51036: द्वित्रिपूर्वादण् च¶
Padacheda: द्वित्रिपूर्वात् | S | 5 | 1 |
अण् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
सर्वेषु आर्हीय-अर्थेषु ‘द्वौ शाणौ’, ‘त्रयः शाणाः’ एतयोः विषये ‘अण्’ तथा ‘यत्’ प्रत्ययौ विकल्पेन भवतः ।
शाण-शब्दस्य पूर्वपदम् ‘द्वि’ उत ‘त्रि’ इति जायते चेत् सर्वेषु आर्हीयेषु अर्थेषु शाणाद्वा (5.1.35) इत्यनेन विकल्पेन यत्-प्रत्यये प्राप्ते पक्षे विकल्पेन अण्-प्रत्ययः अपि विधीयते । पक्षे च औत्सर्गिकः ठञ्-प्रत्ययः अपि भवति, यस्य च अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन लुक् जायते । द्वौ शाणौ परिमाणमस्य तत् - 1) द्वि + शाण + यत् → द्विशाण्यम् । 2) द्वि + शाण + अण् → द्वैशाणम् । अत्र परिमाणान्तस्यासंज्ञाशाणयोः (7.3.17) इत्यनेन उत्तरपदवृद्धिः न भवतीति स्मर्तव्यम्, अस्मिन् सूत्रे ‘असंज्ञाशाणयोः’ इति निषेधात् । 3) द्वि + शाण + ठञ् → द्विशाणम् । अत्र अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन प्रत्ययलुक् भवति । ज्ञातव्यम् - अत्र प्राग्वतीय-प्रकरणस्य आर्हीय-विशिष्टाः अर्थनिरपेक्ष-अपवादाः समाप्यन्ते । अग्रिमसूत्रात् आरभ्य आर्हीयअर्थाः तेषाम् विशिष्टाः अपवादाः च पाठिताः सन्ति ।
Vasu English Summary¶
The affix अण् (-/- -अ) as well as यत् optionally also comes after the word शाण , in the आर्हीय-senses (5.1.37)-63, when preceded by the words द्वि and त्रि।
Vasu English Translation¶
The affix अण् (-/- -अ) as well as यत् optionally also comes after the word शाण , in the आर्हीय-senses (5.1.37)-63, when preceded by the words द्वि and त्रि। The यत् comes optionally by the last sutra and is also drawn into this by the word च. Thus we have three forms, द्विशाण्यम्, द्वैशाणम्, and द्विशाणम्, so also त्रिशाण्यम्, त्रैशाणम् and त्रिशाणम् ॥ 5.1.37.md’’ The irregular Vriddhi of the second term in cases of compounds of numerals, taught in (7.3.15) - (7.3.17), does not however take place in the case of शाण, this word being especially excluded from the operation of those rules, see (7.3.17). The Vriddhi here is regular as taught by the general rule (7.2.117).
Kashika¶
शाणाद्वेत्येव। द्वित्रिपूर्वात् शाणान्तात् प्रातिपदिकादार्हीयेष्वर्थेषु अण् प्रत्ययो भवति, चकाराद् यत् च वा। तेन त्रैरूप्यं संपद्यते। द्वैशाणम्, द्विशाण्यम्, द्विशाणम्। त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम्। परिमाणान्तस्यासंज्ञाशाणयोः (७.३.१७) इति पर्युदासादादिवृद्धिरेव भवति॥
Siddhanta Kaumudi¶
शाणात्इत्येव । चाद्यत् । तेन त्रैरूप्यम् । परिमाणान्तस्यासंज्ञाशाणयोः (SK1683) इति पर्युदासादादिवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् । द्वीशाणम् । इह ठञादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थास्चाकाङ्क्षितास्त इदानीमुच्यन्ते ॥
