51024: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्

Padacheda: विंशति-त्रिंशद्भ्याम् | S | 5 | 2 |

ड्वुन् | S | 1 | 1 |

असंज्ञायाम् | S | 7 | 1 |

Sutrartha

‘विंशति’ शब्दात् तथा च ‘त्रिंशत्’ शब्दात् आर्हीय-अर्थेषु संज्ञां वर्जयित्वा अन्यत्र ड्वुन्-प्रत्ययः भवति ।

प्राग्वतेष्ठञ् (5.1.18) अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु ‘विंशति’ तथा ‘त्रिंशत्’ शब्दानां विषये आर्हीय-अर्थेषु वर्तमानसूत्रेण तस्य बाधनं कृत्वा संज्ञां वर्जयित्वा अन्यत्र ड्वुन्-प्रत्ययः भवति । यथा - 1. विंशत्या क्रीतम् = विंशति + ड्वुन् → विंशति + अक [डकारनकारयोः इत्संज्ञा, लोपः । ‘वु’ इत्यस्य युवोरनाकौ (7.1.1) इति अक-आदेशः] → विंश + अक [ते विंशतेर्डिति (6.4.142) इति ‘ति’ इत्यस्य लोपः] → विंशक [अतो गुणे (6.1.97) इति पररूप-एकादेशः] 2. त्रिंशता क्रीतम् = त्रिंशत् + ड्वुन् → त्रिंशत् + अक [डकारनकारयोः इत्संज्ञा, लोपः । ‘वु’ इत्यस्य युवोरनाकौ (7.1.1) इति अक-आदेशः] → त्रिंश् + अक [टेः (6.4.143) इति टिलोपः] → त्रिंशक परन्तु यदि संज्ञायाः (कस्यचन वस्तुनः नाम्नः) निर्देशः करणीयः अस्ति, तर्हि वर्तमानसूत्रेण ड्वुन्-प्रत्ययः न भवति - यतः अस्मिन् सूत्रे ‘असंज्ञायाम्’ इति उच्यते । अस्यां स्थितौ विंशतिशब्दात् त्रिंशत्-शब्दात् च कन्-प्रत्ययः करणीयः - इति भाष्यकारः वदति । वस्तुतः अत्र कन्-प्रत्ययस्य प्रसक्तिः नास्ति - अत्र औत्सर्गिकः ठञ्-प्रत्ययः एव भवेत्, परन्तु अत्र कन्-प्रत्ययः एव इष्यते । तदर्थम् संख्याया अतिशदन्तायाः कन् (5.1.22) इत्यस्मात् ‘कन्’ इत्यस्य अनुवृत्तिं कृत्वा भाष्यकारः योगविभागं कारयति - ‘विंशतित्रिंशद्भ्यां कन् ; असंज्ञायाम् ड्वुन्’ इति । अनेन प्रकारेण संज्ञायाः विषये विंशतिशब्दात् त्रिंशत्-शब्दात् च कन्-प्रत्ययः भवति । विंशत्या क्रीतम् विंशतिकम् , त्रिंशता क्रीतम् त्रिंशत्कम् ।

Vasu English Summary

The affix डुवन् (-/- -अक) comes in the senses taught up to (5.1.63) after the words विंशति and त्रिंशत् , when it does not denote a Name: the ति and अत् of the base being dropped before this affix.

Vasu English Translation

The affix डुवन् (-/- -अक) comes in the senses taught up to (5.1.63) after the words विंशति and त्रिंशत् , when it does not denote a Name: the ति and अत् of the base being dropped before this affix. Thus विंशति + ड्वुन् = विंश + अक (6.4.142) = विंशक; त्रिंशत् + ड्वुन् = त्रिंश् + अक (6.4.143) = त्रिंशकः ॥

Why do we say असंज्ञायाम् ‘when not denoting a Name’? Observe, विंशतिकः, त्रिंशत्कः formed by affix कन् (5.1.22). Q. Why do you affix कन्, when it is prohibited by the phrase अतिशदन्तायाः; for विंशति ends in ति and त्रीशत् ends in शत् ? The affix कन् will be added by dividing the sutra into two: viz: (1) विंशतित्रिंशद्भ्यां (2) ड्वुनसंज्ञायाम्; the meanings being (1) The affix ‘Kan’ is added to vinsati and trinsat; (2) The affix dvun is added to the same words, when not denoting a name.

Bhashya

विंशतित्रिशद्भ्यां ड्वुनसंज्ञायाम् (1906) (कन्ड्वुनोरधिकरणम्) (पदकृत्यभाष्यम्) असंज्ञायामिति किमर्थम्? त्रिंशत्कः, विंशतिकः। कथं चात्र कन् भवति? संख्यायाः कन् भवतीति। अतिशदन्ताया इति प्रतिषेधः प्राप्नोति। एवं तर्ह्याचार्य्यप्रवृत्तिर्ज्ञापयति - भवत्यत्र कन्निति, यदयं विंशतिकात्खः (5.1.32) इति प्रत्ययान्तनिपातनं करोति। विंशतेरेतज्ज्ञापकं स्यात्। नेत्याह, योगापेक्षं ज्ञापकम्। अथ वा योगविभागः करिष्यते - विंशतित्रिंशद्भ्यां कन् भवतीति। ततः ड्वुनसंज्ञायामिति॥

