44128: मत्वर्थे मासतन्वोः

Padacheda: मत्वर्थे | S | 7 | 1 |

मास-तन्वोः | S | 7 | 2 |

Sutrartha

मतुप्-प्रत्ययस्य अर्थः ‘मास’ उत ‘तनू’ इत्यस्य विशेषणरूपेण प्रयुज्यते चेत् मतुप्-प्रत्ययस्य स्थाने वेदेषु संज्ञायाः विषये यत्-प्रत्ययः अपि कृतः दृश्यते ।

‘मतुप्’ इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) इत्यनेन ‘तत् अस्य अस्मिन् वा अस्ति’ अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते । यदि अयमर्थः ‘मास’ उत ‘तनू’ इत्यस्य विशेषणरूपेण प्रयुज्यते, तर्हि वेदेषु मतुप्-प्रत्ययस्य स्थाने यत्-प्रत्ययः अपि प्रयुक्तः दृश्यते । यथा - नभांसि विद्यन्ते अस्मिन् मासे सः = नभस् + यत् [‘तद् अस्मिन् अस्ति’ अस्मिन् अर्थे तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) इत्यनेन मतुप्-प्राप्ते ‘मास’ इत्यस्य उपस्थितौ मतुप्-प्रत्ययस्य स्थाने यत्-प्रत्ययः अपि कृतः दृश्यते] → नभस्य तथैव - ओजः विद्यते अस्यां तन्वां सा ओजस्या तनूः । अत्र ‘ओज’शब्दस्य उपस्थितौ वेदेषु मतुबर्थे यत्-प्रत्ययः कृतः दृश्यते ।अ अन्यानि उदाहरणानि - 1. सहांसि विद्यते अस्मिन् मासे सः सहस्यः मासः । 2. तपांसि विद्यते अस्मिन् मासे सः तपस्यः मासः । 3. मधूनि सन्ति अस्मिन् मासे सः मधव्यः मासः । 4. रक्षांसि विद्यन्ते अस्यां तन्वां सा रक्षस्या तनूः । अत्र वार्त्तिकद्वयं ज्ञातव्यम् - 1. <!मासतन्वोः अनन्तरार्थे वा!> । इत्युक्ते, ‘तद् अस्य अस्मिन् वा अस्ति’ इत्यस्य स्थाने ‘तद् अस्य अस्मिन् वा अनन्तरे अस्ति’ अयमर्थः ‘मास’ उत ‘तनू’ इत्यस्य विशेषणरूपेण प्रयुज्यते चेत् अपि यत्-प्रत्ययः कृतः दृश्यते । यथा - ‘मधूनि अनन्तरम् विद्यन्ते अस्मिन् मासे’ सोऽपि मधव्यः मासः । 2. <!लुगकारेकाररेफाश्च वक्तव्याः!> । इत्युक्ते, वर्तमानसूत्रेण यत्र यत्-प्रत्ययस्य विधानम् कृतमस्ति, तत्र केषुचन स्थलेषु यत्-प्रत्ययस्य लुक् कृतः अपि दृश्यते, केषुचन अन्येषु स्थलेषु यत्-प्रत्ययस्य स्थाने ‘अ’, ‘इ’, ‘र’ एते प्रत्ययाः अपि कृताः दृश्यन्ते । यथा - [अ] यत्-प्रत्ययस्य लुक् - तपः विद्यते अस्मिन् मासे सः तपः मासः । प्रक्रिया इयम् - तपः विद्यते अस्मिन् मासे सः = तपस् + यत् [मत्वर्थे मासतन्वोः (4.4.128) इति यत्-प्रत्ययः] → तपस् [<!लुगकारेकाररेफाश्च वक्तव्याः!> इत्यनेन यत्-प्रत्ययस्य लुक्] [आ] यत्-प्रत्ययस्य स्थाने ‘अ’प्रत्ययः - ऊर्क् अस्ति अस्मिन् मासे सः ऊर्जः मासः । प्रक्रिया इयम् -

