51067: छन्दसि च¶
Padacheda: छन्दसि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘अर्हति’ अस्मिन् अर्थे वेदेषु भिन्नेभ्यः प्रातिपदिकेभ्यः यत् प्रत्ययः कृतः दृश्यते ।
‘अर्हति’ अस्मिन् अर्थे दण्डादिभ्यः (5.1.66) इत्यनेन दण्डादिगणस्य शब्देभ्यः यत्-प्रत्यये प्राप्ते; वेदेषु तु अन्येभ्यः प्रातिपदिकेभ्यः अपि यत्-प्रत्ययः कृतः दृश्यते । तस्य समर्थनार्थम् एतत् सूत्रम् निर्मितमस्ति । यथा - 1. यथा - ऋग्वेदः 1.91.20 - सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै । अत्र विद्यमानः ‘सादन्य’ शब्दः यत्-प्रत्ययान्तः अस्ति = सादनम् (सदनम् / गृहम् इत्यर्थः) अर्हति सः = सादन + यत् → सादन्य । 2. कौषितकीब्राह्मणे दशमाध्याये - ‘अथ यूप्य एको द्रव्य एको गर्त्य एकः’ । अत्र त्रिवारम् यत्-प्रत्ययः ‘अर्हति’ अस्मिन् अर्थे कृतः अस्ति - यूपम् (बलिम्) अर्हति सः यूप्यः । द्रवम् अर्हति सः द्रव्यः । गर्तमर्हति सः गर्त्यः ।
Vasu English Summary¶
The affix यत् (य) comes in the sense of ‘deserving that’ after a प्रातिपदिक (Nominal Stem), in the छन्दस् (Vedas).
Vasu English Translation¶
The affix यत् (य) comes in the sense of ‘deserving that’ after a प्रातिपदिक (Nominal Stem), in the छन्दस् (Vedas). This debars ठञ् &c. Thus उदक्या वृत्तयः, यूप्यः पलाशः, गर्त्यो देशः ॥ See (6.1.213).
Kashika¶
प्रातिपदिकमात्रात् छन्दसि विषये तदर्हतीत्यस्मिन्नर्थे यत् प्रत्ययो भवति। ठञादीनामपवादः। उदक्या वृत्तयः। यूप्यः पलाशः। गर्त्यो देशः॥
Siddhanta Kaumudi¶
प्रातिपदिकमात्रात्तदर्तहतीति यत् । सादन्यं विदर्थ्यम् (सा॒द॒न्यं॑ विद॒र्थ्य॑म्) ॥
Nyaas¶
यदनुवर्तते, नानन्तरो यः; यत एव स्वरितत्वात्॥
Prakriyasarvasvam¶
तदर्हतीत्यर्थे सर्वशब्देभ्यो यः स्यात् । यूप्यः पलाशः ।