51023: वतोरिड्वा ================ **Padacheda:** वतोः | S | 5 | 1 | इट् | S | 1 | 1 | वा | S | 0 | 0 | Sutrartha --------- **'वतुँप्' प्रत्ययान्तेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः आर्हीय-अर्थेषु प्राप्तस्य कन्-प्रत्ययस्य विकल्पेन इडागमः भवति ।** **प्राग्वतेष्ठञ्** (5.1.18) अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु 'वतुँप्' प्रत्ययान्ताः ये सङ्ख्यावाचिनः शब्दाः सन्ति, तेषां विषये सर्वेषु आर्हीय-अर्थेषु एतम् औत्सर्गिकम् प्रत्ययं बाधित्वा **संख्याया अतिशदन्तायाः कन्** (5.1.22) इत्यनेन कन्-प्रत्ययः विधीयते । वर्तमानसूत्रेण अस्य कन्-प्रत्ययस्य विकल्पेन इडागमः भवति । आदौ किम् नाम 'वतुँप्' तत् पश्यामः । 'वतुँ' इति कश्चन तद्धितप्रत्ययः । **यद्तदेतेभ्यः परिमाणे वतुप्** (5.2.39) इत्यनेन यद् / तद् इत्येतयोः वतुप्-प्रत्ययः विधीयते , येन 'यावत्' / 'तावत्' एतौ शब्दौ सिद्ध्यतः । **बहुगणवतुडति संख्या** (1.1.23) इत्यनेन एतौ शब्दौ 'सङ्ख्या' इति संज्ञां प्राप्नुतः । अतः एतेषाम् विषये **संख्याया अतिशदन्तायाः कन्** (5.1.22) इत्यनेन कन्-प्रत्ययः भवति । अस्य कन्-प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन इडागमः भवति । **आद्यन्तौ टकितौ** (1.1.46) इत्यनेन अयम् इडागमः प्रत्ययस्य आद्यवयवरूपेण आगच्छति । यथा - यावता क्रीतम् = यावत् + कन् → यावत् + इट् + कन् [**वतोरिड्वा** (5.1.23) इति विकल्पेन इडागमः] → यावतिक इडागमस्य अभावपक्षे 'यावत् + कन् → यावत्क' इत्यपि रूपं सिद्ध्यति । यावता क्रीतम् यावतिकम् यावत्कम् च । तथैव, तावता क्रीतम् तावत्कम् तावतिकम् च । Vasu English Summary -------------------- The affix कन् coming after a Numeral ending with वत्, takes optionally the augment इद् , the sense of the affix being those given up to (5.1.63) Vasu English Translation ------------------------ The affix कन् coming after a Numeral ending with वत्, takes optionally the augment इद् , the sense of the affix being those given up to (5.1.63) The words ending in वत् are संख्या; see (1.1.23): and would consequently take कन् by (5.1.22). The present *sutra* ordains the optional affixing of इट् to this कन् ॥ Thus तावत्कः or तावतिकः, यावतिकः or यावत्कः ॥ Bhashya ------- वतोरिड्वा (1905) (ःइडागमाधिकरणम्) (एकदेश्याक्षेपभाष्यम्) कस्यायमिडि्वधीयते? कन इत्याह। तत्कनो ग्रहणं कर्तव्यम्, अक्रियमाणे हि प्रत्ययाधिकारात् प्रत्ययोऽयं विज्ञार्यते। टित्करणसार्मथ्यादादिर्भविष्यति। अस्त्यन्यटि्टत्करणस्य प्रयोजनम् - टित इति ईकारो यथा स्यात्। अकारान्तप्रकरणे ईकारः, न चैषोऽकारान्तः। एवमपि कुत एतत् - टित्करणसार्मथ्यादादिर्भविष्यति, न पुनरकारान्तप्रकरणे अनकारान्तादपि ईकारः स्यात्? तत्स्माकनो ग्रहणं कर्तव्यम्॥ (समाधानभाष्यम्) न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? संख्याया अतिशदन्तायाः कन्(5.1.22) इति। तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः। वतोरित्येषा पञ्ञ्चमी कन्निति प्रथमायाः षष्ठीं प्रकल्पयिष्यति - तस्मादित्युत्तरस्य इति। प्रत्ययविधिरयम्, न च प्रत्ययविधौ पञ्ञ्चम्यः प्रकल्पिका भवन्ति। नायं प्रत्ययविधिः, विहितः प्रत्ययः प्रकृतश्चानुवर्तते॥ Kashika ------- वत्वन्तस्य संख्यात्वात् कन् सिद्ध एव, तस्य त्वनेन वा इडागमो विधीयते। वतोः परस्य कनो वा इडागमो भवत्यार्हीयेष्वर्थेषु। तावतिकः, तावत्कः। यावतिकः, यावत्कः॥ Siddhanta Kaumudi ----------------- वत्वान्तात्कन इड्वा स्यात् । तावतिकः । तावत्कः ॥ Balamanorama ------------ **वतोरिड्वा** - वतोरिड्वा ।वतो॑रित्यनेन प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रते ।क॑न्निति प्रथमान्तमनुवृत्तम्,वतो॑रिति पञ्चमीतस्मादित्युत्तरस्ये॑ति परिभाषया षष्ठन्यतं प्रकल्पयति । तदाह — वत्वन्तादिति । तावतिक इति तावता क्रीत इत्यर्थः । 'यत्तदेतेभ्यः' इति वतुप् । 'बहुगणवतु' इति सङ्ख्यासंज्ञायां सङ्ख्याया अतिशदन्तायाः॑ इति कन्, तस्य इट्, टित्त्वादाद्यवयवः । Tattvabodhini ------------- **वतोरिड्वा** - वतोरिड्वा ।वतोः॑इति वञ्चमी, सा चक॑न्निति प्रथमायाः षष्ठीं कल्पतीत्याह - वत्वन्तात्कन इति । तावतिक इति ।यत्तदेतेभ्यः॑इति वतुप् ।आ सर्वनाम्नः॑ इत्यात्वम् । Padamanjari ----------- तस्य त्वनेनेति।'चरेष्टः' इत्यादिवत्प्रत्ययान्तरं त्विण्न भवति; टित्करणसामर्थ्यात्। अस्त्यन्यट्टित्करणस्य प्रयोजनं टित इति ङीब्यथा स्यात् ? अत इत्यधिकारे ङीप्, न चैषोऽकारान्तः, टित्करणसामर्थ्यादनदन्तादपि ङीप् स्यात्, यथा - डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् सरज इत्यत्र टिलोपः। एघं तर्हि स्वरितत्वप्रतिज्ञानेन कनोऽनुकर्षणसामर्थ्यादागमो भविष्यति ? अस्त्यन्यदनुवृतेः प्रयोजनम् - इटा बाधो मा भूत् कनोपि विधिर्यथा स्यादिति ? वावचनादेवल कन् भविष्यति ? इदं तर्हि प्रयोजनं स्यात्-इट्कनौ वा भवतः, पक्षे सामन्यविहितष्ठञिति ? तस्माद्व्याख्यानमेव शरणम्। ननु नेह कन्ग्रहणमस्ति, यदपि प्रकृतम्, तदपि प्रथमानिर्दिष्टम, षष्ठीनिर्दिष्टेन चेहार्थः, वतोरिति पञ्चमी कनिति प्रथमायाः षष्ठी प्रकल्पयिष्यति -'तस्मादित्युतरस्य' इति। तावत्क इति। तत्परिमाणमस्य'यतदेतेफभ्यः परिमाणे वतुप्' , ठा सर्वनाम्नःऽ॥ Nyaas ----- `वत्वन्तस्य संख्यात्वात्` इति। बहुगणसूत्रेण (1.1.22) संख्यासंज्ञाविंधानत्। `तस्य` इत्यादि। कथं पुनस्तस्यानेनागमः शक्यो विज्ञातुम्, यावता नेह कन्ग्रहणम्? यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः? नैष दोषः, `वतोः` इति पञ्चमी `कन्` इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति **तस्मादित्युत्तरस्य** (1.1.67) इति। `तावत्कः` इति। तत्परिमाणमस्येति `यत्तदेतेभ्यः परिमाणे वतुप्` (5.2.39) , **आ सर्वनाम्नः** (6.3.91) इत्यात्वम्॥