51037: तेन क्रीतम्¶
Padacheda: तेन | S | 3 | 1 |
क्रीतम् | S | 1 | 1 |
Sutrartha¶
‘क्रीतम्’ अस्मिन् अर्थे तृतीयासमर्थप्रातिपदिकेभ्यः यथाविहितं प्रत्ययः भवति ।
‘क्रीतम्’ इति क्री-धातोः क्त-प्रत्ययान्तरूपम् । ‘मूल्यं दत्त्वा स्वीकृतम्’ इत्यर्थः । तृतीयासमर्थात् मूल्यवाचिशब्दात् ‘क्रीतम्’ अस्मिन् अर्थे वस्तुनः निर्देशं कर्तुम् यथाविहितं प्रत्ययः भवति । यथा - 1. सप्तत्या क्रीतम् = सप्तति + ठञ् [प्राग्वतेष्ठञ् (5.1.18) इति ठञ्] → साप्ततिकम् । 2. पञ्चभिः क्रीतम् = पञ्च + कन [संख्याया अतिशदन्तायाः कन् (5.1.22) इति कन्] → पञ्चक 3. पादेन क्रीतम् = पाद + ठक् [असमासे निष्कादिभ्यः (5.1.20) इति ठक्] → पादिक ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः ‘तेन’ इति तृतीयासमर्थः केवलम् मूल्यम् एव दर्शयति, साधनमुत कर्तारम् न । यथा, ‘हस्तेन क्रीतम्’ उत ‘देवदत्तेन क्रीतम्’ एतेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति । अस्मिन् विषये कोऽपि सिद्धान्तः नास्ति, केवलं ‘अनभिधानात्’ (इत्युक्ते, शिष्टप्रयोगस्य अभावात्) एतादृशाः प्रयोगाः न क्रियन्ते । 2. अस्य सूत्रस्य प्रयोगः प्रायः एकवचनस्य विषये एव भवति । यथा - ‘प्रस्थेन क्रीतम्’ इत्यत्र ‘प्रस्थ + ठञ् → प्रास्थिक’ इति सिद्ध्यति, परन्तु ‘प्रस्थाभ्यां क्रीतम् / प्रस्थैः क्रीतम्’ इत्यत्र तद्धितप्रत्ययस्य प्रयोगः न भवति । अत्रापि विशिष्टं कारणं नास्ति, केवलम् ‘अनभिधानात्’ इत्येव भाष्ये उच्यते । परन्तु यत्र प्रकृतेः एकवचनमसमीचीनम् वर्तते, तत्र तु यथायोग्यं द्विवचन-बहुवचनयोः प्रयोगः भवत्येव । यथा, ‘द्वि’ शब्दः नित्यद्विवचनान्तः अस्ति, अतः ‘द्वाभ्याम् क्रीतम्’ इत्यत्र द्विवचने सत्यपि तद्धितप्रत्ययस्य प्रयोगः भवति । तथैव, ‘मुद्गैः क्रीतम्’ इत्यत्रापि तद्धितप्रत्यययोजनं भवितुमर्हति, यतः एकेन वा द्वाभ्याम् मुद्गाभ्याम् न किञ्चित् क्रयणम् सम्भवति ।
Vasu English Summary¶
The thirteen affixes taught in (5.1.18)-36 have the sense of ‘purchased with this price’ and are added to a word in the third case in construction.
Vasu English Translation¶
The thirteen affixes taught in (5.1.18)-36 have the sense of ‘purchased with this price’ and are added to a word in the third case in construction. The thirteen affixes ठञ्, ठक्, ठन्, यत्, कन्, ड्वुन्, टिठन्, अञ्, अण्, ख, ईकन्, यत् and अण् have already been taught. Now is taught their sense, and the case in construction of the word to which they should be added. The तेन shows that the word must be in the 3rd case in construction : and क्रीतम् shows that the sense is that of ‘purchased’. The illustrations have already been given in the previous sutras. Some more may be mentioned here. Thus सप्तत्याक्रीतं = साप्ततिकम्, आशीतिकम्, नैष्किकम्, पाणिकम्, पादिकम्, माषिकम्, शत्यम्, शतिकम्, द्विकम्, त्रिकम् &c.
