44128: मत्वर्थे मासतन्वोः ========================= **Padacheda:** मत्वर्थे | S | 7 | 1 | मास-तन्वोः | S | 7 | 2 | Sutrartha --------- **मतुप्-प्रत्ययस्य अर्थः 'मास' उत 'तनू' इत्यस्य विशेषणरूपेण प्रयुज्यते चेत् मतुप्-प्रत्ययस्य स्थाने वेदेषु संज्ञायाः विषये यत्-प्रत्ययः अपि कृतः दृश्यते ।** 'मतुप्' इति कश्चन तद्धितप्रत्ययः । **तदस्यास्त्यस्मिन्निति मतुप्** (5.2.94) इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते । यदि अयमर्थः 'मास' उत 'तनू' इत्यस्य विशेषणरूपेण प्रयुज्यते, तर्हि वेदेषु मतुप्-प्रत्ययस्य स्थाने यत्-प्रत्ययः अपि प्रयुक्तः दृश्यते । यथा - नभांसि विद्यन्ते अस्मिन् मासे सः = नभस् + यत् ['तद् अस्मिन् अस्ति' अस्मिन् अर्थे **तदस्यास्त्यस्मिन्निति मतुप्** (5.2.94) इत्यनेन मतुप्-प्राप्ते 'मास' इत्यस्य उपस्थितौ मतुप्-प्रत्ययस्य स्थाने यत्-प्रत्ययः अपि कृतः दृश्यते] → नभस्य तथैव - ओजः विद्यते अस्यां तन्वां सा ओजस्या तनूः । अत्र 'ओज'शब्दस्य उपस्थितौ वेदेषु मतुबर्थे यत्-प्रत्ययः कृतः दृश्यते ।अ अन्यानि उदाहरणानि - 1. सहांसि विद्यते अस्मिन् मासे सः सहस्यः मासः । 2. तपांसि विद्यते अस्मिन् मासे सः तपस्यः मासः । 3. मधूनि सन्ति अस्मिन् मासे सः मधव्यः मासः । 4. रक्षांसि विद्यन्ते अस्यां तन्वां सा रक्षस्या तनूः । अत्र वार्त्तिकद्वयं ज्ञातव्यम् - 1. । इत्युक्ते, 'तद् अस्य अस्मिन् वा अस्ति' इत्यस्य स्थाने 'तद् अस्य अस्मिन् वा अनन्तरे अस्ति' अयमर्थः 'मास' उत 'तनू' इत्यस्य विशेषणरूपेण प्रयुज्यते चेत् अपि यत्-प्रत्ययः कृतः दृश्यते । यथा - 'मधूनि अनन्तरम् विद्यन्ते अस्मिन् मासे' सोऽपि मधव्यः मासः । 2. । इत्युक्ते, वर्तमानसूत्रेण यत्र यत्-प्रत्ययस्य विधानम् कृतमस्ति, तत्र केषुचन स्थलेषु यत्-प्रत्ययस्य लुक् कृतः अपि दृश्यते, केषुचन अन्येषु स्थलेषु यत्-प्रत्ययस्य स्थाने 'अ', 'इ', 'र' एते प्रत्ययाः अपि कृताः दृश्यन्ते । यथा - [अ] यत्-प्रत्ययस्य लुक् - तपः विद्यते अस्मिन् मासे सः तपः मासः । प्रक्रिया इयम् - तपः विद्यते अस्मिन् मासे सः = तपस् + यत् [**मत्वर्थे मासतन्वोः** (4.4.128) इति यत्-प्रत्ययः] → तपस् [ इत्यनेन यत्-प्रत्ययस्य लुक्] [आ] यत्-प्रत्ययस्य स्थाने 'अ'प्रत्ययः - ऊर्क् अस्ति अस्मिन् मासे सः ऊर्जः मासः । प्रक्रिया इयम् - ऊर्क् अस्ति अस्मिन् मासे सः = ऊर्ज् + अ [ इत्यनेन अ-प्रत्ययः] → ऊर्ज [इ] यत्-प्रत्ययस्य स्थाने 'इ'प्रत्ययः । शुक् ( = पावित्र्यम्) अस्ति अस्मिन् मासे सः शुचिः मासः । प्रक्रिया इयम् - शुक् अस्ति अस्मिन् मासे सः = शुच् + इ [ इत्यनेन