44127: वयस्यासु मूर्ध्नो मतुप्¶
Padacheda: वयस्यासु | S | 7 | 3 |
मूर्ध्नः | S | 5 | 1 |
मतुप् | S | 1 | 1 |
Sutrartha¶
‘वयस्वान् मूर्धन्वान् उपधानमन्त्रः आसाम् इष्टकानाम्’ अस्मिन् अर्थे प्रथमासमर्थात् मतुप्-प्रत्ययान्त-मूर्धन्-शब्दस्य वेदेषु संज्ञायाम् मतुप्-प्रत्ययः कृतः दृश्यते ।
यस्मिन् उपधानमन्त्रे ‘वयस्’ तथा ‘मूर्धन्’ द्वावपि शब्दौ स्तः, तादृशः उपधानमन्त्रः ‘वयस्वान्’ अस्ति इत्यपि उच्यते, ‘मूर्धन्वान् अस्ति इत्यपि उच्यते । अस्य मन्त्रस्य विषये ‘आसाम् इष्टकानाम्’ इत्यस्मिन् अर्थे प्रारम्भे वयस्वत्-शब्दात् तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः (4.4.125) इत्यनेन यत्-प्रत्ययः भवति । अग्रे तेनैव सूत्रेण ‘मूर्धन्वत्’ शब्दात् अपि यत्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण (आरम्भे ‘मूर्धन्वत्’ इत्यत्र विद्यमानस्य मतुप्-प्रत्ययस्य लुकं कृत्वा ततः पुनः) मतुप्-प्रत्ययः विधीयते । यथा - वयस्वान् मूर्धन्वान् मन्त्रः आसाम् इष्टकानाम् ताः इष्टकाः = [1] वयस्वत्-शब्दात् यत्-प्रत्ययः - वयस्वत् + यत् → वयस् + यत् [ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः (4.4.125) इति मतुप्-प्रत्ययस्य लुक्] → वयस्य [2] मूर्धन्वत्-शब्दात् मतुप्-प्रत्ययः - मूर्धन्वत् + मतुप् → मूर्धन् + मत् [वयस्यासु मूर्ध्नो मतुप् (4.4.27) इति मतुप्-प्रत्ययस्य लुक्] → मूर्धन् + वत् [मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) इति वकारादेशः] → मूर्धन्वत् वयस्वान् मूर्धन्वान् मन्त्रः आसाम् इष्टकानाम् ताः वयस्याः मूर्धन्वत्यः इष्टकाः । वेदेषु प्रयोगः - बौधायनश्रौतसूत्रेषु 10.38 - ‘…मूर्धन्वतीरुपदधाति विष्टम्भो वय इति चतस्रः पुरस्ताद्धँ सपातिनीस्तयादेवतं कृत्वा सूददोहसः करोत्यथ वसस्या उपदधाति…’ । ज्ञातव्यम् - 1. अस्य सूत्रस्य प्रयोगः केवलं तेषाम् मन्त्राणाम् विषये एव भवति येषु ‘वयस्’ तथा ‘मूर्धन्’ द्वावपि शब्दौ स्तः । यदि मन्त्रे केवलं मूर्धन्-शब्दः विद्यते, तर्हि सः मन्त्रः ‘वयस्वान्’ न भवति, केवलं ‘मूर्धन्वान्’ भवति । अस्य मन्त्रस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्यां स्थितौ ‘मूर्धन्वत्’ शब्दात् औत्सर्गिकः यत्-प्रत्ययः एव विधीयते, न हि मतुप्-प्रत्ययः । 2. अनेन सूत्रेण द्वे कार्ये उच्येते - मूर्धन्वान् शब्दात् विद्यमानस्य मतुप्-प्रत्ययस्य लुक्, तथा च नूतनरूपेण ‘मतुप्’ प्रत्ययविधानम् । आरम्भिकम् लुकम् दर्शयितुमेव ‘मूर्ध्नः’ इति लुप्त-मतुप्-प्रत्ययान्तस्य योजनम् सूत्रे कृतमस्ति । अस्मिन् विषये काशिकाकारः वदति - ‘मूर्धन्वतः इति वक्तव्ये मूर्ध्नः इत्युक्तं, मतुपो लुकं भाविनं चित्ते कृत्वा’ । इत्युक्ते, यद्यपि मतुप्-प्रत्ययः ‘मूर्धन्वत्’ शब्दात् विधीयते, तथापि सूत्रे उपस्थितः लुक्-मतुबन्तः ‘मूर्धन्’ शब्दः अग्रे भविष्यमाणम् लुकम् निर्देशयति - इति आशयः ।
