हति सः शीर्षच्छेद्यः शैर्षच्छेदिकः वा अरिः । स्मर्तव्यम् - शिरस्-इत्यस्य ‘शीर्ष’ आदेशः प्रक्रियायाम् एव भवति, केवलवाक्यस्य विषये न । यथा ‘शिरसः छेदमर्हति’ इत्यत्र अयं आदेशः न भवति, अतः ‘शीर्षच्छेदम् अर्हति’ इति न वक्तव्यम् । ‘शिरसः छेदमर्हति’ इति वक्तव्यम् , नो चेत् ‘शीर्षच्छेद्य / शैर्षच्छेदिक’ इति वक्तव्यम् ।

Vasu English Summary

The affix यत् as well as the above affixes come after the word शीर्षच्छेद in the Accusative -2nd case in the sense ‘who deserves that under all circumstances’.

Vasu English Translation

The affix यत् as well as the above affixes come after the word शीर्षच्छेद in the Accusative -2nd case in the sense ‘who deserves that under all circumstances’. Thus शिरश्छेदं नित्यमर्हति = शीर्षच्छेद्यः, or शैर्षच्छेदिकः ॥ The word शिरस् is changed irregularly into शीर्ष before the affix.

Kashika

शीर्षच्छेदशब्दाद् द्वितीयासमर्थाद् नित्यमर्हतीत्यस्मिन्नर्थे यत् प्रत्ययो भवति, चकाराद् यथाविहितं च। शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः, शैर्षच्छेदिकः। प्रत्ययसन्नियोगेन शिरसः शीर्षभावो निपात्यते॥

Siddhanta Kaumudi

शीरश्च्छेदं नित्यमर्हति शीर्षच्छेद्यः । शैर्षच्छेदिकः । यट्ठकोः संनियोगेन शिरसः शीर्षभावो निपात्यते ॥

Balamanorama

शीर्षच्छेदाद्यच्च - शीर्षच्छेदाद्यच्च । चादार्हीयदृक् । ननुशीर्षंश्छन्दसी॑ति छन्दस्येव शिरसः शीर्षादेव विधानात्कथमिह शीर्षादेश इत्यत आह — यट्ठकोरिति ।

Padamanjari

प्रत्ययसन्नियोगेनेति। तथा च शिरःशब्देन विग्रहो दर्शितः। कथं तर्हि पूर्वमुक्तम्-शीर्षच्छेदशब्दाद् द्वितीयासमर्थादिति ? न प्रयोगार्हे वाक्ये द्वितीयासमर्थता, किं तर्हि ? यदुपमर्द्दनेन वृत्तिर्भवति तत्र प्रकियावक्ये प्रत्ययौ द्वौ - यच्च, ठक्च, एवं च प्रत्ययामभ्यां सन्नियोग इति द्विवचनान्तेन समासः ॥

Nyaas

प्रत्ययसन्नियोगेन शीर्षभावः, तेन वाक्ये प्रत्ययाभावान्न भवतीति भावः॥

Prakriyasarvasvam

तन्नित्यमर्हन् शीर्षच्छेद्यः । चाट्ठकि शौर्षच्छेदिकः ॥

Sutra Prayogas

  • शीर्षच्छेद्यं (रघुवंशम्): शीर्षच्छेदाद्यञ्च इति यत्प्रत्ययः।

  • शीर्षच्-छेद्य (भट्टिकाव्यम्): शीर्षच्छेदाद्यत् इति यत्।