ऊर्क् अस्ति अस्मिन् मासे सः

= ऊर्ज् + अ [<!लुगकारेकाररेफाश्च वक्तव्याः!> इत्यनेन अ-प्रत्ययः] → ऊर्ज [इ] यत्-प्रत्ययस्य स्थाने ‘इ’प्रत्ययः । शुक् ( = पावित्र्यम्) अस्ति अस्मिन् मासे सः शुचिः मासः । प्रक्रिया इयम् - शुक् अस्ति अस्मिन् मासे सः = शुच् + इ [<!लुगकारेकाररेफाश्च वक्तव्याः!> इत्यनेन अ-प्रत्ययः] → शुचि [ई] यत्-प्रत्ययस्य स्थाने ‘र’ प्रत्ययः । शुक् अस्ति अस्मिन् मासे सः शुक्रः मासः । प्रक्रिया इयम् - शुक् अस्ति अस्मिन् मासे सः = शुच् + र = शुक्र [ रेफादौ प्रत्यये परे अङ्गस्य पदसंज्ञा, अतः चोः कुः (8.2.30) इति कुत्वम् । अग्रे झलां जशोऽन्ते (8.2.39) इति जश्त्वे प्राप्ते अयस्मायादीनि च्छन्दसि (1.4.20) इत्यनेनैव अङ्गस्य भसंज्ञा भवति अतः जश्त्वं निषिध्यते ।] एतेषां चतुर्ण्णामपि उदाहणम् वेदेषु तैत्तिरीयसंहितायाम् एकस्मिन्नेव मन्त्रे दृश्यते - (तैत्तिरीयसंहिता 1.4.14.1) मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्चेषश्चोर्जश्च सहश्च सहस्यश्च तपश्च तपस्यश्च मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्चेषश्चोर्जश्च सहश्च सहस्यश्च तपश्च तपस्यश्च । ज्ञातव्यम् - अस्मिन् सूत्रे ‘मत्वर्थे’ इत्यस्य स्थाने केवलं ‘मतौ’ इति उच्यते चेदपि आवश्यकः अर्थबोधः भवत्येव । स्वयमाचार्यः अपि मतौ च्छः सूक्तसाम्नोः (5.2.59) इत्यत्र ‘मत्वर्थे’ इत्स्यस्य निर्देशार्थम् ‘मतौ’ इत्येव प्रयुज्यति । अतः वर्तमानसूत्रे अपि ‘मतौ’ इत्येव वक्तव्यम् ।अस्मिन् विषये न्यासकारः वदति - ‘अर्थग्रहणं किमर्थम्, यावता मतौ छः सूक्तसाम्नोः 5।2॥59 इत्यत्र यथा मतौ इत्युच्यमानो मत्वर्थे प्रत्यय उच्यते, तथेहापि लभ्यते, तस्मात् मतौ इत्येवं कस्मान्नोक्तम्? सत्यमेतत्; विस्पष्टार्थमर्थग्रहणम्’ ।

Vasu English Summary

The affix यत् comes in the छन्दस् (Vedas) with the force of मतुप् after a word in the Nominative 1st-Case in construction, the word so formed meaning ‘a month’ or ‘a body’.

Vasu English Translation

The affix यत् comes in the छन्दस् (Vedas) with the force of मतुप् after a word in the Nominative 1st-Case in construction, the word so formed meaning ‘a month’ or ‘a body’. This debars the affix मतुप् and those having the sense of मतुप् ॥ Thus नभांसि विद्यन्ते यस्मिन् मासे = नभस्यः ‘the month of clouds’ i. e. June - July. So also सहस्य, तपस्यः मधव्यः, being the names of the months Pausha (Nov-Dec), Phalguna (Feb-March) and Vaisakha (April-May). The word मधव्यः is thus formed:- मधु + यत् = मधा + यत् (6.4.146) = मधव्यः (6.1.79) ‘the month of honey’. Similarly ओजस्या तनूः ‘the bodies full of vigour’.

Why do we say “in denoting a month or a body”? Observe मधुमता पात्रेण चरति, here मतुप् is used.