Vasu English Summary¶
The affix मतुप् is added in the छन्दस् (Vedas) to the word मूर्धन्वत् in expressing bricks collected with the मन्त्र containing the word वयस्।
Vasu English Translation¶
The affix मतुप् is added in the छन्दस् (Vedas) to the word मूर्धन्वत् in expressing bricks collected with the मन्त्र containing the word वयस्। The word वयस्या means the bricks, the Upadhana mantras of which contain the word वयस् ॥ The affix मतुप् debars यत् ॥ A mantra which contains both the word वयस् and मूर्धन्, that Mantra is both वयस्वान् and मूर्धन्वान् ॥ Now in denoting sacrificial bricks put up with such a mantra, the affix यत् would have come by (4.4.125) after both these words वयस्वान् and मूर्द्धन्वान् ॥ The present sutra ordains मतुप् after मूर्द्धन्वान् ॥ Thus मूर्द्धन्व꣡तीरुपदधाति ‘he collects Murdhanvati bricks’. The words वयस्याः and मूर्द्धन्वत्यः denote the same object. See (6.1.176).
Why do we say वयस्यासु ? The affix ‘matup’ will not be added to ‘murdhan’, if the Mantra contains only the word ‘murdhan’ and not ‘vayas’ also. In that case मूर्धन्याः will be the form, meaning ‘bricks collected with the Mantra containing the word मूर्धन्’, while मूर्धन्वत्यः means ‘bricks collected with the Mantra containing the words murdhan and vayas’.
The sutra contains the word मूर्ध्नः ablative singular of मूर्धन् ॥ It ought to have been मूर्धन्वतः, for the affix matup is added to मूर्धन्वत्, the यत् being elided then by (4.4.125). The author has mentally elided the affix वत्, and shown in the aphorism the last stage of the word to which मतुप् is to be added.
Kashika¶
वयस्वानुपधानो मन्त्रो यासां ता वयस्याः, तास्वभिधेयासु मूर्ध्नो मतुप् प्रत्ययो भवति। पूर्वस्य यतोऽपवादः। यस्मिन् मन्त्रे वयः शब्दो मूर्धन्शब्दश्च विद्यते, स वयस्वानपि भवति मूर्धन्वानपि। यथा — मू॒र्धा वयः॑ प्॒रजाप॑ति॒श्छन्दः॑(मा०सं०१४.९) इति। तत्र वयस्वच्छब्दादिव मूर्धन्वच्छब्दादपि यति प्राप्ते मतुब् विधीयते। मूर्ध॒न्वती॑र्भवन्ति (तै०सं०५.३.८.२)। वयस्या एव मूर्धन्वत्यः। वयस्यास्विति किम्? यत्र मूर्धन्शब्द एव केवलो न वयः शब्दस्तत्र मा भूत्। मूर्धन्वत इति वक्तव्ये मूर्ध्न इत्युक्तम्, मतुपो लुकं भाविनं चित्ते कृत्वा॥
