44122: रेवतीजगतीहविष्याभ्यः प्रशस्ये

Padacheda: रेवती-जगती-हविष्याभ्यः | S | 5 | 3 |

प्रशस्ये | S | 7 | 1 |

Sutrartha

षष्ठीसमर्थेभ्यः ‘रेवती’, ‘जगती’, ‘हविष्या’ शब्देभ्यः ‘प्रशंसनम्’ अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते ।

‘प्रशस्य’ एतत् ‘प्र + शस्’ इत्यस्य क्यप्-प्रत्ययान्तरूपम् । ‘प्रशंसनम्’ / ‘प्रशंसा’ इति अर्थः ।षष्ठीसमर्थात् ‘रेवती’शब्दात्, ‘जगती’शब्दात्, ‘हविष्या’शब्दात् च ‘प्रशंसनम्’ अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते । 1. ‘रेवती’ इति नक्षत्रस्य नाम । रेवत्याः प्रशस्यम् = रेवती + यत् → रेवत्यम् । 2. ‘जगती’ इति छन्दसः नाम । जगत्याः प्रशस्यम् = जगती + यत् → जगत्यम् । 3. ‘हविष्या’ इत्युक्ते आहुतिः । हविष्यायाः प्रशस्यम् = हविष्या + यत् → हविष्य् + यत् [यस्येति च (6.4.148) इति आकारलोपः] → हविष्य्य → हविष्य [हलो यमां यमि लोपः (8.4.64) इति वैकल्पिकः यकारलोपः] वेदेषु प्रयोगः - 1. रेवत्यम्, जगत्यम् - (मानवश्रौत्रसूत्रम्) - यद्वो रेवती रेवत्यँ यद्वो हविष्या हविष्यम् । 2. हविष्यम् - (ऋग्वेदः 1.162.4) यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति । ज्ञातव्यम् - अत्र वस्तुतः षष्ठीसमर्थम् पदम् सूत्रे न विद्यते, परन्तु ‘प्रत्ययार्थम्’ स्वीकृत्य अत्र षष्ठीसमर्थात् प्रत्ययविधानं कृतमस्ति ।

Vasu English Summary

The affix यत् comes in the sense of ‘praising’ after the words 1. रेवती 2. जगतीand 3. हविष्य in the Genitive -6th-Case in construction, in the छन्दस् (Vedas).

Vasu English Translation

The affix यत् comes in the sense of ‘praising’ after the words 1. रेवती 2. जगतीand 3. हविष्य in the Genitive -6th-Case in construction, in the छन्दस् (Vedas). The word प्रशस्य means प्रशंसन ‘praising, extolling’, formed by adding the Krit affix क्यप् to the root, with the force of भाव or ‘condition’. Thus रेवत्यम्॑, जगत्य॑म् and हविष्य॑म् ‘praising of Revati, Jagati or Havishya’. The word हविष्यम् is thus formed हविषे हिता = हविष्याः ‘things fit for offering’ i. e. butter &c, (हविष् + यत् (5.1.4)) हविष्यानाम् प्रशंसनं = हविष्यम् (हविष्य + यत् (4.4.122)) = हविष्य् + यत् the final अ being elided by (6.4.148) = हविष् + यत् the य being elided by (8.4.64).

Kashika

रेवत्यादिभ्यः षष्ठीसमर्थेभ्यः प्रशस्ये वाच्ये यत् प्रत्ययो भवति। प्रशंसनं प्रशस्यम्। भावे क्यप् प्रत्ययो भवति। यद्वो रेवती रेवत्यम् (काठ०सं०१.८)। यद्वो जगतीर्जगत्यम् (काठ०सं०१.८)। यद्वो हविष्या हविष्यम् (काठ०सं०१.८)। हविषे हिता हविष्याः, तासां प्रशंसनं हविष्यम्। यस्येति च (६.४.१४८) इति लोपे कृते हलो यमां यमि लोपः (८.४.६४) इति लोपः॥

Siddhanta Kaumudi

प्रशंसने यत्स्यात् । रेवत्यादीनां प्रशंसनं रेवत्यम् । जगत्यम् । हविष्यम् ॥

Padamanjari

रयिरस्यास्तीति रेवती, रयेर्मतौ बहुलम्ऽ इति बहुलवचनात्सम्प्रसारणमम् । उगित्वान्ङीप्, नक्षत्रे तु गौरादित्वान्ङीष् । जगच्छब्दाच्छतृवद्भावान्ङीप् । षष्ठीसमर्थेभ्य इति ।’शंसु स्तुतौ’ इत्यस्मात्’कृत्यल्युटो बहुलम्’ इति भावे क्यप्, तद्योगे कर्मणि षष्ठी भवति, हविषे हिता हविष्या, ठुगवादिभ्यो यत्ऽ ॥

Nyaas

षष्ठीसममर्थेभ्यः इति। सामर्थ्याद्धि षष्ठयेव समर्थविभक्तिर्विज्ञायते। यथा हि - {शंस - प्रांउ।पाठ}शंसु स्तुतौ (धा।या।728) इत्यतोऽस्मादेव निपातनाद्भावे क्यप्प्रत्ययः; कृत्यल्युटो बहुलम् (3.3.113) इति बहुलवचनात्। तत्रावश्यं कृद्योगलक्षणया षष्ठआ भवितव्यम्। अयमपि योगः पूर्ववदणि प्राप्ते वेदितव्यः॥

Prakriyasarvasvam

एभ्यस्तस्य प्रशंसनमित्यर्थे यत् स्यात् । रेवत्याः प्रशंसनम् । रेवत्यम् । जगत्यम् । हविषेहिता हविष्याः । तासां प्रशंसनं हविष्यम् । ‘हलो यमां’ (७-४-६४) इति पूर्वयलोपः ।