51028: अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्

Padacheda: अध्यर्धपूर्व-द्विगोः | S | 6 | 1 |

लुक् | S | 1 | 1 |

असंज्ञायाम् | S | 7 | 1 |

Sutrartha

सर्वेषु आर्हीय-अर्थेषु तद्धितार्थे जायमानात् अध्यर्धपूर्वपदसमासात् द्विगुसमासात् च परस्य तद्धितप्रत्ययस्य संज्ञाविषयं विहाय अन्यत्र लुक् भवति ।

‘अध्यर्ध’ इति कश्चन सङ्ख्यावाचीशब्दः । a half more than something / something plus a half - इत्यर्थः । तद्धितार्थे जायमानस्य अध्यर्धपूर्वसमासस्य तथा च द्विगु-समासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य अनेन सूत्रेण लुक् भवति । परन्तु निर्मितः तद्धितान्तशब्दः संज्ञां दर्शयति चेत् अयं लुक् निषिध्यते । उदाहरणानि पश्यामः - 1. ‘अध्यर्धेन कंसेन क्रीतम्’ इति वाक्यं स्वीक्रियताम् । अत्र तेन क्रीतम् (5.1.37) इत्यस्मिन् अर्थे ‘तद्धितार्थद्विगुः’ समासः भवितुमर्हति । अत्र वस्तुतः ‘कंस’ शब्दात् आर्हीयेषु अर्थेषु कंसात् टिठन् (5.1.25) इत्यनेन टिठन्-प्रत्ययः उच्यते; तदन्तविधिना च सः ‘अध्यर्ध + कंस’ इत्यत्रापि प्राप्नोति । (अस्मिन् स्थले तदन्तविधिः कथम् विधीयते अस्य विवरणम् असमासे निष्कादिभ्यः (5.1.20) इत्यत्र दत्तमस्ति, तत् तत्रैव दृश्यताम्) । अस्य ‘टिठन्’ प्रत्ययस्य वर्तमानसूत्रेण लुक् भवति - अर्ध्यर्धेन कंसेन क्रीतम् = अध्यर्ध + कंस + टिठन् → अध्यर्धकंस [टिठन्-प्रत्ययस्य लुक्] 2. ‘द्वाभ्यां कंसाभ्यां क्रीतम्’ इति वाक्येऽपि तद्धितार्थद्विगुः समासः विधीयते, अतः अत्रापि टिठन्-प्रत्ययस्य लुक् भवति । द्वाभ्यां कंसाभ्यां क्रीतम् = द्वि + कंस + टिठन् → द्विकंस विशेषः - अत्र निर्मितः यः ‘द्विकंस’ शब्दः, तस्य विषये अग्रे पुनः आर्हीय-अर्थः क्रियते चेत् तत्र <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन वार्त्तिकेन तदन्तविधिः निषिध्यते । अतः अस्मात् ‘द्विकंस’शब्दात् तेन क्रीतम् (5.1.37) अस्मिन् अर्थे औत्सर्गिकः ठञ्-प्रत्ययः एव भवति । अग्रे पुनः वर्तमानसूत्रस्य प्रसक्तिः स्यात् वा - इति प्रश्ने प्राप्ते, अत्र एतत् स्मर्तव्यम्, यत् अत्र विहितः तद्धितप्रत्ययः द्विगुनिमित्तकः नास्ति (इत्युक्ते, अयं प्रत्ययः तद्धितार्थ-द्विगुसमासं न जनयति), अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अत्र परिमाणान्तस्यासंज्ञाशाणयोः (7.3.17) इति उत्तरपदवृद्धिः एव भवति, वर्तमानसूत्रेण लोपः न विधीयते । द्विकंसेन क्रीतम् द्विकांसिकम् । 3. परन्तु, यदि निर्मितः तद्धितान्तशब्दः संज्ञावाचकः अस्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, ‘पञ्च कलापानि (unit of time) परिमाणमस्य’ इत्यत्र विहितः ठञ्-प्रत्ययः ‘पाञ्चकलापिकम्’ इति संज्ञाशब्दं जनयति; अतः तस्य निर्माणे वर्तमानसूत्रस्य प्रयोगः न भवति - पञ्च कलापानि परिमाणमस्य = पञ्च + कलाप + ठञ् → पाञ्चकलापिक तथैव, पञ्च लोहिन्यः परिमाणमस्य = पञ्च + लोहिनी + ठञ् → पञ्च + लोहित + ठञ् [<!भस्याढेः तद्धिते पुंवद्भावो वक्तव्यः!> अनेन वार्त्तिकेन अत्र पुंवद्भावः जायते । वर्णादनुदात्तात्तोपधात्तो नः (4.1.39) इत्यनेन ‘लोहिनी’शब्दः ‘लोहित’शब्दात् सिद्ध्यति, अतः अत्र पुंवद्भावे ‘लोहित’ इति जायते । ] → पञ्च + लोहित् + इक [ठस्येकः (8.3.50), यस्येति च (6.4.148) ] → पाञ्चलोहितिक अत्र केचन बिन्दवः ज्ञातव्याः - 1. ठञ्-प्रत्ययस्य लुकि कृते अग्रे स्त्रीत्वे विवक्षिते द्विगोः (4.1.21) इत्यनेन द्विगुसंज्ञकात् स्त्रियाम् ङीप्-प्रत्ययः भवति । यथा - अध्यर्धकंसी, द्विकंसी - आदयः । 