The affix will come after a word in the 3rd case in construction when it means ‘price,’ and the force of the 3rd case is that of ‘instrument’ (2.3.18) and not that of ‘agent.’ Therefore, there is no affixing in the words देवदत्तेन क्रीतं or पाणिना क्रीतं ॥
Nor does the affix come after a dual or a plural. Thus प्रस्थाभ्यां क्रीतं or प्रस्थैः क्रीतं, there is no affixing, as it is not the idiom. But द्वाभ्यां क्रीतं = द्विकम्, त्रिकम्, पंचकम्, मुद्गैः क्रीतं = मौद्गिकम्, माषिकम्. Here there is affixing after a dual and plural, for the words द्वि, त्रि are essentially dual or plural, and in the case of मुद्गः and माषः, those are always used in the plural, for it is not possible to purchase anything with a single grain of मुद्ग or माषः ॥
Bhashya¶
तेन क्रीतम् (1919) (क्रीतार्थाधिकरणम्) (5630 एकदेश्युपसंख्यानवार्तिकम्॥ 7 ॥) - तेन क्रीतमिति करणात् - (भाष्यम्) तेन क्रीतमित्यत्र करणादिति वक्तव्यम्। इह मा भूद् - देवदत्तेन क्रीतम्, यज्ञदत्तेन क्रीतमिति॥ (5631 एकदेश्युपसंख्यानवार्तिकम्॥ 2 ॥) - अकर्त्रेकान्तात् - (भाष्यम्) अकर्त्रेकान्तादिति वक्तव्यम्। इह मा भूत् - देवदत्तेन पाणिना क्रीतमिति॥ (5632 एकदेश्युपसंख्यानवार्तिकम्॥ 3 ॥) - संख्यैकवचनाद् द्विगोश्चोपसंख्यानम् - (भाष्यम्) संख्याया इति वक्तव्यम्। इहापि यथा स्यात्- पञ्ञ्चभिः क्रीतं पञ्ञ्चकम्। किं पुनः कारणं न सिध्यति? एकवचनान्तादिति वक्ष्यति, तस्यायं परस्तादपकर्षः। एकवचनात्। एकवचनान्तादिति वक्तव्यम्। इह मा भूत् - शूर्पाभ्यां क्रीतम्, शूर्पैः क्रीतमिति। द्विगोश्चेति वक्तव्यम्। इहापि यथा स्यात् - द्वाभ्यां शूर्पाभ्यां क्रीतं - द्विशूर्पम्, त्रिशूर्पमिति। (आक्षेपभाष्यम्) यद्येकवचनान्तादित्युच्यते, मुद्गैः क्रीतं मौदि्गकम्, माषैः क्रीतं माषिकमिति न सिध्यति। परिमाणस्य संख्याया यदेकवचनं तदन्तादिति वक्तव्यम्। तत्तर्ह्येकवचनान्तादिति वक्तव्यम्। तस्मिंश्च क्रियमाणे बहु वक्तव्यं भवति। न वक्तव्यम्। कस्मान्न भवति शूर्पाभ्यां क्रीतं शूर्पैः क्रीतमिति? (5633 सिद्धान्तवार्तिकम्॥ 4 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? अनभिधानादिति॥ यद्येवम्, करणात् अकर्त्रेकान्तात् इत्यपि न वक्तव्यम्॥ कर्तुः कर्त्रेकान्ताद्वा कस्मान्न भवति? अनभिधानात्॥
Kashika¶
ठञादयस्त्रयोदश प्रत्ययाः प्रकृताः। तेषामितः प्रभृति समर्थविभक्तयः प्रत्ययार्थाश्च निर्दिश्यन्ते। तेनेति तृतीयासमर्थात् क्रीतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सप्तत्या क्रीतं साप्ततिकम्। आशीतिकम्। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। शत्यम्। शतिकम्। द्विकम्। त्रिकम्। तेनेति मूल्यात् करणे तृतीया समर्थविभक्तिः। अन्यत्रानभिधानाद् न भवति देवदत्तेन क्रीतम्, पाणिना क्रीतमिति। द्विवचनबहुवचनान्तात् प्रत्ययो न भवति। प्रस्थाभ्यां क्रीतम्, प्रस्थैः क्रीतमिति, अनभिधानादेव। यत्र तु प्रकृत्यर्थस्य संख्याभेदावगमे प्रमाणमस्ति तत्र द्विवचनबहुवचनान्तादपि प्रत्ययो भवति। द्वाभ्यां क्रीतं द्विकम्। त्रिकम्। पञ्चकम्। तथा मुद्गैः क्रीतं मोद्गिकम्। माषिकम्। न ह्येकेन मुद्गेन क्रयः संभवति॥
