44133: पूर्वैः कृतमिनयौ च ========================= **Padacheda:** पूर्वैः | S | 3 | 3 | कृतम् | S | 1 | 1 | इन-यौ | S | 2 | 1 | च | S | 0 | 0 | Sutrartha --------- **तृतीयासमर्थात् 'पूर्व'शब्दात् 'कृतम्' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये 'इन', 'य' तथा 'ख' प्रत्ययाः कृताः दृश्यन्ते ।** 'पूर्वैः कृतम्' अस्मिन् अर्थे तृतीयासमर्थात् 'पूर्व'शब्दात् वेदेषु संज्ञायाः विषये 'इन', 'य 'तथा 'ख' - एते प्रत्ययाः कृताः दृश्यन्ते । 1. पूर्वैः कृतम् = पूर्व + इन → पूर्विण । 2. पूर्वैः कृतम् = पूर्व + य → पूर्व्य । 3. पूर्वैः कृतम् = पूर्व + ख → पूर्व + ईन [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ईन्-आदेशः] → पूर्वीण । वेदेषु उदाहरणम् - (आश्वलायन-श्रौत्रसूत्रम् 2.7.9) अथैनान् प्रवाहयेत् परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः । (ज्ञातव्यम् - अत्र 'पूर्विण'शब्दात् तृतीया-बहुवचनस्य भिस्-प्रत्यये कृते **अतो भिस ऐस्** (7.1.9) इत्यनेन ऐस्-आदेशे प्राप्ते **बहुलं छन्दसि** (7.1.10) इत्यनेन अयमादेशः न कृतः अपि दृश्यते ।) ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रथमः विद्यमानः शब्दः 'पूर्वैः' इत्यनेन तृतीयासामर्थ्यम् दर्श्यते, अतः सूत्रार्थे 'तृतीयासमर्थात्' इति निर्देशः कृतः अस्ति । 2. अस्मिन् सूत्रे 'पूर्वैः' इति बहुवचनान्तप्रयोगः कृतः अस्ति । अस्मिन् विषये काशिकाकारः वदति - ' पूर्वैः इति बहुवचनान्तेन पूर्वपुरुषाः उच्यन्ते' । इत्युक्ते, अस्य सूत्रस्य प्रयोगः तत्रैव कृतः दृश्यते यत्र 'पूर्व' शब्दस्य अर्थः 'पूर्वपुरुषः' इति वर्तते । यथा, उपरिनिर्दिष्टे उदाहरणे 'पूर्विण' इत्युक्ते 'पूर्वपुरूषैः कृतम् तत्' । Vasu English Summary -------------------- The affixes इन , ख and य come in the sense of 'made by them' after the word पूर्व 'fore-fathers' in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affixes इन , ख and य come in the sense of 'made by them' after the word पूर्व 'fore-fathers' in the Instrumental -3rd case in construction. The ख is read into the *sutra* by force of the word च; the *anuvritti* of मत्वर्थ ceases. Thus पूर्वैः कृतं = पूर्विणः 'made by the ancestors' i. e. a road. So also पूर्व्यः and पूर्वीणः ॥ The word पूर्वैः in the plural means पूर्वपुरुषाः "past generations, ancestors". These words occur generally in the plural, and mean "roads widened by the forefathers". Thus गम्भीरेभिः पथिभिः पूर्विणेभिः ॥ So also, ये ते पन्थाः सविताः पूर्व्यासः (*Rig* I.35. II) Another reading of this *sutra* is पूर्वैः कृतमिनियौच; the affixes then will be इनि (इन्), and य; and ख will be drawn in by virtue of च ॥ The examples then will be पूर्विन्; 3rd pl. पूर्विभिः (with इन्), as पथिभिः पूर्विभिः, or पूर्वीणैः (ख) or पूर्व्यैः (य) ॥ Kashika ------- मत्वर्थ इति निवृत्तम्। निर्देशादेव समर्थविभक्तिः। पूर्वशब्दात् तृतीयासमर्थात् कृतमित्येतस्मिन्नर्थ इन य इत्येतौ प्रत्ययौ भवतः। चकारात् ख च। गम्भीरे॑भिः पथि॑भिः पूर्विणे॑भिः(काठ०सं०९.६.१९)। पू॒र्व्यैः (तै०सं०१.८.५.२)। पूर्वीणैः। पूर्वैरिति बहुवचनान्तेन पूर्वपुरुषा उच्यन्ते। तत्कृताः पन्थानः प्रशस्ता इति पथां प्रशंसा॥ Siddhanta Kaumudi ----------------- गम्भीरेभिः पथिभिः पूर्विणेभिः (ग॒म्भी॒रेभिः॑ प॒थिभिः॑ पूर्वि॒णेभिः) । ये ते पन्थाः सवितः पूर्व्यासः (ये ते॒ पन्थाः॑ सवितः पूर्व्यासः॑) ॥ Padamanjari ----------- बहुवचनान्तेनेत्यादि । बहुवचनान्तात्प्रत्ययविध्यर्थो बहुवचननिर्देशः । बहुवचनान्तात्प्रत्ययोत्पतौ यथा प्रशंसा गम्यते - पूर्वैर्बहुभिः क्रियत इति प्रतीतेः, तेन पूर्वशब्दश्च वृद्धेषु पुरुषेषु प्रवर्तत इत्यर्थः ॥ Nyaas ----- `पूर्वः कृत मिनयौ च` इति। ख एव यथा स्यात्, यन्मा भूत्। `पूर्वैरिति बहुवचनान्तेन ` इत्यादि। `पथिभिः पूर्वैःर` इत्येवमादिभिर्वेदवाक्यैः पूर्वपुरुषकृतत्वेनयदा प्रशंसां प्रतिपादयितुं निष्ठा साध्वेव शक्यते विज्ञातुम्, तदा पूर्वपुरुषाभिधायिनः पूर्वशब्दात् प्रत्यय उपपद्यते। तस्मात् पूर्वैरिति बहुवचनान्तेन पूर्वपुरुषा अभिधीयन्ते। छन्दसामर्थपरत्वाद्बहुवचनस्य।तेन पूर्वपुरुषाणां पन्था आस्थितः सम्पद्यत इति दर्शयितुमाह Prakriyasarvasvam ----------------- पूर्वैः कृतमित्यर्थे इनयौ खश्च स्यात् । पूर्वपुरुषैः कृतमित्यर्थे पथिभिः । पूर्विणोभिः पूर्व्यैः । एवं पूर्विणः ।