2. वस्तुतस्तु ‘अध्यर्ध’ शब्दः स्वयमपि एकाम् सङ्ख्यामेव दर्शयति, अतः अस्मिन् सूत्रे केवलम् ‘द्विगोः’ इति उच्यते चेदपि पर्याप्तं स्यात् (यतः द्विगुसमासस्य निर्माणे सङ्ख्यावाची शब्दः पूर्वपदरूपेण विधीयते) ।एवं सति अस्मिन् सूत्रे ‘अध्यर्ध’ शब्दस्य विशिष्टरूपेण किमर्थम् ग्रहणम् कृतमस्ति - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् काशिकाकारः वदति - ‘ ज्ञापकार्थं, क्वचिदस्य सङ्ख्याकार्यं न भवति’ - इति । इत्युक्ते, अत्र ‘अध्यर्ध’ग्रहणमस्य ज्ञापकमस्ति यत् सङ्ख्याशब्दस्य विषये उक्तानि सर्वाणि कार्याणि ‘अध्यर्ध’शब्दस्य विषये न प्रवर्तन्ते । यथा, संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् (5.4.17) इत्यनेन उक्तः कृत्वसुच्-प्रत्ययः यद्यपि सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः विधीयते, तथापि ‘अध्यर्ध’शब्दस्य विषये तस्य प्रसक्तिः नास्ति । 3. अस्मिन् सूत्रे प्रयुक्तस्य ‘अध्यर्ध’शब्दस्य विषये भाष्यकारः किञ्चित् भिन्नम् मतम् प्रकटीकरोति । सः ब्रूते - ‘उक्तं संख्यात्वे प्रयोजनं तस्मादिहाध्यर्धग्रहणानर्थक्यम्’ । अस्य अर्थः अयम् - बहुगणवतुडति सङ्ख्या (1.1.23) इत्यत्र ‘संख्या’ इति संज्ञा पाठ्यते, तत्र वार्तिककारः ‘समासविधौ कन्-प्रत्ययविधौ च अध्यर्ध-शब्दस्य अपि संख्यासंज्ञा भवति’ इति स्पष्टरूपेण वदति । अतः वर्तमानसूत्रस्य विषये ‘द्विगोः’ इत्यनेन यदा (सङ्ख्यापूर्व-)समासः उच्यते, तदा अध्यर्ध-शब्दस्य ग्रहणम् भवत्येव - तस्य भिन्नरूपेण निर्देशः न आवश्यकः । इत्युक्ते, भाष्यकारस्य मतेेन अस्मिन् सूत्रे ‘अध्यर्ध’शब्दः न आवश्यकः । 4. वर्तमानसूत्रात् ‘अध्यार्धपूर्वद्विगोः’ इत्यस्य अनुवृत्तिः द्वित्रिपूर्वादण् च (5.1.36) इति यावत् गच्छति । अतः एतेषु सर्वेषु सूत्रेषु उक्ताः विधयः केवलं अध्यर्धपूर्वशब्दानाम् तथा द्विगुसमासेन निर्मितानां शब्दानां विषये एव पाठिताः सन्तीति स्मर्तव्यम् । 5. केवलं तद्धितार्थद्विगुसमासस्य विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, समाहारद्विगोः / उत्तरपदद्विगोः विषये न । परन्तु यत्र अ-तद्धितार्थद्विगुसमासः तद्धितार्थद्विगुसमासस्य विषये एव विधीयते, तत्र वर्तमानसूत्रस्य प्रसक्तिः भवति । यथा - ‘द्वयोः शूर्पयोः समाहारः द्विशूर्पी’ इत्यनेन ‘द्विशूर्पी’ इति शब्दः समाहारद्विगुसमासेन जायते । अग्रे ‘द्विशूर्प्या क्रीतम्’ इति स्थिते अस्य वाक्यस्य अर्थः ‘द्वाभ्यां शूर्पाभ्यां क्रीतम्’ इत्येव भवति, अतः ‘द्विशूर्प्या क्रीतम्’ इत्यस्य परिवर्तनम् ‘द्वाभ्यां शूर्पाभ्यां क्रीतम्’ इत्यस्मिन् वाक्ये कृत्वा ततः वर्तमानसूत्रं प्रयुज्य ‘द्विशूर्पम्’ इति शब्दनिर्माणम् कर्तुं शक्यते । अस्मिन् विषये भाष्ये विस्तारेण चर्चा कृता अस्ति, जिज्ञासवः तां पश्यन्तु । 6. अस्मिन् सूत्रे ‘अध्यर्धपूर्वद्विगोः’ इति षष्ठ्यन्तम् रूपमस्ति । इयम् सम्बन्धषष्ठी अस्तीति भाष्यात् स्पष्टीभवति । ‘अध्यर्धपूर्वस्य द्विगुसमासस्य च सम्बन्धी निमित्तभूतः यः तद्धितप्रत्ययः, तस्य लुक् भवति’ इति अत्र आशयः वर्तते ।

