51026: शूर्पादञन्यतरस्याम् ========================== **Padacheda:** शूर्पात् | S | 5 | 1 | अञ् | S | 1 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **शूर्प-शब्दात् आर्हीय-अर्थेषु विकल्पेन अञ्-प्रत्ययः भवति ।** **प्राग्वतेष्ठञ्** (5.1.18) अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु परिमाणवाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा 'शूर्प' (कश्चन परिमाणवाचीशब्दः) अस्मात् शब्दात् सर्वेषु आर्हीय-अर्थेषु विकल्पेन अञ्-प्रत्ययः भवति । पक्षे औत्सर्गिकः ठञ् अपि भवति । शूर्पम् परिमाणमस्य सः = शूर्प + अञ् → शौर्प । पक्षे - शूर्प + ठञ् → शौर्पिक । Vasu English Summary -------------------- The affix अञ् (+/- अ) comes optionally in the senses taught up to (5.1.63) after the word शूर्पा। Vasu English Translation ------------------------ The affix अञ् (+/- अ) comes optionally in the senses taught up to (5.1.63) after the word शूर्पा। This debars ठञ् which comes in the alternative. As, शूर्पेण क्रीतं = शौर्पम् or शौर्पिकम् ॥ Kashika ------- शूर्पशब्दादन्यतरस्यामञ् प्रत्ययो भवत्यार्हीयेष्वर्थेषु। ठञोऽपवादः। पक्षे सोऽपि भवति। शूर्पेण क्रीतं शौर्पम्, शौर्पिकम्॥ Siddhanta Kaumudi ----------------- शौर्पम् । शौर्पिकम् ॥ Balamanorama ------------ **शूर्पादञन्यतरस्याम्** - शूर्पादञ् ।आर्हीयेष्वर्थेष्वि॑ति शेषः । शूर्पशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तदपवादोऽञ् पक्षे विधीयते । पक्षे ठञ् । Tattvabodhini ------------- **शूर्पादञन्यतरस्याम्** - शूर्पादञ् । शूर्पशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तदपवादत्वेनाऽञ् पक्षे विधीयते । Padamanjari ----------- ठञोऽपवाद इति। शूर्पशब्दस्य परिमाणवाचित्वात्। यद्यपि परिपवनविशेषः शूर्पम्, तथापि विशिश्टसंस्थानं धान्यादेः परिमाणमपि। शूर्पपरिमितो वा व्रीद्यदिः शूर्पशब्देनोच्यते॥ Nyaas ----- `ठञोऽपवादः` इति। न ठकः, शूर्पशब्दस्य परिमाणवाचित्वात्॥ Prakriyasarvasvam ----------------- द्विद्रोणः शूर्पः । तेन क्रीतादि शौर्पम् । परिमाणत्वाट्ठञि शौर्पिकम् ।।