Siddhanta Kaumudi¶
ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् । नैष्किकम् ॥
Laghu Siddhanta Kaumudi¶
सप्तत्या क्रीतं साप्ततिकम्। प्रास्थिकम्॥
Balamanorama¶
तेन क्रीतम् - तेन क्रीतम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः । ठञिति ।उदाह्यियते इति शेषः । गौ पुच्छिकमिति ।अगोपुच्छे॑ति पर्युदासाट्ठगभावे ओत्सर्गिकष्ठञिति भावः । साप्ततिकमिति । सप्तत्या क्रीतमित्यर्थः ।अगोपुच्छसङ्ख्ये॑ति पर्युदासाट्ठगभावे ठञिति भावः । प्रास्थिकमिति । प्रस्थेन क्रीतमित्यर्थः ।अगोपुच्छसङ्ख्यापरिमाणा॑दिति पर्युदासाट्ठगभावे ठञिति भावः । ठगिति । ‘उदाह्यियते’ इति शेषः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः ।असमासे निष्कादिभ्यः॑ इति ठगिति भावः ।
Tattvabodhini¶
तेन क्रीतम् - तेनक्रीतम् । तेनेति तृतीयान्कात्क्रीतार्थे यथाविहितं प्रत्ययाः स्युः । ठञिति ।आर्हा॑दिति सूत्रेअगोपुच्छे॑त्यादिपर्युदासाट्ठगभावे गोपुच्छसप्ततिप्रस्थेभ्यष्ठञ् भवतीत्यर्थः । ननु देव दत्तेन क्रीतं, [पाणिना क्रीतं,]संतोषेण क्रीतमित्यादिवतिप्रसङ्ग इति चेत् । अत्राहुः -करणे तृतीयैवेह समर्थविभक्तिः, सापि मूल्यद्रव्यसमर्पकाच्छब्दादुत्पन्ना, न त्वन्याऽपि, अन्यत्र त्वमिभिधानान्न प्रत्ययः । एतच्चतद्धिताः॑इति महासंज्ञाकरणाल्लभ्यते, तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इति व्याख्यानादिति ।
Padamanjari¶
तेषामिति। अस्य समर्थविभक्तय इत्यनेनैव सम्बन्धः, न प्रत्ययार्थ इत्यनेन। न हि तेषां प्रत्ययानां प्रत्ययार्था निर्दिशयन्ते इत्यन्वयो घटते। ओदनपाकं पचतीतिवद्वा कथञ्चिदन्वयः। तेनेति मूल्यादिति। मूल्यभूतार्थाभिधायिनः करणे या तृतीया सा चेह समर्थविभत्मिरित्यर्थः। मूलेनानाम्यं मूल्यमुलाभ इत्युक्तम्। अन्यत्रेति। अमूल्यादकरणे वा या कृतीया तत्रेत्यर्थः। अनभिधानादेवेति। एवकारः पौनर्वचनिकः। किञ्च- प्रस्थादयः शब्दा नियतपरिमाणानामर्थानां वाचका न मात्रयापि न्यूनाधिकभावे प्रवर्तन्ते, न हि यथा जलमिति प्रस्थेऽपि भवति, कुडवेऽपि भवति, यथा वाग्निरिति भ्राष्ट्राग्नावपि भवति, दावाग्नावपि भवति; यथा वा एको व्रीहिः सम्पन्न इत्यादौ जात्यात्मना सर्वासां व्यक्तीनामैक्यं प्रतीयते, तथा प्रस्थादिषु भवति। तस्मातेषु विभक्तयभावे यावतस्ये वाचकास्तावदेव गम्यते। वाक्ये तु प्रस्थाभ्याम्, प्रस्थैरिति द्विवचनबहुवचनबलातावतोऽनेकस्यावगतिर्भवति। द्वकम्, त्रिकमिति। अत्र हि प्रकृतेरेव वाच्ये द्वित्वबहुत्वे विभक्तिस्तु करणत्वमात्रमाचष्टे, सा च प्रकृतिर्वृतावपि विद्यते। न ह्यएकेन मुद्रेनेति। एकया मुद्गव्यक्त्येत्यर्थः। जात्याख्यायां त्वेकवचनान्तादपि भवत्येव। ननु यद् निष्केण क्रीतं तस्य निष्को वस्नो भवति, ततश्च’सो’ स्यांशवस्रभृतयःऽ इत्येव सिद्धः प्रत्ययः, नार्थ एतेन ? एवं तर्हि यस्य शतं मूल्यं न भवत्यथ च तेन क्रीतं कार्यवशातदर्थमिदम् ॥