Siddhanta Kaumudi¶
तद्वानासामिति सूत्रं सर्वमनुवर्तते । मातोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् । मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोर्लुक्च वयः शब्दवन्मन्त्रोपधेयासु मूर्धन्वतीरुपदधातीति प्रयोगः ॥
Padamanjari¶
वयस्यास्विति । च्छन्दसि या वयस्या इष्टका उच्यन्ते तास्वित्यर्थः । ताश्च बह्व्यः, तास्वन्तश्चतस्रो मूर्धन्वत्यः,’विष्टम्भोवयः’ इत्यादिवयस्वद्भिर्मन्त्रैरुपधेयाः, तत्र च यद्यपि मूर्द्धा वयः प्रजापतिश्च्छन्द इत्यन्तिम एकस्मिन्नेव मन्त्रे मूर्द्धशब्दोऽस्ति, तथापि साहचर्याद्’विष्टम्भो वयः’ इत्याद्याश्चत्वारो मूर्धन्वन्त उच्यन्ते, यथा - च्छत्रिणो यान्तीति, तेन मूर्द्धन्वतीरुपदधातीति बहुवचनम् । मूर्द्धन्वानपि भवतीति । ननु ठनो नुट्ऽ इति च्छन्दसि नुड् विधीयते ? सत्यम् ; यथा सूत्रकारेण छान्दसमेव पदं प्रयुक्तम् -‘वयसस्यासु’ इति, तथेदमपि वृत्तिकारेण, मूर्धन्वानपि भवति च्छन्दसीत्यर्थः ।’वयस्याश्च ताः मूर्धन्वत्याश्च’ इति ठुभयथापि च्छन्दस्यभिधीयतेऽ इत्युक्तं भवति । यत्र मूर्द्धन्शब्द एव केवल इति । यथा - ठग्ने यशस्विन्यशसे समर्पयऽ इत्यादिके मन्त्रे । ततो मा भूदिति । तदभिधायिनो मूर्द्धन्शब्दादित्यर्थः । मूर्द्धन्वत इति वक्तव्यमिति ।’तद्वान्’ इति चऽ लुक् च मतोःऽ इति चानुवर्तते, ततश्च मूर्द्धन्वत इति युक्तं वक्तुमिति भावः । इह तु गायत्रीः पुरस्तादुपदधाति,’तेजो वै गायत्री तेज एव मुखतो धते मूर्द्धन्वती भवति’ इति मुख्यो गायत्रीषु मूर्धंन्वतीशब्दः प्रथमं मतुबन्तः प्रयुक्तः, किं कारणम् ? तदुपधानमन्त्रेषु ठग्निर्मूर्धा भुवःऽ इत्यादिषु वयः शब्दस्याभावात् ॥
Nyaas¶
मूर्धन्वतीः इति। उगितश्च (6.3.45) इति ङीप्। वयस्यास्ता मूर्धन्वत्यश्चेति वयस्वामनुपधानो मन्त्रः, तासामिति वयस्याः। मूर्धन्वानुपधानो मन्त्रः, तासामिति मूर्धन्दत्यः।यत्रि इत्यादि। न ह्रेवंविधो यासामुपधानो मन्त्रस्ततो वयस्यात्विति वचनात्। अत्र मूर्धशब्द एवास्ति, न वयः शब्दः, ततो न भवति -मूर्धन्वत्य इति।वक्तव्ये इति। तद्वानित्यधिकारान्मतुबन्तान्मर्धशब्दात्प्रत्ययेन भवितव्यम्। अतः मूर्धन्वतःर इति युक्तं वक्तुम्, तन्मतुपो भाविनं लुकं चेतसि कृत्वा। एवंलघु सूत्रं भवति॥
Prakriyasarvasvam¶
वयस्याख्यास्विष्टकासु वाच्यासु मूर्धन्वानासामुपधानो मन्त्र इत्यर्थे मतुप् स्यात् । पूर्वमतुपो लोपश्च । अन्यथा मूर्धन्वत्वा’निति स्यात् । मूर्धन्वतीरुपदधाति ।