Vart:- The affix यत् is optionally employed when the sense is ‘immediately after’. As मध्वस्मिन्नस्ति मध्वस्मिनन्तरमिति वा = माधव्यः or माधवो मासः ॥

Vart:- Sometimes the affix is elided, and sometimes the letters अ, इ and र serve the same purpose as this affix. Thus तपः or तपस्यः, नभस् or नभस्यः, सहस् or सहस्यः, all in the neuter gender in the Chhandas. Sometimes अ serves the same purpose, e. g. इषो मासः, ऊर्जोमासः ॥ Sometimes इ, as शुचिर्मासः. Sometimes र e. g. शुक्रो मासः ॥

Bhashya

मत्वर्थे मासतन्वोः (1866) (5581 पूरकवार्तिकम्॥ 1 ॥) - मासतन्वोरनन्तरार्थे वा - (भाष्यम्) मासतन्वोरनन्तरार्थे वेति वक्तव्यम्। मध्वस्मिन्नस्ति मध्वनन्तरमिति वा मधव्यः। माधवः॥ (5582 पूरकवार्तिकम्॥ 2 ॥) - लुगकारेकाररेफाश्च - (भाष्यम्) लुगकारेकाररेफाश्च प्रत्यया वक्तव्याः। लुक् -मधुः, नभः, तपः। अकारः -ःइषः,ऊर्जः। इकारः -शुचिः। रेफश्च -शुक्रः॥ 4-4-1- आ. 20 (826 विधिसूत्रम्

Kashika

यस्मिन्नर्थे मतुब् विहितः, तस्मिंश्छन्दसि विषये यत् प्रत्ययो भवति मासतन्वोः प्रत्ययार्थविशेषणयोः। प्रथमासमर्थादस्त्युपाधिकात् षष्ठ्यर्थे सप्तम्यर्थे च यत् प्रत्ययो भवति। मत्वर्थीयानामपवादः। नभांसि विद्यन्ते यस्मिन् मासे नभ॒स्यः॑ (तै०सं०१.४.१४.१) मासः। सह॒स्यः॑ (तै०सं०१.४.१४.१)। तप॒स्यः॑ (तै०सं०१.४.१४.१)। मध॒व्यः॑ (तै०सं०५.२.९.३)। नभःशब्दोऽभ्रेषु वर्तते। तन्वां खल्वपि — ओजोऽस्यां विद्यत ओज॒स्या त॒नूः॑। रक्ष्ास्या त॒नूः॑ (मै०सं०२.३.१)। मासतन्वोरिति किम् ? मधुमता पात्रेण चरति। मासतन्वोरनन्तरार्थे च। मध्वस्मिन्नस्ति मध्वस्मिन्ननन्तरमिति वा मधव्यो मासः॥ लुगकारेकाररेफाश्च वक्तव्याः॥ लुक्तावत् — तप॑श्च तप॒स्य॑श्च॒ (तै०सं०१.४.१४.१)। नभ॑श्च नभ॒स्य॑श्च॒ (तै०सं०१.४.१४.१)। सह॑श्च सह॒स्य॑श्च॒ (तै०सं०१.४.१४.१)। नपुंसकलिङ्गं छान्दसत्वात्। अकारः — इ॒षः (तै०सं०१.४.१४.१) मासः। ऊ॒र्जः (तै०सं०१.४.१४.१) मासः। इकारः — शुचिः॑ (तै०सं०१.४.१४.१) मासः। रेफः — शु॒क्रः (तै०सं०१.४.१४.१) मासः॥