Vasu English Summary

The affix having the senses taught up to (5.1.63), is elided by लुक् after a stem beginning with the word अध्यर्ध , and after a द्विगु compound, when it is not in a name.

Vasu English Translation

The affix having the senses taught up to (5.1.63), is elided by लुक् after a stem beginning with the word अध्यर्ध , and after a द्विगु compound, when it is not in a name. The word आर्हात् is understood here also. Thus अध्यर्द्धकंसम्, द्विकंसम्, अध्यर्द्धशूर्पम्, द्विशूर्पम्, त्रिकंसम् , त्रिशूर्पम् ॥ Here the affixes टिठन् and अञ् are elided.

Though in the words द्विशूर्पम् &c. the affix is elided, it is only so when the affixing of the taddhita occasions a Dvigu compounding (2.1.51) such as in द्वाभ्यां शूर्पाभ्यां क्रीतं = द्विशूर्पम् ॥ Here the resultant is a Dvigu compound. But in forming tertiary derivatives the affix is not elided, as द्विशूर्पेण क्रीतं = द्विशौर्पिकम् ॥ Hence the following rule: द्विगोर्लुकि तन्निमित्तग्रहणम् ॥ See (4.1.88), (5.1.20) ॥

Why do we say असंज्ञायाम् ‘when not a Name’? Observe पांचलोहितिकम् or पंचलौहितिकम् and पांचकलायिकम् being names of certain measures. The feminine word लोहिनी is changed into the masculine by the Vartika भस्याढे तद्धिते given under (6.3.35).

The word अध्यर्द्ध is a Sankhya (See (1.1.23)), and a word beginning with it will be a Dvigu compound. Its separate mention in this sutra may appear superfluous. It is however so mentioned, in order to indicate (jnapaka) that this word is not always a Sankhya. Thus for the purposes of the application of the affix कृत्वसूच् (5.4.17), this word is not a sankhya.

