51029: विभाषा कार्षापणसहस्राभ्याम्

Padacheda: विभाषा | S | 1 | 1 |

कार्षापण-सहस्राभ्याम् | S | 5 | 2 |

Sutrartha

सर्वेषु आर्हीय-अर्थेषु तद्धितार्थे जायमानात् अध्यर्धपूर्वपदसमासात् द्विगुसमासात् च परस्य तद्धितप्रत्ययस्य ‘कार्षापण’शब्दस्य विषये ‘सहस्र’शब्दस्य विषये च विकल्पेन लुक् भवति ।

तद्धितार्थे जायमानस्य अध्यर्धपूर्वसमासस्य द्विगुसमासस्य च विषये विहितस्य तद्धितप्रत्ययस्य अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन नित्यं लोपे प्राप्ते, ‘कार्षापण’शब्दस्य विषये ‘सहस्र’शब्दस्य च विषये सः विकल्प्यते । यथा - 1. ‘अध्यर्धेन कार्षापणेन क्रीतम्’ इत्यत्र तद्धितार्थे द्विगुसमासः जायते । अस्यां स्थितौ कंसाट्टिठन् (5.1.25) इत्यत्र निर्दिष्टेन <! कार्षापणाद्वा प्रतिश्च!> अनेन वार्त्तिकेन तदन्तविधिना अत्र टिठन्-प्रत्ययः विधीयते । अस्य टिेठन्-प्रत्ययस्य अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन नित्यं लोपे प्राप्ते वर्तमानसूत्रेण केवलं विकल्पेनैव लोपः भवति, नित्यम् न । यथा - अध्यर्धेन कार्षापणेन क्रीतम् = [लोपे कृते] अध्यर्धकार्षापणम् = [लोपाभावे ] अध्यर्धकार्षापणिकम् , प्रतिकम् । (स्मर्तव्यम् - <! कार्षापणाद्वा प्रतिश्च!> अनेन वार्त्तिकेन टिठन्-प्रत्ययस्य उपस्थितौ कार्षापण-शब्दस्य विकल्पेन प्रति-आदेशः अपि भवति । अतः अत्र ‘प्रतिकम्’ इति रूपमपि जायते ।) 2. तथैव - द्वयोः कार्षापणयोः क्रीतम् द्विकार्षापणम् द्विकार्षापणिकम् द्विप्रतिकम् वा । 3. अध्यर्धेन सहस्रेण क्रीतमध्यर्धसहस्रमध्यर्धसाहस्रम् वा । अत्र शतमानविंशतिकसहस्रवसनादण् (5.1.27) इत्यनेन सहस्रशब्दात् अण्-प्रत्यये प्राप्ते तस्य पक्षे एव लुक् भवति, न नित्यम् । तथा च, लुकः अभावात् संख्यायाः संवत्सरसंख्यस्य च (7.3.15) इति उत्तरपदवृद्धिः एव भवति । 4. तथैव, त्रिभिः सहस्रैः क्रीतम् त्रिसहस्रम् त्रिसाहस्रम् । ज्ञातव्यम् - वस्तुतः प्रत्ययविधौ तदन्तविधिः प्रतिषिध्यते । परन्तु असमासे निष्कादिभ्यः (5.1.20) इत्यत्र पाठितेन ‘प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि’ इत्यनेन वार्त्तिकेन / भाष्यवाक्येन सङ्ख्यापूर्वसमासस्य विषये आर्हीयप्रकरणे तदन्तविधिः अपि इष्यते । अतः अत्र टिठन् / अण् प्रत्यययोः प्रसक्तिः निर्दिष्टा अस्ति । तयोश्च वर्तमानसूत्रेण वैकल्पिकः लुक् उच्यते । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <! सुवर्णशतमानयोरुपसङ्ख्यानम्!> । इत्युक्ते, ‘सुवर्ण’ तथा ‘शतमान’ एतयोः विषये अपि अनेन सूत्रेण विकल्पेन प्रत्ययलुक् भवति । यथा - 1. अध्यर्धेन सुवर्णेन क्रीतमध्यर्धसुवर्णमध्यर्धसौवर्णिकम् वा । अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य विकल्पेन लुक् भवति । लुकः अभावपक्षे परिमाणान्तस्यासंज्ञाशाणयोः (7.3.17) इति उत्तरपदवृद्धिः भवति । 2. तथैव - द्वयोः सुवर्णयोः क्रीतम् द्विसुवर्णम्, द्विसौवर्णिकम् वा । 3. अध्यर्धेन शतमानेन क्रीतमध्यर्धशतमानमध्यर्थशातमानम् वा । अत्र शतमानविंशतिकसहस्रवसनादण् (5.1.27) इत्यनेन प्राप्तस्य अण्-प्रत्ययस्य वैकल्पिकः लुक् भवति । पक्षे परिमाणान्तस्यासंज्ञाशाणयोः (7.3.17) इति उत्तरपदवृद्धिः भवति । 4. द्वयोः शतमानयोः क्रीतम् द्विशतमानम् द्विशातमानम् वा ।