Nyaas¶
साप्ततिकम्, आशीतिकम् इति। प्राग्वतेष्ठञ् (5.1.18) नैष्किकम्; पाणिकम्` इति। असमासे निष्कादिभ्यः (5.1.20) इति ठक्। शत्यम्, शतिकम् इत। असमासे निष्कादिभ्यः (5.1.20) इति ठक्। शत्यम्, शतिकम् इति। शताच्च ठन्यतावशते (5.1.21) इति। द्विकम्, त्रिकम् इति। संख्याया अतिशदन्तायाः कन् (5.1.22) । सामान्यार्थाभिधाने तेनेति तृतीयोपादनादिह कस्मान्न भवति - देवदत्तेन क्रीतम्, पाणिना क्रितम्? इत्यत आह - तेन इत्यादि। करणे तृतीया। परिमूल्यात्? ततः प्रत्ययेन भवितव्यम्। अन्यत्र इति। अन्यतर मूल्यात्? करणे तृतीया भवति। अनभिधानात् इति। न हि या कर्तरि तृतीया याप्यमूल्यात्? करणे तृतीयोत्पद्यते, तदन्तादुत्पन्नः प्रत्यायो विवक्षितं वस्तु प्रतिपादयितुमलं सम्भवति। तथा ह - दैवदत्तिकं पाणिकमिति चोक्ते, देवदत्तेन कत्र्रा क्रीतम्? पाणिना करणेन क्रीतमित्येषोऽर्थो नावसीयते। देवदत्तेनेति कर्तरि तृतीया, पाणिनेति करणे। तदेतदुक्तं भवति - प्रगत्यासन्नविनिमयद्रव्यसम्बन्धानभिधानादिति। अनभिधानादेव इति। न हि प्रास्थिकमित्युक्ते, प्रस्थाभ्यां क्रीतं प्रश्थैर्वा क्रीतमित्येषोऽवगम्यते। तत्र पुनरभिधाने को हेतुः? शब्दशक्तिरीदृशी, किमत्रान्येन हेतुना! अपि च प्रस्थादयः शब्दा अर्थतस्तु परिमाणानामर्थानां वाचका इति तेषामभिधेयस्य प्रचये प्रवृत्तिसम्भवे को हेतुः? नन्वेवं वाक्येऽपि प्रचयो नोपपद्येत? नैष दोषः; वाक्ये हि प्रचयस्य वाचिका विभक्तिरस्तीति प्रचयाभिधानं न विरुध्यते। वृत्तौ तु न कश्चित्? प्रचयमाचष्ट इति नासौ वृत्तिविषये युज्यते। यदि तर्हि द्विवचनबहुवचनान्तात्? प्रत्ययेन न भवितव्यम्, एवं सति द्वाभ्यां क्रीतं द्विकम्, त्रिभिः क्रीतं त्रिकमित्येवमादि न सिध्यतीत्यत आह - यत्र तु इत्यादि। अनभिधानं द्विवचनान्तात्? प्रत्ययानुत्पत्तेर्हेतुः। तच्चाभिधानं क्व न भवति? यत्र प्रकृत्यर्थस्य संख्याभेदावगमो नास्तीति; प्रमाणाभावात्। इह तु प्रमाणमस्त्येव किञ्चित्। द्व्यादय एव शब्दाः प्रकृतित्वेनोपात्ताः। ते हि स्वप्रवृत्तिनिमित्तभूतयैव संख्ययाऽवच्छिन्नं वस्तु प्रतिपादयन्ति। अतः स्वार्थस्य संख्याविसेषावगमे प्रमाणम्। तेनात्रानभिधानादित्येष हेतुनस्तिति भवति प्रत्ययः। तथा इत्यादि। यथा त्रिकमित्यादौ प्रकृत्यर्थसंख्यानभावोपगमे प्रमाणसम्भवाद्बहुवचनान्तादपि प्रत्ययो भवति, तथा मौद्गिकमित्यादावपि मुद्गादिशब्दप्रकृतिरत्र स्वार्थस्य संख्यावगमे प्रमाणमित्येतद्दर्शयितुमाह - न ह्रेकेन इत्यादि। मुद्गादिनैकय व्यक्त्या क्रयो न भवतीति विनापि विभक्त्या मुद्गादिशब्दानुवृत्तौ बहुत्वं गम्यते। तत्र प्रमाणं भवति। एकग्रहण त्रयानुपयोगिनोद्र्वयोरप्युपलक्षणं वेदितव्यम्॥
Prakriyasarvasvam¶
अस्मिन्नर्थे ठञाद्यास्त्रयोदश यथोक्तं स्युः । साप्ततिकं मौद्गिकम् । नैष्किकम् । शत्यम् । शतिकमित्यादि । ‘मूल्यादेवेष्टम्’ । तेन वणिजा क्रीतमित्यादौ न । अर्धद्रोणेन क्रीतमिति परिमाणत्वाट्ठञि,