Bhashya

अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (1910) (5619 निमित्तग्रहणावश्यकत्वबोधकवार्तिकम्॥ 1 ॥) - द्विगोर्लुक्युक्तम् - (लुकोऽधिकरणम्) (भाष्यम्) किमुक्तम्? तत्र तावदुक्तम् - द्विगोर्लुकि तन्निमित्तग्रहणमर्थविशेषासंप्रत्ययेऽतन्निमित्तादपि इति। इहापि द्विगोर्लुकि तन्निमित्तग्रहणं कर्तव्यम्। द्विगोर्निमित्तं यस्तद्धितस्तस्य लुग्भवतीति वक्तव्यम्। इह मा भूत् - द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्। द्विशूर्पेण क्रीतं द्विशौर्पिकम्। त्रिशौर्पिकम्। अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपि । अर्थविशेषस्यासंप्रत्ययेऽतन्निमित्तादपीति वक्तव्यम्। किं प्रयोजनम्? द्वयोः शूर्पयोः समाहारः - द्विशूर्पी। द्विशूर्प्या क्रीतमिति विगृह्य द्विशूर्पमित्येव यथा स्यात्॥ (तन्निमित्तपदार्थबोधकभाष्यम्) अथ क्रियमाणेऽपि तन्निमित्तग्रहणे कथमिदं विज्ञायते - तस्य निमित्तं-तन्निमित्तम्, तन्निमित्तादिति, आहोस्वित्स निमित्तं यस्य सोऽयं तन्निमित्तः, तन्निमित्तादिति। किं चातः? यदि विज्ञायते - तस्य निमित्तं तन्निमित्तम्, तन्निमित्तादिति। क्रियमाणेऽपि हि तन्निमित्तग्रहणेऽत्र प्राप्नोति - द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्, द्विशूर्पेण क्रीतं द्विशौर्पिकम्। त्रिशौर्पिकम्। अथ विज्ञायते - स निमित्तमस्य सोऽयं तन्निमित्तः, तन्निमित्तादिति। न दोषो भवति। यथा न दोषस्तथाऽस्तु। स निमित्तमस्य सोऽयं तन्निमित्तः, तन्निमित्तादिति विज्ञायते। कुत एतत्? यदयमाह - अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपीति। (निमित्तग्रहणानावश्यकत्वबोधकभाष्यम्) तत्तर्हि तन्निमित्तग्रहणं कर्तव्यम्। न कर्तव्यम्। द्विगोरिति नैषा पञ्ञ्चमी। का तर्हि? संबन्धषष्ठी। द्विगोस्तद्धितस्य लुग्भवति। द्विगोर्यस्तद्धितः। किं च द्विगोस्तद्धितः? निमित्तम्। यस्मिन् द्विगुरित्येतद्भवति। कस्मिंश्चैतद्भवति? प्रत्यये। इदं तर्हि वक्तव्यम् - अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपीति। एतच्च न वक्तव्यम्। इहास्माभिस्त्रैशब्द्यं साध्यम् - द्वाभ्यां शूर्पाभ्यां क्रीतम्, द्विशूर्प्या क्रीतम्, द्विशूर्पम्। त्रिशूर्पमिति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः करिष्यते, अपरस्मादुत्पत्तिर्भविष्यति - अविरविकन्यायेन। तद्यथा - अवेर्मांसमिति विगृह्य अविकशब्दादुत्पत्तिर्भवति - आविकमिति। एवमिहापि - द्वाभ्यां शूर्पाभ्यां क्रीतमिति विगृह्य - द्विशूर्पमिति भविष्यति। द्विशूर्प्या क्रीतमिति विगृह्य - वाक्यमेव भविष्यति॥ (पदकृत्यभाष्यम्) असंज्ञायामिति किमर्थम्? पाञ्ञ्चलोहितिकम्, पाञ्ञ्चकलापिकम्॥ (5620 असंज्ञाग्रहणानर्थक्यबोधकवार्तिकम्॥ 2 ॥) - संज्ञाप्रतिषेधानर्थक्यं च तन्निमित्तत्वाल्लोपस्य - (भाष्यम्) संज्ञाप्रतिषेधश्चानर्थकः किं कारणम्? तन्निमित्तत्वाल्लोपस्य। नान्तरेण तद्धितं तद्धितस्य च लुकं द्विगुः संज्ञाऽस्ति, यस्तस्मादुत्पद्यते नासौ तन्निमित्तं स्यात्। एवं तर्हि इदं स्यात् - पञ्ञ्चानां लोहितानां समाहारः पञ्ञ्चलोहिती, पञ्ञ्चलोहित्या क्रीतमिति। अत्रापि पञ्ञ्चलोहितमित्येव भवितव्यम्। कथम्? उक्तं ह्येतत् - अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपीति॥ (5621 अद्ध्यर्धग्रहणानर्थक्यबोधकवार्तिकम्॥ 3 ॥) - उक्तं संख्यात्वे प्रयोजनं तस्मादिहाध्यर्धग्रहणानर्थक्यम् - (भाष्यम्) उक्तं संख्यात्वेऽध्यर्धग्रहणस्य प्रयोजनम्। किमुक्तम्? अध्यर्धग्रहणं च समासकन्विध्यर्थं लुकि चाग्रहणमिति। तस्मादिहाध्यर्धग्रहणानर्थक्यम्। तस्मादिहाध्यर्धग्रहणमनर्थकम्, द्विगोरित्येव लुक् सिद्धः॥