Vasu English Summary

The affix having the senses taught up to (5.1.63), is not always संख्या। Thus for the purpose of application of the affix कृत्वसूच् (5.4.17), this word is not a संख्या।

Vasu English Translation

The affix having the senses taught up to (5.1.63), is not always संख्या। Thus for the purpose of application of the affix कृत्वसूच् (5.4.17), this word is not a संख्या। This sutra makes the elision optional, when it was compulsory by the last sutra. Thus अध्यर्द्धकार्षापणम् or अध्यर्द्धकार्षापणिकं, द्विकार्षापणम् or द्विकार्षापणिकम्, here the affix टिठन् (5.1.25) is elided in one case, and not elided in the other. When it is not elided, प्रति may be substituted for कार्षापण (5.1.25). अध्यर्द्धप्रतिकम्, द्विप्रतिकम् ॥

So also after the word सहस्र, e.g. अध्यर्द्धसहस्रम् or अध्यर्द्धसाहस्रम्, द्विसहस्रम् or द्विसाहस्रम् ॥ When the affix is not elided, the forms above shown with irregular Vriddhi of the second stem, are evolved by sutra (7.3.15).

Vart:- The words सुवर्ण and शतमान should also be enumerated. As, अध्यर्द्धसुवर्णम् or अध्यर्द्धसौवर्णिकम्, द्विसुवर्णम्, द्विसौवर्णिकम्, अध्यर्द्धशतमानम्, अध्यर्द्धशातमानम्, द्विशतमानम् or द्विशातमानम् ॥ The irregular Vriddhi of the second term takes place by (7.3.17).

Bhashya

विभाषा कार्षापणसहस्राभ्याम् (1911) (746 विधिसूत्रम् ॥ 5 । 1 । 1 आ. 20) (5622 उपसंख्यानवार्तिकम्॥ 1 ॥) - कार्षापणसहस्राभ्यां सुवर्णशतमानयोरुपसंख्यानम् - (भाष्यम्) कार्षापणसहस्राभ्यां सुवर्णशतमानयोरुपसंख्यानं कर्तव्यम्। अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकम्। अध्यर्धशतमानम्, अध्यर्धशातमानम्। द्विशतमानम्, द्विशातमानम्॥

Kashika

अध्यर्धपूर्वाद् द्विगोश्च कार्षापणसहस्रान्तादुत्तरस्यार्हीयप्रत्ययस्य विभाषा लुग् भवति। पूर्वेण लुकि नित्ये प्राप्ते विकल्प्यते। अध्यर्धकार्षापणम्, अध्यर्धकार्षापणिकम्। द्विकार्षापणम्, द्विकार्षापणिकम् । औपसंख्यानिकस्य टिठनो लुक्। अलुक्पक्षे च प्रतिरादेशो विकल्पितः। अध्यर्धप्रतिकम्। द्विप्रतिकम्। त्रिप्रतिकम्। सहस्रात् — अध्यर्धसहस्रम्, अध्यर्धसाहस्रम्। द्विसहस्रम्, द्विसाहस्रम्। अलुक्पक्षे संख्यायाः संवत्सरसंख्यस्य च (७.३.१५) इत्युत्तरपदवृद्धिः॥ सुवर्णशतमानयोरुपसंख्यानम्॥ अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकम्। द्विसुवर्णम्, द्विसौवर्णिकम्। अध्यर्धशतमानम्,अध्यर्धशातमानम्। द्विशतमानम्, द्विशातमानम्। परिमाणान्तस्या० (७.३.१७) इत्युत्तरपदवृद्धिः॥