Siddhanta Kaumudi

नभोऽभ्रम् । तदस्मिन्नस्तीति नभस्यो मासः । ओजस्या तनूः ॥

Padamanjari

मत्वर्थग्रहणाल्लब्धर्मर्थं दर्शयति - प्रथमासमर्थादित्यादि । मासतन्वोरिति’कृषिचमितनिधनिसज्जिखर्ज्जिभ्य ऊः’ इत्यूकारान्तस्तनूशब्दः सूत्रे निर्दिष्टः, न तु’भृमृशीङ् तृचरित्सरितनिमिमस्जिभ्य उः’ इत्युका रान्तः;’द्वन्द्वे घि’ इति पूर्वनिपातप्रसङ्गात् । अनन्तरार्थे चेति । न केवलं मत्वर्थमात्र इति चशब्दस्यार्थः । लुगकारेकाररेफाश्चेत्यादि ‘ रादिफः’ इत्यत्र वर्णादिति न सम्बध्यते, तेन समुदायनिर्देशेऽपि इफः कृतः । अन्ये तु रशब्दा इति पठन्ति, प्रत्यय इत्यधिकारोऽकारादिभिः सम्बध्यते, न तु लुका । तपनं तपः, सहनं सहः, भावोऽसुन्,’तदस्मिन्नस्ति’ इति सूत्रेण विहितस्य यतो लुक् । कथं पुनरत्र नपुंसकत्वम्, यावता तद्धितलुकि सत्यभिधेयवल्लिङ्गेन भवितव्यम् ? अत आह - नपुंसकलिङ्गं छान्दसत्वादिति । इट् उ अन्नम्, इष्यमाणत्वात् । ऊर्क् उ बलम्, ठूर्ज बलप्राणनयोःऽ, ताभ्यामकारः प्रत्ययः - इषः, ऊर्जः । शोचनं शुक्, पूर्ववत्क्विप्, आतपातिरेकेण शरीरादेः शोषः, तद्वान्मासः शुचिः । एवं शुक्रः । अत्र छान्दसत्वादेवायस्मयादित्वद्भत्वाज्जश्त्वाभावः, तदेव च्छन्दोऽधिकारे लुगादीनां विधानाद्भाषायां शुचिशुकादीनामन्याय्यः प्रयोगः स्यात्, व्युत्पत्यन्तरेण वा, अव्युत्पन्ना वा नभस्यादयः शब्दा मासेषु वर्तन्ते । इषोर्जशब्दावर्शाअद्यच्प्रत्ययान्तौ, मत्वर्थीये रप्रत्यये पृषोदरादित्वाज्जश्त्वाभावे शुक्र इति भवति, शोचतेरन्तर्भावितण्यर्थादौणादिके किप्रत्ययये कृते शुचिरिति भवति, शोचयति संतापयति प्राणिन इति कृत्वा । अभेदोपचारान्नभः प्रभृतीनां मासेषु वृत्तिः, नभस्यप्रभृतयस्तु’तत्र साधुः’ इति यदन्ताः,’मतौ च्छः सूक्तसाम्नोः’ इत्यत्र यथान्तरेणाप्यर्थग्रहणं मत्वर्थे प्रत्ययो लभ्यते, तथेहापि लप्स्यते; नार्थोऽर्थग्रहणेन ॥

Nyaas

मत्वर्थे मासतन्वोरिति प्रत्ययार्थविशेषणम्। मत्वर्थग्रहणादेव प्रथमा समर्थविभक्तिरस्त्युपाधिका लभ्यते? इत्याह - प्रथमसमर्थादस्त्युपाधिकात् इति।{अनन्तरार्थेव वा - काशिका} अनन्तरार्थे च इति। न केवलं मत्वर्थ एव त्ययो वक्तव्यः।ननु च तप) प्रभृतीनां प्रत्ययार्थमासादिवचनानामभिधेयलिङ्गवचनानि भवन्तीति पुंल्लिङ्गता प्राप्वोति, तस्याञ्च सत्यां **अत्वसन्तस्य चाधातोः** (6.4.14) इति दीर्घेण भवितव्यम्; तत्कथं तपश्च सहश्च नभश्चेति प्रयोगः? इत्यत आह -`नपुंसकलिङ्गं छान्दसत्वात् इति। अयं हि च्छान्दसः प्रयोगः। तत्रेति पुंल्लिङ्गेऽभिधेये नपुंसकलिङ्गमुपपद्यते। व्यत्ययो बहुलम् (3.1.85) इति लिङ्गव्यत्ययस्य च्छन्दसि विधानात्। इडस्मिन्मासेऽस्तीति इषः। ऊर्घस्मिन् मासेऽस्तीति ऊर्जःर। शुगस्मिन् मासेऽस्तीति शूचिः शुग् वास्मिन् मासेऽस्तीति शुक्रःचोः कुः (8.2.30) इति कुत्वम्। अर्थग्रहणं किमर्थम्, यावता मतौ छः सूक्तसाम्नोः (52।59) इत्यत्र यथा मतौ इत्युच्यमानो मत्वर्थे प्रत्यय उच्यते, तथेहापि लभ्यते, तस्मात् मतौ इत्येवं कस्मान्नोक्तम्? सत्यमेतत्; विस्पष्टार्थमर्थग्रहणम्॥

Vartika

मासतन्वोरनन्तरार्थे वा ।