Kashika

आर्हादित्येव। अध्यर्धशब्दः पूर्वो यस्मिन् तस्मादध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च परस्यार्हीयस्य लुग् भवत्यसंज्ञायां विषये। अध्यर्धकंसम्। द्विकंसम्। त्रिकंसम्। अध्यर्धशूर्पम्। द्विशूर्पम्। त्रिशूर्पम्। असंज्ञायामिति किम् ? पाञ्चलोहितिकम्। पाञ्चकलापिकम्। लोहिनीशब्दस्य भस्याढे तद्धिते० (वा० ६.३.३५) इति पुंवद्भावः। प्रत्ययान्तस्य विशेषणमसंज्ञाग्रहणम्, न चेत् प्रत्ययान्तं संज्ञेति। अध्यर्धशब्दः संख्यैव, किमर्थं भेदेनोपादीयते? ज्ञापकार्थम्, क्वचिदस्य संख्याकार्यं न भवति, संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (५.४.१७) इति॥

Siddhanta Kaumudi

अध्यर्धपूर्वाद्द्विगोश्च परस्यार्हीयस्य लुक् स्यात् । अध्यर्धकंसम् । द्विकंसम् । संज्ञायां तु पाञ्चाकलापिकम् ॥

Balamanorama

अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् - अध्यर्धपूर्व । अध्यर्थशब्दः पूर्वो यस्य स अध्यर्धपूर्वः, सच द्विगुश्चेति समाहारद्वन्द्वात्पञ्चमी । सौत्रं पुंस्त्वम् । तदाह — अध्यर्धपूर्वाद्द्विगोश्चेति । आर्हीयस्येति । प्रत्यासात्तिलभ्यम् । अध्यर्थकंसमिति । अध्यारूढमर्द्धं यस्मिन् तत् अध्यर्धम् ।प्रादिभ्यो धातुजस्ये॑ति बहुव्रीहौ पूर्वखण्डे उत्तरपदलोपः । सार्धमित्यर्थः । अध्यर्धेन कंसेन क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः ।संख्याया अतिशदन्तायाः॑ इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति । द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः ।संक्याया अतिशदन्तायाः॑ इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति । द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः । ठको लुक् । नच अध्यर्थकंसमित्यत्रापि द्विगुत्वादेव सिद्धमिति वाच्यं, किञ्चित्संख्याकार्यं कृत्वसुजादिकमध्यर्धशब्दस्य नेति ज्ञापनार्थत्वात् । पाञ्चकलायिकमिति । पञ्च कलायाः परिमाणमस्येति । विग्रहे ‘तद्धितार्थ’ इति द्विगुः ।तदस्ये॑तिठञ् । सङ्ख्यासंज्ञासूत्रभाष्ये तुअध्यर्धपूर्वा॑दिति पाठो दृश्यते । नच द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पं, तेन क्रीतं द्विशौर्पिकमित#इ पूर्वोक्तोदाहरणे ठञो लुक् स्यादिति वाच्यं, द्विगुनिमित्तस्यार्हीयस्य लुगिति व्याख्यानादित्यलम् ।