Siddhanta Kaumudi

लुग्वा स्यात् । अध्यर्धकार्षाणम् । अध्यर्धकार्षापणिकम् । द्विकार्षापणम् । औपसंख्यानिकस्यटिठनो लुक् । पक्षेऽध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम् । अध्यर्धसाहस्रम् । द्विसहस्रम् । द्विसाहस्रम् ॥

Balamanorama

विभाषा कार्षापणसहस्राभ्याम् - विभाषा । लुग्वेति ।आर्हीयस्ये॑ति शेषः । औपसंख्यानिकस्येति.॒कार्षापणाट्ठिन् वक्तव्यः॑ इत्युक्तस्येत्यर्थः । अध्यर्धप्रतिकमिति । प्रत्यादेशस्य टिठन्संनियोगशिष्टत्वात्प्रत्यादेशपक्षे टिठनो न लुगिति भावः । अध्यर्धसहरुआमिति ।शतमाने॑ति विहितस्याऽणो लुक् । लुगभावे तुसङ्ख्यायाः संवत्सरसङ्ख्यस्य चे॑त्युत्तरपदवृद्धिः ।

Tattvabodhini

विभाषा कार्षापणसहस्राभ्याम् - विभाषा । टिठनो लुगिति । प्रत्यादेशपक्षे तु लङ् न भवति, प्रत्यादेशस्य प्रत्ययसंनियोगशिष्टत्वादिति बोध्यम् । अध्यर्धसहरुआमिति ।शतमानविंशतिके॑ति बिहितस्याऽणो लुक् । तदभावपक्षे तुसङ्ख्यायाः संवत्सरसंख्यस्य चे॑त्युत्तरपदवृद्धिः । अध्यर्धशब्दः सङख्यावाचीत्यधुनैवोक्तत्वात् ।द्वित्रिपूर्वात् । अध्यर्धग्रहणमुत्तरार्थमनुवृत्तमपीह न संबध्यते ।द्विगो॑रिति तु संबध्यत एव षष्ठीसमासं व्यावर्तयितुम् । अत्र च व्याख्यानमेव शरणम् ।द्वित्रिभ्यां निष्का॑ दित्येव सिद्धे पूर्वग्रहणं चिन्त्यप्रयोजनमिति हरदत्तः । द्विनैष्किकमिति ।प्राग्वतेष्ठञ् । मतान्तरे तु ठगिति मनोरमायाम् ।  — निष्कादिभ्यः समासे ठगभावात्,परिच्छेदकमात्रं गृह्रते॑इति मतान्तरेऽपि ठञेव भवित, तन्मते उन्मानस्यापि परिमाणत्वात्अगोपुच्छे॑त्यादिना पर्युदस्तत्वाठ्ठगभावे निष्कादिभ्यष्ठञि प्राप्ते । असमासे ठग्विधानेऽपि समासे ठञ एव प्राप्तत्वात् — — इत्यन्ये ।परिमाणान्तस्ये॑त्युत्तरपदवृद्धिः ।द्विगो॑रिति संबन्धान्नेह लुक् । द्वयोर्निष्को द्विनिष्कस्तेन क्रीतं द्विनैष्किकम् ।अध्यर्धपूर्वे॑त्यसंबन्धादध्यर्धनैष्किकमित्यत्राप्यनेन लुङ् न भवति ।