Kashika

विंशतित्रिंशद्भ्यां ड्वुन् प्रत्ययो भवत्यसंज्ञायां विषय आर्हीयेष्वर्थेषु । विंशकः। त्रिंशकः। ति विंशतेर्डिति (६.४.१४२) इति तिलोपः। असंज्ञायामिति किम् ? विंशतिकः। त्रिंशत्कः। कथं पुनरत्र कन्, यावता अतिशदन्ताया इति पर्युदासेन भवितव्यम् ? योगविभागः करिष्यते — विंशतित्रिंशद्भ्यां कन् प्रत्ययो भवति, ततो ड्वुन्नसंज्ञायामिति ॥

Siddhanta Kaumudi

योगविभागः कर्तव्यः । आभ्यां कन्स्यात् । असंज्ञायां तु ड्वुन् स्यात् । कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशतिकः ॥

Balamanorama

विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् - विंशतित्रिशद्भ्यां । नन्वेकसूत्रत्वे विंशतितिंरशद्भ्यां ड्वुनेव स्यात्, कन् तु नस्यात्, ‘अतिशदन्ताया’ इति निषेधादित्यत आह — योगेति । विंशतित्रिशद्भ्यामित्येकं सूत्रम् ।ड्वुन्नसंज्ञायां॑मित्यपरमित्यर्थः । आद्यं व्याचष्टे — आभ्यां कन्स्यादिति ।शसङ्ख्याया अतिशदन्तायाः॑इत्यतः कनित्यनुवर्तते इति भावः । द्वितीयसूत्रे विंशतितिंरशद्भ्या॑मित्यनुवृत्तिभिप्रेत्याह — असंज्ञायामिति ।आभ्या॑मिति शेषः । विंशक इति । विंशत्या क्रीत इत्यर्थः । ड्वुन् । अकादेशः ।ति विंशतेर्डिती॑ति तिशब्दस्य लोपः । तिंरशक इति । ड्वुन् । अकादेशः ।टे॑रिति टिलोपः । आद्यसूत्रं परिशेषात्संज्ञायामित्यभिप्रेत्याह — संज्ञायां त्विति । कंसात् । इत्यादि स्पष्टम् ।

Tattvabodhini

विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् - कर्तव्य इति । अन्यथा । त्यन्तशदन्तयोः पर्युदासादिंवशतितिंरशद्भ्यां कन् दुर्लभ इति भावः । विंशक इथि ।ति विंशतेर्डिती॑ति तिशब्दस्य लोपः ।आर्धाच्चेति वक्तव्यम् । अर्धिक इति । अर्धशब्दस्य कार्षापणार्द्धे रुञत्वाद्भागवदपेक्षयाऽत्राऽसामर्थं नाशह्क्यम् । प्रकरणादिवशेन भावविशेषे विज्ञाते सति नास्त्य[स्याऽ]सामर्थ्यमिति बोध्यम् । एतेनाऽर्धशब्दस्य सापेक्षत्वात्तदन्तादेव टिठन्, द्रोणार्धिकः प्रस्थार्धिक इति केषांचिदुक्तिः परास्ता ।

Padamanjari

विंशक इति।’ति विंशतेर्डिति’ इति तिशब्दस्य लोपः, ठतो गुणेऽ इति पररूपत्वम्। यस्येति लोपस्तु न भवति, ठसिद्धवदत्राभात्ऽ इति तिलोपस्यासिद्धत्वात्। ननु सुबन्तातद्धितोत्पतिः, ततश्चान्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा भवति, तत्कथं पररूपत्म्; या तु ड्वुनमपेक्ष्य भसंज्ञा, सा येन नाप्रप्तिन्यायेन’स्वादिषु’ इति या पदसंज्ञा तामेव वाधते, न’सुप्तिङ्न्तं पदम्’ इत्येतामपि ? एतामपि बाधते। कथम् ? परत्वात्। अत एव’सामन्यः’ इत्यादौ नलोपाद्यभावः। कथं पुनरत्रेति। त्रिंशत्कमधिकृत्य प्रश्नप्रतिचने। विंशतिशब्दातु कनः सिद्धिः प्रागेव प्रतिपादिता। यदा तु द्वयोर्दशतोर्वलिशभावस्तिश्च प्रत्यय इति पक्षः, तदा विंशतिकमप्यधिकृत्य भवतः ॥

Nyaas

विंशकः इति। ति विंशतेर्डिति (6.4.142) इति तिशब्दस्य लोपः, अतो गुणे (6.1.94) पररूपत्वम्। यस्येति (6.4.148) लोपो न भवति; असिध्दवदत्रा भात् (6.4.22) इति लोपस्यासिद्ध्त्वात्। नन्विहान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञा, तत्कथं पररूपत्वम्? एवं तह्र्रसिद्धत्वस्यानित्यत्वाद्? यस्येति लोपो भविष्यतीत्यदोषः। कथं पुनरत्र कन् इति। तिंरशत्क इत्यधिकृत्य प्रश्नः विंशतिक इत्यत्रार्थवतस्तिशब्दस्य ग्रहणात्? पर्युदासो न प्रवर्तत इति तमधिकृत्यास्य प्रश्नस्योपन्यासो नोपपद्यते। `योगवभागः करिष्यते`इति। तिंरशदर्थमित्यभिप्रायः॥