Tattvabodhini

अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् - अध्यर्धपूर्व । अध्यारूढमर्धं यस्मिन् तदध्यर्धम् ।प्रादिभ्यो धातुजस्ये ॑त्युत्तरपदलोपः । अध्यर्धशब्दः पूर्वो यस्मिन्निति बहुव्रीहिगर्भे बहुव्रीहौ कृते अध्यर्धपूर्वं च द्विगुश्चेकति द्वन्द्वः । सौत्रं पुंस्त्वम् । द्विगोरिति पञ्चमी न तु षष्ठीत्याशयेन व्याचष्टे — — — अध्यर्धपूर्वादित्यादि । एतच्च वृत्तिकाररीत्या व्याख्यातम् । अत्र वार्तिकंद्विगोर्लुकि तन्निमित्तग्रहणम् । द्विगोर्निमित्तं यस्तद्धितस्तस्य लुगिति वक्तव्यम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीतं द्विशैर्पिकमिति । पूर्वोक्तोदाहरणे तु ठञो लुङ् माभूदिति । ननु द्वयोः शूर्पयोः समाहारो द्विशूर्पी, तया क्रीतमिति विग्रहे द्विशूर्पमिति रूपं न स्यात् । तद्धितस्यात्रे द्विगोरनिमित्ततयाअध्यर्धे॑ति लुकोऽप्रवृत्तेः ।द्विगोः परस्ये॑ति व्याख्यायां तु नः सिद्धमिष्टमिति चेन्मैवम् ।अर्थविशेषाऽसंप्रत्यये अतन्निमित्तादपी॑ति वचनान्तरस्या वार्तिककृतैवोक्तत्वात् । यत्र तद्धितार्थद्विगुना सहार्थो न भिद्यते तत्र सतद्धितो यस्य निमित्तं न भवति तस्मादपि द्विगोः परस्य लुगिति वक्तव्यमिति तस्यार्थः । एवं च द्विशूर्पमिति तद्धितार्थद्विग#उना सह द्विशूप्र्या क्रीतमित्यस्यार्थो न भिद्यते इति समाहाराद्विगोः परस्य तद्धितस्य लुग् भवत्येवेति न काप्यनुपपत्तिः । वस्तुतस्तु सूत्रेद्विगो॑रिति षष्ठीमाश्रित्यद्विगोर्निमित्तं यस्तद्धितः॑इति व्याख्याय प्रथमं वार्तिकं प्रत्याख्यातुं शक्यम् ।द्वुशूप्र्या क्रीत ॑मिति विग्रहे तु द्विशूर्पादेव प्रत्ययो भवति, अवयविकन्यायात् , न तु द्विशूर्पीशब्दादित्याश्रित्य द्वितीयमपि प्रत्याख्यातुं शक्यम् । नन्वध्यद्र्धशब्दः संख्यावाच्येव, तथा च लोके गण्यतेएकोऽध्यार्धो द्वौ॑इति । अतएव अध्यर्धकमिति कन्, अध्यर्धकंसमिति तद्धितार्थे द्विगुः, अध्यद्र्धसंवत्सरिकमित्यादौसङ्ख्यायाः संवत्सरसङ्ख्यस्य चे॑त्युत्तरपदवृद्धिश्च भवति, तत्किमध्यर्धपूर्वग्रहणेनेति चेत् । अत्राहुः — — ॒सङ्ख्याकार्यमेतस्य किंचन्ने॑ति ज्ञापनार्थमिदम् । तेन कन्द्विगुसमासोत्तरपदवृद्धिभ्योऽन्यत्र भवति । तद्यथा -अध्यर्धं करोति । नेह कुतृवसुच् । यः सकृत्फलान्तां क्रियामभिनिर्वर्त्त्य पुनस्तामेव कुर्वन्मध्ये निवर्तते स एवमुच्यते इति ।पाञ्चकलायिकमिति । पञ्च कलायाः परिमाणमस्येति विग्रहेतद्धितार्थ ॑इति समासकः ।तदस्य परिमाण॑मिति ठञ् । एवं पाञ्चलोहितिकमपि बोध्यम् । पञ्च लोहिन्यो गुञ्जाः परिमाणमस्येति विग्रहे पूर्वत्समासतद्धितौ ।भस्याऽढे तद्धिते॑इति पुंबद्भावाल्लोहिनीशब्दस्येकारनकारयोरभावः । परिमाणविशेषस्य मानधेये एते । असंज्ञाग्रहणं प्रत्ययान्तस्य विशेषणं, न तु द्विगोः । एतच्च वृत्तिकृता सूत्रशयमनुरुध्य वर्णितमिति इहापि ततैवोक्तम् । भाष्यवार्तिकयोस्त्वसंज्ञाग्रहणं प्रत्याख्यातम् । तथा हि द्विगुविशेषणमसंज्ञाग्रहणम् । पञ्चकलायचपञ्चलोहितशब्दौ च द्विगू कृततद्धितलुकावेव संज्ञे । यस्तु ताभ्यामुत्पद्यते ठन्स श्रूयते एव, द्विगोरनिमित्तत्वेन तस्य लुगभावादिति ।

