51027: शतमानविंशतिकसहस्रवसनादण्¶
Padacheda: शतमान-विंशतिक-सहस्र-वसनात् | S | 5 | 1 |
अण् | S | 1 | 1 |
Sutrartha¶
सर्वेषु आर्हीय-अर्थेषु शतमान, विंशतिक, सहस्र, वसन - एतेभ्यः शब्देभ्यः अण्-प्रत्ययः भवति ।
प्राग्वतीय-अधिकारे तेन क्रीतम् (5.1.37) इत्यस्मात् प्रथमात् अर्थात् आरभ्य तदर्हति (5.1.63) इति यावन्तः एकादश-अर्थाः ‘आर्हीय-प्रकरणे’ समाविश्यन्ते । एतेषु सर्वेषु अर्थेषु ‘शतमान’, ‘विंशतिक’, ‘सहस्र’, ‘वसन’ - एतेभ्यः शब्देभ्यः अण्-प्रत्ययः भवति । क्रमेण पश्यामः - 1. शतमान (a weight of 100 units) इति कश्चन परिमाणवाची शब्दः । अस्मात् शब्दात् प्राग्वतेष्ठञ् (5.1.18) इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः भवति । शतमानेन क्रीतम् शातमानम् । 2. ‘विंशतिक’ अयम् शब्दः कस्यचन परिमाणस्य संज्ञा अस्ति । ‘विंशति’ शब्दात् विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् (5.1.24) इत्यस्य योगविभागेन संज्ञायाः विषये कन्-प्रत्ययं कृत्वा ‘विंशतिक’ इति शब्दः सिद्ध्यति । अस्मात् अग्रे आर्हीय-अर्थेषु औत्सर्गिकं ठञ्-प्रत्ययं बाधित्वा अण्-प्रत्ययः भवति । विंशतिकेन क्रीतम् वैंशतिकम् । 3. ‘सहस्र’ इति सङ्ख्यावाची शब्दः । अस्मात् शब्दात् संख्यायाः अतिशदन्तायाः कन् (5.1.22) इति कन्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण आर्हीय-अर्थेषु अण्-प्रत्ययः भवति । सहस्रेण क्रीतम् साहस्रम् । 4. ‘वसन’ इत्युक्ते वस्त्रम् । ‘वसन’ शब्दात् सर्वेषु आर्हीय-अर्थेषु आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5.1.19) इत्यनेन ठक्-प्रत्यये प्राप्ते तम् बाधित्वा वर्तमानसूत्रेण आर्हीय-अर्थेषु अण्-प्रत्ययः भवति । वसनेन क्रीतम् वासनम् ।
Vasu English Summary¶
The affix अण् (-/- -अ) comes in the senses taught up to (5.1.63) after the words शतमान , विंशतिक , सहस्र and वसन।
Vasu English Translation¶
The affix अण् (-/- -अ) comes in the senses taught up to (5.1.63) after the words शतमान , विंशतिक , सहस्र and वसन। This debars ठञ्, ठक् and कन् ॥ Thus शतमानेन क्रीतं = शातमानं so also वैंशतिकम् साहस्रम् and वासनम् ॥
Kashika¶
शतमानादिभ्यः शब्देभ्योऽण् प्रत्ययो भवत्यार्हीयेष्वर्थेषु । ठक् ठञोरपवादः। शतमानेन क्रीतं शातमानं शतम्। वैंशतिकम्। साहस्रम्। वासनम् ॥
Siddhanta Kaumudi¶
एभ्योऽण् स्यात् । ठञ्ठक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैंशतिकम् । साहस्रम् । वासनम् ॥
Balamanorama¶
शतमानविंशतिकसहस्रवसनादण् - शतमान । शातमानमिति । अत्र ठञ् प्राप्तः । वैंशतिकमिति । विंशत्या क्रीतं विंशतिकम् । संज्ञाशब्दोऽयम् ।विंशतितिंरशद्भ्या॑मिति योगविभागात्कन् । विंशतिकेन क्रीतिमिति विग्रहः । तत्र परिमाणविशेषस्य संज्ञा चेट्ठञ् प्राप्तः, अन्यस्य संज्ञा चेट्ठक् प्राप्तः । साहरुआमिति । सहरुओण क्रीतमिति विग्रहः ।सङ्ख्याया अतिशदन्तायाः॑ इति कन् प्राप्तः । वासनमिति । वसनेन क्रीतिमिति विग्रहः । अत्र ठक् प्राप्तः ।
Tattvabodhini¶
शतमानविंशतिकसहस्रवसनादण् - ठञ्ठक्कनामिति । शतमानं परिमाणं, ततष्ठञ् प्राप्तः । विंशत्या क्रीतं विंशतिकम् । संज्ञाशब्दोऽयम् । असंज्ञायां हिविंशति तिंरशभ्द्या॑मिति ड्वुन् स्यात् । संज्ञा च यदि परिमाणस्य, तदा ठञ् प्राप्तः । अर्थान्तरस्य चेत्तर्हि ठक् प्राप्तः । वसनशब्दात्तु ठगेव । सहरुआशब्दस्य सङ्ख्यावाचित्वात्ततःसङ्ख्याया अतिशदन्तायाः॑इति कन्प्राप्त इति विवेकः ।
Padamanjari¶
ठकठञोरपवाद इति। शतमानं। परिमाणम्, सहस्रं संख्या; ताभ्यां ठञोऽपवादः। विंशत्या क्रीतं विंशतिकं संज्ञाशब्दोऽयम्, असंज्ञायाम्’विंशतित्रिंशद्भयां ड्वुनसंज्ञायाम्’ इति ड्वुना भवितव्यम्, सा यदि परिमाणस्य संज्ञा ? तदा ततोऽपि ठञोऽपवादः। अथ त्वर्थान्तरस्य, ततष्ठकः। वसनशब्दातु ठक एव ॥
Nyaas¶
ठक्ठञोरपवादः [ठञोऽपवादः इति मुद्रितः पाठः] इति। शतमानं परिमाणम्, सहरुआं संख्या, तेनैताभां ठग्न प्राप्नोतीति ठञोऽपवादः। विंसत्या क्रीतं विंशातिकम् इति। तच्च परमाणमपि सम्भवति। तत्र परिमाणाट्ठञोऽपवादः, अपरिमाणट्ठकः, वसनशब्दाट्ठगपवादः॥
Prakriyasarvasvam¶
शातमानम् । वैंशतिकम् । साहस्रम् । वासनम् ।।
Sutra Prayogas¶
चतुर्दश-साहस्रबलौ (भट्टिकाव्यम्): शतमानविंशतिकसहस्रवसनादण् इति प्राग्वतेः ।
शत-साहस्र (भट्टिकाव्यम्): शतमानविंशतिक इत्यादिना अणि।