अ-प्रत्ययः] → शुचि [ई] यत्-प्रत्ययस्य स्थाने 'र' प्रत्ययः । शुक् अस्ति अस्मिन् मासे सः शुक्रः मासः । प्रक्रिया इयम् - शुक् अस्ति अस्मिन् मासे सः = शुच् + र = शुक्र [ रेफादौ प्रत्यये परे अङ्गस्य पदसंज्ञा, अतः **चोः कुः** (8.2.30) इति कुत्वम् । अग्रे **झलां जशोऽन्ते** (8.2.39) इति जश्त्वे प्राप्ते **अयस्मायादीनि च्छन्दसि** (1.4.20) इत्यनेनैव अङ्गस्य भसंज्ञा भवति अतः जश्त्वं निषिध्यते ।] एतेषां चतुर्ण्णामपि उदाहणम् वेदेषु तैत्तिरीयसंहितायाम् एकस्मिन्नेव मन्त्रे दृश्यते - (तैत्तिरीयसंहिता 1.4.14.1) मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्चेषश्चोर्जश्च सहश्च सहस्यश्च तपश्च तपस्यश्च मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्चेषश्चोर्जश्च सहश्च सहस्यश्च तपश्च तपस्यश्च । ज्ञातव्यम् - अस्मिन् सूत्रे 'मत्वर्थे' इत्यस्य स्थाने केवलं 'मतौ' इति उच्यते चेदपि आवश्यकः अर्थबोधः भवत्येव । स्वयमाचार्यः अपि **मतौ च्छः सूक्तसाम्नोः** (5.2.59) इत्यत्र 'मत्वर्थे' इत्स्यस्य निर्देशार्थम् 'मतौ' इत्येव प्रयुज्यति । अतः वर्तमानसूत्रे अपि 'मतौ' इत्येव वक्तव्यम् ।अस्मिन् विषये न्यासकारः वदति - 'अर्थग्रहणं किमर्थम्, यावता मतौ छः सूक्तसाम्नोः 5।2॥59 इत्यत्र यथा मतौ इत्युच्यमानो मत्वर्थे प्रत्यय उच्यते, तथेहापि लभ्यते, तस्मात् मतौ इत्येवं कस्मान्नोक्तम्? सत्यमेतत्; विस्पष्टार्थमर्थग्रहणम्' । Vasu English Summary -------------------- The affix यत् comes in the छन्दस् (Vedas) with the force of मतुप् after a word in the Nominative 1st-Case in construction, the word so formed meaning 'a month' or 'a body'. Vasu English Translation ------------------------ The affix यत् comes in the छन्दस् (Vedas) with the force of मतुप् after a word in the Nominative 1st-Case in construction, the word so formed meaning 'a month' or 'a body'. This debars the affix मतुप् and those having the sense of मतुप् ॥ Thus नभांसि विद्यन्ते यस्मिन् मासे = नभस्यः 'the month of clouds' i. e. June - July. So also सहस्य, तपस्यः मधव्यः, being the names of the months *Pausha* (Nov-Dec), *Phalguna* (Feb-March) and *Vaisakha* (April-May). The word मधव्यः is thus formed:- मधु + यत् = मधा + यत् (6.4.146) = मधव्यः (6.1.79) 'the month of honey'. Similarly ओजस्या तनूः 'the bodies full of vigour'. Why do we say "in denoting a month or a body"? Observe मधुमता पात्रेण चरति, here मतुप् is used. Vart:- The affix यत् is optionally employed when the sense is 'immediately after'. As मध्वस्मिन्नस्ति मध्वस्मिनन्तरमिति वा = माधव्यः or माधवो मासः ॥ Vart:- Sometimes the affix is elided, and sometimes the letters अ, इ and र serve the same purpose as this affix. Thus तपः or तपस्यः, नभस् or नभस्यः, सहस् or सहस्यः, all in the neuter gender in the *Chhandas*. Sometimes अ serves the same purpose, e. g. इषो मासः, ऊर्जोमासः ॥ Sometimes इ, as शुचिर्मासः. Sometimes र e. g. शुक्रो मासः ॥ Bhashya ------- मत्वर्थे मासतन्वोः (1866) (5581 पूरकवार्तिकम्॥ 1 ॥) - मासतन्वोरनन्तरार्थे वा - (भाष्यम्) मासतन्वोरनन्तरार्थे वेति वक्तव्यम्। मध्वस्मिन्नस्ति मध्वनन्तरमिति वा मधव्यः। माधवः॥ (5582 पूरकवार्तिकम्॥ 2 ॥) - लुगकारेकाररेफाश्च - (भाष्यम्) लुगकारेकाररेफाश्च प्रत्यया वक्तव्याः। लुक् -मधुः, नभः, तपः। अकारः -ःइषः,ऊर्जः। इकारः -शुचिः। रेफश्च -शुक्रः॥ 4-4-1- आ. 20 (826 विधिसूत्रम् Kashika ------- यस्मिन्नर्थे मतुब् विहितः, तस्मिंश्छन्दसि विषये यत् प्रत्ययो भवति मासतन्वोः प्रत्ययार्थविशेषणयोः। प्रथमासमर्थादस्त्युपाधिकात् षष्ठ्यर्थे सप्तम्यर्थे च यत् प्रत्ययो भवति। मत्वर्थीयानामपवादः। नभांसि विद्यन्ते यस्मिन् मासे नभ॒स्यः॑ (तै०सं०१.४.१४.१) मासः। सह॒स्यः॑ (तै०सं०१.४.१४.१)। तप॒स्यः॑ (तै०सं०१.४.१४.१)। मध॒व्यः॑ (तै०सं०५.२.९.३)। नभःशब्दोऽभ्रेषु वर्तते। तन्वां खल्वपि — ओजोऽस्यां विद्यत ओज॒स्या त॒नूः॑। रक्ष्ास्या त॒नूः॑ (मै०सं०२.३.१)। मासतन्वोरिति किम् ? मधुमता पात्रेण चरति। मासतन्वोरनन्तरार्थे च। मध्वस्मिन्नस्ति मध्वस्मिन्ननन्तरमिति वा मधव्यो मासः॥ लुगकारेकाररेफाश्च वक्तव्याः॥ लुक्तावत् — तप॑श्च तप॒स्य॑श्च॒ (तै०सं०१.४.१४.१)। नभ॑श्च नभ॒स्य॑श्च॒ (तै०सं०१.४.१४.१)। सह॑श्च सह॒स्य॑श्च॒ (तै०सं०१.४.१४.१)। नपुंसकलिङ्गं छान्दसत्वात्। अकारः — इ॒षः (तै०सं०१.४.१४.१) मासः। ऊ॒र्जः (तै०सं०१.४.१४.१) मासः। इकारः — शुचिः॑ (तै०सं०१.४.१४.१) मासः। रेफः — शु॒क्रः (तै०सं०१.४.१४.१) मासः॥ Siddhanta Kaumudi ----------------- नभोऽभ्रम् । तदस्मिन्नस्तीति नभस्यो मासः । ओजस्या तनूः ॥ Padamanjari ----------- मत्वर्थग्रहणाल्लब्धर्मर्थं दर्शयति - प्रथमासमर्थादित्यादि । मासतन्वोरिति'कृषिचमितनिधनिसज्जिखर्ज्जिभ्य ऊः' इत्यूकारान्तस्तनूशब्दः सूत्रे निर्दिष्टः, न तु'भृमृशीङ् तृचरित्सरितनिमिमस्जिभ्य उः' इत्युका रान्तः;'द्वन्द्वे घि' इति पूर्वनिपातप्रसङ्गात् । अनन्तरार्थे चेति । न केवलं मत्वर्थमात्र इति चशब्दस्यार्थः । लुगकारेकाररेफाश्चेत्यादि ' रादिफः' इत्यत्र वर्णादिति न सम्बध्यते, तेन समुदायनिर्देशेऽपि इफः कृतः । अन्ये तु रशब्दा इति पठन्ति, प्रत्यय इत्यधिकारोऽकारादिभिः सम्बध्यते, न तु लुका । तपनं तपः, सहनं सहः, भावोऽसुन्,'तदस्मिन्नस्ति' इति सूत्रेण विहितस्य यतो लुक् । कथं पुनरत्र नपुंसकत्वम्, यावता तद्धितलुकि सत्यभिधेयवल्लिङ्गेन भवितव्यम् ? अत आह - नपुंसकलिङ्गं छान्दसत्वादिति । इट् उ अन्नम्, इष्यमाणत्वात् । ऊर्क् उ बलम्, ठूर्ज बलप्राणनयोःऽ, ताभ्यामकारः प्रत्ययः - इषः, ऊर्जः । शोचनं शुक्, पूर्ववत्क्विप्, आतपातिरेकेण शरीरादेः शोषः, तद्वान्मासः शुचिः । एवं शुक्रः । अत्र छान्दसत्वादेवायस्मयादित्वद्भत्वाज्जश्त्वाभावः, तदेव च्छन्दोऽधिकारे लुगादीनां विधानाद्भाषायां शुचिशुकादीनामन्याय्यः प्रयोगः स्यात्, व्युत्पत्यन्तरेण वा, अव्युत्पन्ना वा नभस्यादयः शब्दा मासेषु वर्तन्ते । इषोर्जशब्दावर्शाअद्यच्प्रत्ययान्तौ, मत्वर्थीये रप्रत्यये पृषोदरादित्वाज्जश्त्वाभावे शुक्र इति भवति, शोचतेरन्तर्भावितण्यर्थादौणादिके किप्रत्ययये कृते शुचिरिति भवति, शोचयति संतापयति प्राणिन इति कृत्वा । अभेदोपचारान्नभः प्रभृतीनां मासेषु वृत्तिः, नभस्यप्रभृतयस्तु'तत्र साधुः' इति यदन्ताः,'मतौ च्छः सूक्तसाम्नोः' इत्यत्र यथान्तरेणाप्यर्थग्रहणं मत्वर्थे प्रत्ययो लभ्यते, तथेहापि लप्स्यते; नार्थोऽर्थग्रहणेन ॥ Nyaas ----- मत्वर्थे मासतन्वोरिति प्रत्ययार्थविशेषणम्। मत्वर्थग्रहणादेव प्रथमा समर्थविभक्तिरस्त्युपाधिका लभ्यते? इत्याह - `प्रथमसमर्थादस्त्युपाधिकात्` इति।`{अनन्तरार्थेव वा - काशिका} अनन्तरार्थे च` इति। न केवलं मत्वर्थ एव त्ययो वक्तव्यः।`ननु च तप) प्रभृतीनां प्रत्ययार्थमासादिवचनानामभिधेयलिङ्गवचनानि भवन्तीति पुंल्लिङ्गता प्राप्वोति, तस्याञ्च सत्यां **अत्वसन्तस्य चाधातोः** (6.4.14) इति दीर्घेण भवितव्यम्; तत्कथं तपश्च सहश्च नभश्चेति प्रयोगः? इत्यत आह -`नपुंसकलिङ्गं छान्दसत्वात्` इति। अयं हि च्छान्दसः प्रयोगः। तत्रेति पुंल्लिङ्गेऽभिधेये नपुंसकलिङ्गमुपपद्यते। **व्यत्ययो बहुलम्** (3.1.85) इति लिङ्गव्यत्ययस्य च्छन्दसि विधानात्। इडस्मिन्मासेऽस्तीति `इषः`। ऊर्घस्मिन् मासेऽस्तीति `ऊर्जःर`। शुगस्मिन् मासेऽस्तीति `शूचिः` शुग् वास्मिन् मासेऽस्तीति `शुक्रः`। **चोः कुः** (8.2.30) इति कुत्वम्। अर्थग्रहणं किमर्थम्, यावता `मतौ छः सूक्तसाम्नोः` (52।59) इत्यत्र यथा `मतौ` इत्युच्यमानो मत्वर्थे प्रत्यय उच्यते, तथेहापि लभ्यते, तस्मात् `मतौ` इत्येवं कस्मान्नोक्तम्? सत्यमेतत्; विस्पष्टार्थमर्थग्रहणम्॥ Vartika ------- मासतन्वोरनन्तरार्थे वा ।