Padamanjari

अध्यर्धसहस्रमिति।’शतमानविशतिक’ इति विहितस्याणो लक्, अलुक्पक्षे’संख्यायाः संवत्सरसंख्यस्य च’ इत्युतरपदवृद्धिः, इदानीमेव ह्युक्तम् - ठध्यर्धशब्दः संख्यैवऽ इति। अध्यर्धसुवर्णमिति। ठञो लुग्, न तु ठकः, आर्हादित्यत्र क्रियानिमितकस्य परिमाणस्य ग्रहणाद्। येषां तु रूढिपरिमाणस्य तत्र ग्रहणम्, तन्मते ठको लुक्। अध्यर्द्धसौवर्णिकमिति। परिमाणान्तस्येत्युतरपदवृद्धिः, तत्र ह्युन्मानस्यापि ग्रहणम्; शाणप्रतिषेधात्। अध्यर्द्धे कार्षापणस्य, द्विगौ सहस्रस्येत्येवमत्र यथासंख्यं नेष्यते॥

Nyaas

अध्यर्धसहरुआम् इति। शतमानविंशतिक (5.1.27) इत्यादिना विहितस्याणो लुक्। अध्यर्धसाहरुआम् इति। संख्यायाः संवत्सरसंख्यस्य च (7.3.15) इत्युत्तरपदवृद्धिः। सुवर्णशत्मानयोरुपसंख्यानम् इति। उपसंख्यानं प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम् - विस्ताच्च (5.1.31) इत्यतः सिंहावलोकितन्यायेन चकारोऽत्रोपतिष्ठते, स चानुक्तसमुच्चयार्थः, तेन सुवर्णशतमानयोरपि विष्यति। अध्यर्धसुवर्णम् इति। ठञो लुक्, अद्यर्धशतमानम् इति। शतमान (5.1.27) इत्यादि-विहितस्याणः। अध्यर्धशतमानम् इति। परिमाणान्तस्य (7.3.17) इत्यादिनोत्तरपदवृद्धिः। ननु च सुवर्णमुन्मानम्, न परिमाणम्, तत्कुतस्तस्य बुद्धिः? नैष दोषः; उत्तरपदवृद्धौ हयुन्मानमपि परिमाणमिति गृह्रते। कगुतो ज्ञायते? असंज्ञाशाणयोः (7.3.17) इति शाणशब्दस्य प्रतिषेधात्। यदि तर्हि तत्रोन्मानं न गृह्रेत, तदा शाणस्योन्मानार्थस्य प्राप्तिरेव नास्तीति प्रतिषेधं न कुर्यात्। अध्यर्धपूर्वद्विगुभ्यां कार्षापणसहरुआयोर्यथासंख्यं कस्मान् भवति? लक्षणव्यभिचारेण तदभावस्य सूचितत्वात्। इह तावत्? अध्यर्धपूर्वद्विगोः (5.1.28) इति निर्देशेऽल्पाच्तरत्वाद्? ध्यन्तत्वाच्च द्विगुशब्दस्य पूर्वनिपातः प्राप्नोति, कार्षापणसहरुआआभ्याम् इत्यत्राल्पाच्तरत्वात्? सहरुआशब्दस्य? तावेतौ निर्देशौ लक्षणान्तरनिरपेक्षतां बोधयन्तौ यतासंख्यपरिभाषाया अप्यभावं बोधयत इति न भवति यथासंख्यपरिभाषा॥

Prakriyasarvasvam

एतदन्तादध्यर्धपूर्वद्विगोलुँग् वा स्यात् । अध्यर्धकार्षापणम् । द्विकार्षापणम् । अत्र टिठनो वा लुक् । अलुक्पक्षे प्रत्यादेशो वा । अध्यर्धप्रतिकम् । अध्यर्धकार्षा- पणिकम् । एवं द्विप्रतिकादि । अध्यर्धसहस्रं, द्विसहस्रम् । अत्र शतमानाद्यणो वा लुक् । अलुकि,

Vartika

सुवर्णशतमानयोरुपसंख्यानम् ।