51026: शूर्पादञन्यतरस्याम्¶
Padacheda: शूर्पात् | S | 5 | 1 |
अञ् | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
शूर्प-शब्दात् आर्हीय-अर्थेषु विकल्पेन अञ्-प्रत्ययः भवति ।
प्राग्वतेष्ठञ् (5.1.18) अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु परिमाणवाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा ‘शूर्प’ (कश्चन परिमाणवाचीशब्दः) अस्मात् शब्दात् सर्वेषु आर्हीय-अर्थेषु विकल्पेन अञ्-प्रत्ययः भवति । पक्षे औत्सर्गिकः ठञ् अपि भवति । शूर्पम् परिमाणमस्य सः = शूर्प + अञ् → शौर्प । पक्षे - शूर्प + ठञ् → शौर्पिक ।
Vasu English Summary¶
The affix अञ् (+/- अ) comes optionally in the senses taught up to (5.1.63) after the word शूर्पा।
Vasu English Translation¶
The affix अञ् (+/- अ) comes optionally in the senses taught up to (5.1.63) after the word शूर्पा। This debars ठञ् which comes in the alternative. As, शूर्पेण क्रीतं = शौर्पम् or शौर्पिकम् ॥
Kashika¶
शूर्पशब्दादन्यतरस्यामञ् प्रत्ययो भवत्यार्हीयेष्वर्थेषु। ठञोऽपवादः। पक्षे सोऽपि भवति। शूर्पेण क्रीतं शौर्पम्, शौर्पिकम्॥
Siddhanta Kaumudi¶
शौर्पम् । शौर्पिकम् ॥
Balamanorama¶
शूर्पादञन्यतरस्याम् - शूर्पादञ् ।आर्हीयेष्वर्थेष्वि॑ति शेषः । शूर्पशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तदपवादोऽञ् पक्षे विधीयते । पक्षे ठञ् ।
Tattvabodhini¶
शूर्पादञन्यतरस्याम् - शूर्पादञ् । शूर्पशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तदपवादत्वेनाऽञ् पक्षे विधीयते ।
Padamanjari¶
ठञोऽपवाद इति। शूर्पशब्दस्य परिमाणवाचित्वात्। यद्यपि परिपवनविशेषः शूर्पम्, तथापि विशिश्टसंस्थानं धान्यादेः परिमाणमपि। शूर्पपरिमितो वा व्रीद्यदिः शूर्पशब्देनोच्यते॥
Nyaas¶
ठञोऽपवादः इति। न ठकः, शूर्पशब्दस्य परिमाणवाचित्वात्॥
Prakriyasarvasvam¶
द्विद्रोणः शूर्पः । तेन क्रीतादि शौर्पम् । परिमाणत्वाट्ठञि शौर्पिकम् ।।