44144: भावे च ============= **Padacheda:** भावे | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **'भावः' अस्मिन् अर्थे षष्ठीसमर्थात् शिव-शब्दात्, शम्-शब्दात् तथा अरिष्ट-शब्दात् वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते ।** वेदेषु संज्ञायाः विषये 'भावः' अस्मिन् अर्थे षष्ठीसमर्थात् 'शिव'शब्दात्, 'शम्'शब्दात् तथा 'अरिष्ट'शब्दात् तातिल्-प्रत्ययः कृतः दृश्यते । शिवस्य भावः = शिव + तातिल् → शिवताति । शमः भावः = शम् + तातिल् → शन्ताति । अरिष्टस्य भावः = अरिष्ट + तातिल् → अरिष्टताति । वेदेषु प्रयोगः - (सामवेद-पूर्वार्चिकम् 2.1.1.6) - सा शन्ताता मयस्करदप स्रिधः । अत्र 'शन्ताति' शब्दस्य सप्तम्येकवचने 'ङि' प्रत्ययस्य **सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः** (7.1.39) इति डा-आदेशं कृत्वा अङ्गस्य **टेः** (6.4.143) इति टिलोपे कृते 'शन्ताता' इति रूपम् सिद्ध्यति । 'शमः यः भावः, तस्मिन्' इत्यर्थः । ज्ञातव्यम् - 1. सूत्रे अनुवर्तमानः 'शिव-शम्-अरिष्टस्य' इति प्रथमः शब्दः षष्ठीसामर्थ्यम् निर्देशयति । 2. 'तातिल्' इत्यत्र लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा 'ताति' इत्यवशिष्यते । स्मर्तव्यम् - तद्धिताधिकारे ये पञ्च महोत्सर्गाः पाठ्यन्ते, तेषु तृतीयः महोत्सर्गः (यदधिकारः) - यस्य प्रारम्भः **प्राग्घिताद्यत्** (4.4.75) इत्यत्र भवति - सः अत्र समाप्यते । Vasu English Summary -------------------- The affix तातिल् comes in the छन्दस् (Vedas) after the words 1. शिव 2. शम् and 3. अरिष्ट in the Genitive 6th-Case in construction, the sense being that of condition. Vasu English Translation ------------------------ The affix तातिल् comes in the छन्दस् (Vedas) after the words 1. शिव 2. शम् and 3. अरिष्ट in the Genitive 6th-Case in construction, the sense being that of condition. Thus शिवस्य भावः = शिवतातिः 'the condition of blissfulness'. शन्तातिः 'the state of happiness or peace', अरिष्टतातिः ॥ Here these words have the force of Verbal noun. Kashika ------- भावे चार्थे छन्दसि विषये शिवादिभ्यस्तातिल् प्रत्ययो भवति। शिवस्य भावः शिवतातिः (पै०सं०५.३६.१)। शंता॑तिः॒ (ऋ० ८.१८.७) । अरि॒ष्टता॑तिः (ऋ०१०.६०.८)। यतः पूर्णोऽवधिः। अतः परमन्यः प्रत्ययोऽधिक्रियते॥ ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः॥ Siddhanta Kaumudi ----------------- शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः ॥ Prakriyasarvasvam ----------------- शिवत्वमेव शिवतातिरित्यादि ॥ इति यद्भागः ॥ शं ताती भवथः । अथोऽरिष्टतातये ।