Padamanjari

अध्यारूढमर्द्धमस्मिन्नत्यध्यर्धम्, प्रादिभ्यो धातुजस्येति बहुव्रीहिः। अध्यर्धपूर्वद्विगोरिति समाहारद्वन्द्वः, सौत्रः पुंल्लिङ्गनिर्द्देशः। तस्मादध्यर्धपूर्वात्प्रातिपदिकाद् द्विगोश्च परस्येति। तेन ठध्यर्धपूर्वद्विगोःऽ इति पञ्चम्याश्रितेति लक्ष्यते। यद्येवम्, द्विगोर्लुकि तन्निमितग्रहणम्, द्विगोर्निमितं यस्तद्धितस्तस्य लुग् भवतीति वक्तव्यम्, द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्, द्विशूर्पेण क्रीतं द्विशौर्पिकमित्यत्र द्वितीयस्य मा भूत्। तथार्थविशेषासंप्रत्यये तन्निमितादपि यत्र तद्धितार्थद्विगुना सहार्थो न भिद्यते, तत्रातन्निमितादपि। स तद्धितो यस्य निमितं न भवति तस्मादपि द्विगोः परस्य लुग्भवतीति वक्तव्यम्-द्वयोः शूर्पयोः समाहारो द्विशूर्पी, द्वशूर्प्या क्रीतमित्यपि विग्रहे द्विशूर्पमित्येव यथा स्यात्। तस्माद् द्विगोरिति नैषा पञ्चमी, का तर्हि ? षष्टी - द्विगोर्यस्तद्धितः। कश्च द्विगोस्तद्धितः ? यस्तस्य निमितं यस्मिन् द्विगुर्मवति। द्विशूर्प्या क्रीतमित्यत्र त्वनभिधानात्प्रत्ययो न भविष्यति। त्र्यैशब्द्यं हि नः साध्यम्द्वाभ्यां शूर्पाभ्यां क्रीतम्, द्विशूर्पम्, द्विशूर्प्या क्रीतमिति; तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रह एव द्विशूर्प्या क्रीतमिति, न तु वृत्तिः, अनभिधानात्। अपरेण विग्रहश्च वृत्तिश्च-द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पमिति, अव्यविकन्यायेन। व्याख्यातोऽव्यविकन्यायः। इदं तावदर्थतत्वम्,’द्विगोर्लुगनपत्ये’ इत्यत्र च वृत्तिकारेणाप्येवमेव व्याख्यातम्, इह तु तदनुसारेण गम्यमानत्वान्नैवं विविच्य व्याख्यातम्, यस्य तद्धितस्य लुगिष्यते सोऽपि द्विगोः पर इत्येतावता द्विगोः परस्येत्युक्तम्। पाञ्चलोहितिकम्, पाञ्चकलापिकमिति। पञ्च लोहिन्यः परिमाणमस्य, पञ्च कलापाः परिमाणमस्येति विगृह्य तद्धितार्थे समासः,’तदस्य परिमाणम्’ इति ठञ्,’भस्या’ ढेअ तद्धितेऽ इति पुंवद्भावाल्लोहिनीशब्दस्येकारनकारयोर्निवृत्तिः, परिमाणविशेषस्य नामधेये एते। प्रत्ययान्तस्य विशेषणमसंज्ञाग्रहणामिति। न तु सन्निहितस्यापि द्विगोः; असंज्ञायामिति सप्तदमीनिर्द्देशात्। वातिंककारस्तु मन्यते -‘द्विगुविशेषणमसंज्ञाग्रहणं पञ्चलोहित-पञ्चकलापशब्दावपि द्विगू कृततद्धितलुकावेव संज्ञे, ततो नार्थो’ संज्ञायामिति प्रतिषेधेनऽ इति, तदाह -‘संज्ञाप्रतिषेधानर्थक्यं च तन्निमितत्वाल्लोपस्य’ इति। तस्याः संज्ञायाः लोप एव निमितमित्यर्थः। अध्यर्द्धशब्दः संख्यैवेति। संख्यावाच्येवेत्यर्थः। अध्यर्द्धस्याप्येकादिवत् परिच्छेदहेतुत्वात्। अत एवाध्यर्द्धेन क्रीतमध्यर्द्धकमति संख्यालक्षणः कन् भवति, अध्यर्द्धकंसमित्यादौ तद्धितार्थे द्विगुश्च। क्वचिदिति। कन्समासोतरपदवृद्धिभ्योऽन्यत्र। संख्यायाः क्रियाभ्यावृत्तिगणने इति। यदा सकृत्फलां तां क्रियामभिनिर्वर्त्य तामेव कुर्वन्नर्धे निवर्तते, तदा कृत्वसुचोऽभावदध्यर्ध करोतीत्येव भवति ॥

