51032: विंशतिकात् खः

Padacheda: विंशतिकात् | S | 5 | 1 |

खः | S | 1 | 1 |

Sutrartha

सर्वेषु आर्हीय-अर्थेषु ‘विंशतिक’शब्दस्य विषये तद्धितार्थे विहितात् अध्यर्धपूर्व/द्विगुसमासात् ख-प्रत्ययः भवति ।

‘विंशतिक’ शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु ख-प्रत्ययः भवति । 1. द्वौ विंशतिकौ परिमाणम् अस्य तत् - द्वि + विंशतिक + ख → द्विविंशतिक + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन-आदेशः] → द्विविंशतिक् + ईन [यस्येति च (6.4.148) इति अकालोपः] → द्विविंशतिकीन । तथैव - 2. अध्यर्धम् विंशतिकम् परिमाणमस्य तत् अध्यर्धविंशतिकीनम् । 3. त्रिभिः विंशतिकाभिः क्रीतम् तत् त्रिविंशतिकीनम् । ज्ञातव्यम् - 1. ‘विंशतिक’ अयम् शब्दः संज्ञावाचकः अस्ति । कस्यचन परिमाणस्य संज्ञा इयम् । विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् (5.1.24) इत्यनेन अयं शब्दः सिद्ध्यति । अस्य शब्दस्य विषये शतमानविंशतिकसहस्रवसनादण् (5.1.27) इत्यनेन अण्-प्रत्ययविधानम् क्रियते । अध्यर्धपूर्वसमासस्य तथा द्विगुसमासस्य विषये तद् बाधित्वा अनेन सूत्रेण ख-प्रत्ययः विधीयते । 2. द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा ख-प्रत्ययः क्रियते ।

Vasu English Summary

The affix ख (ईन) comes in the आर्हीय senses (5.1.37)-63 after the word विंशतिक , when preceded by the word अध्यर्द्ध or a Numeral, occasioning a द्विगु।

Vasu English Translation

The affix ख (ईन) comes in the आर्हीय senses (5.1.37)-63 after the word विंशतिक , when preceded by the word अध्यर्द्ध or a Numeral, occasioning a द्विगु। Thus अध्यर्द्धविंशतिकीनम्, द्विविंशतिकीनम् and त्रिविंशतिकीनम् ॥ Being especially ordained, this affix ख is not elided by (5.1.28).

Kashika

अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च विंशतिकशब्दान्तादार्हीयेष्वर्थेषु खः प्रत्ययो भवति। अध्यर्धविंशतिकीनम्। द्विविंशतिकीनम्। त्रिविंशतिकीनम्। विधानसामर्थ्यादस्य लुङ् न भवति॥

Siddhanta Kaumudi

अध्यर्धपूर्वाद्द्विगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ॥

Balamanorama

विंशतिकात् खः - विशतिकात्खः । अद्यर्धपूर्वाद्द्विगोरित्येवेति । पूर्वसूत्रयोरध्यर्धपूर्वादित्यस्याऽसंभवाद्द्विगोरित्यस्य प्रयोजनाऽभावादननुवृत्तावपि इह तदनुवर्तत इति भावः । अध्यर्थविंशतिकीनमिति । अध्यर्धर्विंशत्या क्रीतमध्यर्थविंशतिकम् ।विशतितिंरशद्भ्या॑मिति योगविभागात्कन् । अध्यर्थविंशतिकेन क्रीतमिति विग्रहः । द्विविंशतिकीनमिति । द्वाभ्यां विंशतिकाभ्यां क्रीतमिति विग्रहः ।

Tattvabodhini

विंशतिकात् खः - विंशतिकात्खः ।शतमानविंशतिके॑त्यणिप्राप्ते, तस्य च लुकि प्राप्तेखोऽत्र विधीयते ।

Nyaas

द्वित्रिपूर्वग्रहणं निवृत्तम्; पूर्वत्र चानुकृष्टत्वात्, अस्वरितत्वाद्वा। शतमानादिसूत्रेण (5.1.27) अणि प्राप्ते तस्य लुकि खो विधीयते। `विधानसामर्थ्यादस्य लुग्न भवति इति। यदि लुक्? स्यात्, खविधानमनर्थकं स्यात्। न ह्रणः खस्य च लुकि सति कश्चिद्विसेषोऽस्ति॥

Prakriyasarvasvam

एतदन्तादध्यर्धपूर्वद्विगोः खः । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ॥