Tattvabodhini¶
द्वित्रिपूर्वादण्। वार्तिकमिदं वृत्तिकृता सूत्रेषु प्रक्षिप्तम्। भाष्यादिप्रामाण्याच्छतग्रहणमिह न संबध्यत इत्याशयेनाह - शाणादित्येवेति। न्यासकृता त्वण्विधायके वार्तिके सूत्रत्वभ्रमणे व्याख्यातम् - शत शाणाभ्यां वे`ति सूत्रयितव्ये `पणवादे`कति पूर्वसूत्रे शतग्रहणं क्रियते तस्येदं फलं, - शतशब्दः स्वरितत्वेनानुवर्तमानोऽपि `शाणाद्वा`इत्यत्रैव संबध्यते, तदुत्तरसूत्रे `द्वित्रिपूर्वादण् चे`त्यत्र तु न संबध्यते, तेन शतशब्दादण् नेति। तदिदं सामर्थ्यवर्णनमण्विधायकं यदि सूत्रं स्यात्तदा सङ्गच्छते नान्यथेत्यास्तां तावत्। त्रैरूप्यमिति। तदेतद्दर्शयति - द्वैशाणमित्यादिना। अण्येकं, ठञो लुकि द्वितीयं, यति तृतीयम्। ठञादयस्त्रयोदशेति। ननु एकदशैव प्रत्ययाः प्रकृताः, सूत्रभेदेन विहितत्वाद्यत्प्रत्ययस्य द्विर्गणने तु द्वादशेति त्रयोदशेत्येतद्दुरुपपादमेव। न च `शूर्पादञन्यतरस्या`मित्यन्यतरस्याङ्ग्रहणलभ्यठञमादाय त्रयोदशत्वं सूपपादिमिति वाच्यं, तुल्यन्यायेन `शाणाद्वे`ति सूत्रलभ्ययट्ठञोग्र्रहणेन पञ्चदशत्वप्रसङ्गात्। नापि सूत्रोपात्तैद्र्वादशभिः सह `द्वित्रिपूर्वादण् चे`ति वार्तिकोपात्ताऽण्प्रत्ययस्य गणनेन निर्वाहः।उक्तरीत्या`कंसाट्टिठ`न्निति सूत्रे `अर्धाच्चेति वक्तव्यं, `कार्षापणाट्टिठन्`इति सूत्रस्थ एव टिठन् अध्यर्धकार्षापणशब्दाभ्यां परामष्ट इति स नभिद्यते। `द्वित्रिपूर्वादण् चे`ति स वार्तिकस्थोऽण् तु भिद्यते, `शतमानविंशतिके`त्यणो दूरस्थत्वेन परामर्ष्टुंमशक्यत्वादिति।
Padamanjari¶
वार्तितके दर्शनात्सूत्रेष्वेतत्प्रक्षिप्तम्। त्रैरूप्यं भवतीति। अण्येकम्, यति द्वितीयम्, ठञो लुकि तृतीयम् ॥
Prakriyasarvasvam¶
द्वैशाणम् । त्रैशाणम् । चकाराद् यल्लुकौ च । अत्रासंज्ञाशाणयोरित्युक्तेरुत्तर- पदवृद्धयभावात् पूर्वपदस्यैव वृद्धिः । शाण उन्मानभेदः । <karika>गुरुत्वमानमुन्मानं दैर्ध्यमाने प्रमाजगीः । प्रस्थादि परिमाणं स्यात् सङ्ख्या त्रिभ्योऽपि भिद्यते ॥ २९६ ॥</karika> इह तु उन्मानस्यापि परिमाणत्वमिष्टम् । तत्र परिमाणान्युच्यन्ते— <karika>द्वे मुष्टी प्रसृतिस्ते द्वे कुडुपोऽञ्जलिसम्मितः । चत्वारः कुडुपाः प्रस्थस्तच्चतुष्टयमाढकम् ॥ २९७ ॥ तदेव कंसः पात्रं च द्रोणः स्यात् तच्चतुष्टयम् । तौ द्वौ शूर्पः शूर्पयुगं गोणी वाहस्तु तद्द्वयम् ॥ २९८ ॥ वाहद्वयं तु खारी तामन्ये हस्तघनां विदुः ।</karika> अथोन्मानानि— <karika>आचितं दश भाराः स्युर्भारः स्याद् विंशतिस्तुलाः । तुला पलशतं प्रोक्तं शतमानं पलार्धके ॥ २९९ ॥ पलाङ्घ्रिरक्षः कर्षश्च कर्षाङ्घ्रिः शाण उच्यते । शाणाङ्घ्रिर्माष इत्युक्तः पञ्चांशस्तस्य कृष्णलः ॥ ३०० ॥ हेम्नः कर्षस्तु बिस्तश्च सुवर्ण इति चोच्यते । माषः शणस्तलं मुष्टिः कुडुबश्च चतुर्गुणाः ॥ ३०१ ॥ इत्युक्तेः परिमाणेऽपि शाणमाषौ मताविमौ । वराटकाख्यमूल्यानां विंशतिः काकणी भवेत् ॥ ३०२ ॥ कार्षापणः पणो निष्को रूपकश्च समा इमे । तदर्धेऽर्धं च भागश्च पादस्तच्चतुरंशके ॥ ३०३ ॥</karika> इति ॥