51023: वतोरिड्वा¶
Padacheda: वतोः | S | 5 | 1 |
इट् | S | 1 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
‘वतुँप्’ प्रत्ययान्तेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः आर्हीय-अर्थेषु प्राप्तस्य कन्-प्रत्ययस्य विकल्पेन इडागमः भवति ।
प्राग्वतेष्ठञ् (5.1.18) अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु ‘वतुँप्’ प्रत्ययान्ताः ये सङ्ख्यावाचिनः शब्दाः सन्ति, तेषां विषये सर्वेषु आर्हीय-अर्थेषु एतम् औत्सर्गिकम् प्रत्ययं बाधित्वा संख्याया अतिशदन्तायाः कन् (5.1.22) इत्यनेन कन्-प्रत्ययः विधीयते । वर्तमानसूत्रेण अस्य कन्-प्रत्ययस्य विकल्पेन इडागमः भवति । आदौ किम् नाम ‘वतुँप्’ तत् पश्यामः । ‘वतुँ’ इति कश्चन तद्धितप्रत्ययः । यद्तदेतेभ्यः परिमाणे वतुप् (5.2.39) इत्यनेन यद् / तद् इत्येतयोः वतुप्-प्रत्ययः विधीयते , येन ‘यावत्’ / ‘तावत्’ एतौ शब्दौ सिद्ध्यतः । बहुगणवतुडति संख्या (1.1.23) इत्यनेन एतौ शब्दौ ‘सङ्ख्या’ इति संज्ञां प्राप्नुतः । अतः एतेषाम् विषये संख्याया अतिशदन्तायाः कन् (5.1.22) इत्यनेन कन्-प्रत्ययः भवति । अस्य कन्-प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन इडागमः भवति । आद्यन्तौ टकितौ (1.1.46) इत्यनेन अयम् इडागमः प्रत्ययस्य आद्यवयवरूपेण आगच्छति । यथा - यावता क्रीतम् = यावत् + कन् → यावत् + इट् + कन् [वतोरिड्वा (5.1.23) इति विकल्पेन इडागमः] → यावतिक इडागमस्य अभावपक्षे ‘यावत् + कन् → यावत्क’ इत्यपि रूपं सिद्ध्यति । यावता क्रीतम् यावतिकम् यावत्कम् च । तथैव, तावता क्रीतम् तावत्कम् तावतिकम् च ।
Vasu English Summary¶
The affix कन् coming after a Numeral ending with वत्, takes optionally the augment इद् , the sense of the affix being those given up to (5.1.63)
Vasu English Translation¶
The affix कन् coming after a Numeral ending with वत्, takes optionally the augment इद् , the sense of the affix being those given up to (5.1.63) The words ending in वत् are संख्या; see (1.1.23): and would consequently take कन् by (5.1.22). The present sutra ordains the optional affixing of इट् to this कन् ॥ Thus तावत्कः or तावतिकः, यावतिकः or यावत्कः ॥
Bhashya¶
वतोरिड्वा (1905) (ःइडागमाधिकरणम्) (एकदेश्याक्षेपभाष्यम्) कस्यायमिडि्वधीयते? कन इत्याह। तत्कनो ग्रहणं कर्तव्यम्, अक्रियमाणे हि प्रत्ययाधिकारात् प्रत्ययोऽयं विज्ञार्यते। टित्करणसार्मथ्यादादिर्भविष्यति। अस्त्यन्यटि्टत्करणस्य प्रयोजनम् - टित इति ईकारो यथा स्यात्। अकारान्तप्रकरणे ईकारः, न चैषोऽकारान्तः। एवमपि कुत एतत् - टित्करणसार्मथ्यादादिर्भविष्यति, न पुनरकारान्तप्रकरणे अनकारान्तादपि ईकारः स्यात्? तत्स्माकनो ग्रहणं कर्तव्यम्॥ (समाधानभाष्यम्) न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? संख्याया अतिशदन्तायाः कन्(5.1.22) इति। तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः। वतोरित्येषा पञ्ञ्चमी कन्निति प्रथमायाः षष्ठीं प्रकल्पयिष्यति - तस्मादित्युत्तरस्य इति। प्रत्ययविधिरयम्, न च प्रत्ययविधौ पञ्ञ्चम्यः प्रकल्पिका भवन्ति। नायं प्रत्ययविधिः, विहितः प्रत्ययः प्रकृतश्चानुवर्तते॥