Nyaas

अध्यरधकसम् इति। अध्यर्धेन कंसेन क्रीतमिति तद्धितार्थे समासः। प्राग्वतेः संख्यापूर्वदपानां तदन्तविधिरलुकि (म।भा। 2।346) इति कंसाट्टिठन्? (5.1.25) इति टिठन्, तस्य लुक्। `द्विकंसम् इति। अध्यर्धशूर्पम् इति। शूर्पादञन्यतरस्याम्` (5.1.26) इत्यञ्; ठञन्यतरस्याम्, तस्य लुक्। यद्यतिर द्विगोः परस्यार्हीयस्य लुग्विधीयते, विशेषानुपादनात्? तद्धितलुगन्तादपि द्विगोः परस्य प्राप्नोति - द्वाब्यां शूर्पाभ्यां क्रीतः पटो द्विशूर्पः पटः, द्विशूर्पेण पटेन क्रीतमिति द्विशौर्पिकमिति? नैष दोषः; वक्ष्यमाणं विभाषाग्रहणं पूर्वेणापि सम्बध्यते। व्यवस्थितविभाषा सा। तेन तद्धितलुगन्ताद्द्विगोः परस्य न भविष्यति - द्विशौर्पिकमिति। प्राग्वतीये ठञि कृते परिमाणान्तस्यासंज्ञाशाणयोः (7.3.17) इत्युत्तरपदवृद्धिः। पाञ्चलोहितिकम्, पाञ्चकलापिकम् इति। कस्याचित्? परिमाणविशेषस्य नामधेये एते। पञ्च लोहिन्यः परिमाणमस्येति, पञ्च कपालाः परिमाणमस्येति विगृह्र तद्धितार्थे समासः, तदस्य परिमाणम् (5.1.57) इति ठञ्, भस्याऽढे तद्धिते (वा।731) इति पुंवद्बावाल्लोहिनीशब्दस्येकारनकारनिवृत्तिः। अध्यर्धशब्दः संख्यैव इति। अभिधानेऽभिधेयोपचारं कृत्वा, अध्यर्धशब्दः संख्यैव इत्युक्तम्। यथैव ह्रेकादिका लौकिकसंख्या, एवमध्यर्धंशब्दोऽपि। स किमर्थं भेदनोपादीयते [सः नास्ति - कासिका] इति। संख्याया इति शेषः। इह हि द्वगोरध्यर्धपूर्वस्य भेदेनोपादनादध्यर्धपूर्वस्य भेदेन संख्याया उपादानं भवतीति। अतस्तस्याध्यर्धशब्दस्य भेदेनोपादानस्य प्रयोजनं दर्शयितुं पृच्छति। ज्ञापकार्थम् इत्यादिना प्रयोजनमाचष्टे। किं पुनरस्य संख्याकार्यं न भवतीत्याह - संख्यायाः इत्यादि॥

Prakriyasarvasvam

अध्यर्धपूर्वाच्छब्दाद् द्विगोश्च परस्यार्हीयस्यानाम्नि लुक् । अध्यर्धशूर्पेण क्रीतमध्यर्धशूर्पम् । द्विगोः—द्विशूर्पं त्रिशूर्पम् । अर्धचतुथदिः समासे सङ्ख्यात्वात् तेषां शूर्पादिभिर्द्विगौ कृते लुक् । अर्धचतुर्थैः शूर्पैः क्रीतः अर्धचतुर्थशूर्पः । पञ्चभिर्गोणीभिः क्रीतः पञ्चगोणिः पटः ॥