44123: असुरस्य स्वम्

Padacheda: असुरस्य | S | 6 | 1 |

स्वम् | S | 1 | 1 |

Sutrartha

षष्ठीसमर्थात् असुर-शब्दात् ‘स्वम्’ (आत्मीयम्) अस्मिन् अर्थे वेेदेषु संज्ञायाम् यत्-प्रत्ययः भवति ।

षष्ठीसमर्थात् ‘असुर’ शब्दात् ‘स्वम्’ (स्वीयम् / आत्मीयम्) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । असुरस्य स्वम् = असुर + यत् → असूर्य । असूरस्य स्वकीयः / आत्मीयः इत्यर्थः । यथा - (ऋग्वेदः 10.105.11) श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।

Vasu English Summary

The affix यत् comes in the sense of ‘property’ after the word असुर in the Genitive -6th-Case in construction, in the छन्दस् (Vedas).

Vasu English Translation

The affix यत् comes in the sense of ‘property’ after the word असुर in the Genitive -6th-Case in construction, in the छन्दस् (Vedas). This debars अण् ॥ Thus असुर्यम् ‘belonging to the Asuras. As असुर्यं वा एतत् पात्रं यच्चक्रधृतं कुलालकृतम् ‘this vessel made on a wheel by a potter belongs to the Asuras’. असुर्यं देवेभिर्धायि विश्वम् ॥ See Maitr S. I.8.3

Kashika

असुरशब्दात् षष्ठीसमर्थात् स्वमित्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणोऽपवादः। असु॒३र्यं॒ वा॑ ए॒त॑त्पा॑त्रं॒ य॑त् कु॑ला॒लकृतम् च॒क्॑रवृ॒त्तम् (मै०सं०१.८.३)॥

Siddhanta Kaumudi

असुर्यं देवोभिर्धायि विश्वम् ॥

Padamanjari

न सुरोऽसुरः उ सुरप्रतिपक्षः । अथ वा ठसेरुरन्ऽ, अस्यत्यस्यते वेत्यसुरः ॥

Nyaas

षष्ठीसमर्थात् इति। असुरस्य इति निर्देशादेव षष्ठी समर्थविभक्तर्लभ्यते। स्वम् इति। आत्मीयमित्यर्थः। अणोऽपवादः इति। तस्येदम् (4.3.120) इति प्राप्तस्य॥

Prakriyasarvasvam

अस्मिन्नर्थे यत् । असूर्य वा एतत्पात्रम् ।