Kashika¶
वत्वन्तस्य संख्यात्वात् कन् सिद्ध एव, तस्य त्वनेन वा इडागमो विधीयते। वतोः परस्य कनो वा इडागमो भवत्यार्हीयेष्वर्थेषु। तावतिकः, तावत्कः। यावतिकः, यावत्कः॥
Siddhanta Kaumudi¶
वत्वान्तात्कन इड्वा स्यात् । तावतिकः । तावत्कः ॥
Balamanorama¶
वतोरिड्वा - वतोरिड्वा ।वतो॑रित्यनेन प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रते ।क॑न्निति प्रथमान्तमनुवृत्तम्,वतो॑रिति पञ्चमीतस्मादित्युत्तरस्ये॑ति परिभाषया षष्ठन्यतं प्रकल्पयति । तदाह — वत्वन्तादिति । तावतिक इति तावता क्रीत इत्यर्थः । ‘यत्तदेतेभ्यः’ इति वतुप् । ‘बहुगणवतु’ इति सङ्ख्यासंज्ञायां सङ्ख्याया अतिशदन्तायाः॑ इति कन्, तस्य इट्, टित्त्वादाद्यवयवः ।
Tattvabodhini¶
वतोरिड्वा - वतोरिड्वा ।वतोः॑इति वञ्चमी, सा चक॑न्निति प्रथमायाः षष्ठीं कल्पतीत्याह - वत्वन्तात्कन इति । तावतिक इति ।यत्तदेतेभ्यः॑इति वतुप् ।आ सर्वनाम्नः॑ इत्यात्वम् ।
Padamanjari¶
तस्य त्वनेनेति।’चरेष्टः’ इत्यादिवत्प्रत्ययान्तरं त्विण्न भवति; टित्करणसामर्थ्यात्। अस्त्यन्यट्टित्करणस्य प्रयोजनं टित इति ङीब्यथा स्यात् ? अत इत्यधिकारे ङीप्, न चैषोऽकारान्तः, टित्करणसामर्थ्यादनदन्तादपि ङीप् स्यात्, यथा - डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् सरज इत्यत्र टिलोपः। एघं तर्हि स्वरितत्वप्रतिज्ञानेन कनोऽनुकर्षणसामर्थ्यादागमो भविष्यति ? अस्त्यन्यदनुवृतेः प्रयोजनम् - इटा बाधो मा भूत् कनोपि विधिर्यथा स्यादिति ? वावचनादेवल कन् भविष्यति ? इदं तर्हि प्रयोजनं स्यात्-इट्कनौ वा भवतः, पक्षे सामन्यविहितष्ठञिति ? तस्माद्व्याख्यानमेव शरणम्। ननु नेह कन्ग्रहणमस्ति, यदपि प्रकृतम्, तदपि प्रथमानिर्दिष्टम, षष्ठीनिर्दिष्टेन चेहार्थः, वतोरिति पञ्चमी कनिति प्रथमायाः षष्ठी प्रकल्पयिष्यति -‘तस्मादित्युतरस्य’ इति। तावत्क इति। तत्परिमाणमस्य’यतदेतेफभ्यः परिमाणे वतुप्’ , ठा सर्वनाम्नःऽ॥
Nyaas¶
वत्वन्तस्य संख्यात्वात् इति। बहुगणसूत्रेण (1.1.22) संख्यासंज्ञाविंधानत्। तस्य इत्यादि। कथं पुनस्तस्यानेनागमः शक्यो विज्ञातुम्, यावता नेह कन्ग्रहणम्? यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः? नैष दोषः, वतोः इति पञ्चमी कन् इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1.1.67) इति। तावत्कः इति। तत्परिमाणमस्येति यत्तदेतेभ्यः परिमाणे वतुप् (5.2.39) , आ सर्वनाम्नः (6.3.91) इत्यात्वम्॥