44123: असुरस्य स्वम् ==================== **Padacheda:** असुरस्य | S | 6 | 1 | स्वम् | S | 1 | 1 | Sutrartha --------- **षष्ठीसमर्थात् असुर-शब्दात् 'स्वम्' (आत्मीयम्) अस्मिन् अर्थे वेेदेषु संज्ञायाम् यत्-प्रत्ययः भवति ।** षष्ठीसमर्थात् 'असुर' शब्दात् 'स्वम्' (स्वीयम् / आत्मीयम्) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । असुरस्य स्वम् = असुर + यत् → असूर्य । असूरस्य स्वकीयः / आत्मीयः इत्यर्थः । यथा - (ऋग्वेदः 10.105.11) श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् । Vasu English Summary -------------------- The affix यत् comes in the sense of 'property' after the word असुर in the Genitive -6th-Case in construction, in the छन्दस् (Vedas). Vasu English Translation ------------------------ The affix यत् comes in the sense of 'property' after the word असुर in the Genitive -6th-Case in construction, in the छन्दस् (Vedas). This debars अण् ॥ Thus असुर्यम् 'belonging to the *Asuras*. As असुर्यं वा एतत् पात्रं यच्चक्रधृतं कुलालकृतम् 'this vessel made on a wheel by a potter belongs to the *Asuras*'. असुर्यं देवेभिर्धायि विश्वम् ॥ See *Maitr* S. I.8.3 Kashika ------- असुरशब्दात् षष्ठीसमर्थात् स्वमित्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणोऽपवादः। असु॒३र्यं॒ वा॑ ए॒त॑त्पा॑त्रं॒ य॑त् कु॑ला॒लकृतम् च॒क्॑रवृ॒त्तम् (मै०सं०१.८.३)॥ Siddhanta Kaumudi ----------------- असुर्यं देवोभिर्धायि विश्वम् ॥ Padamanjari ----------- न सुरोऽसुरः उ सुरप्रतिपक्षः । अथ वा ठसेरुरन्ऽ, अस्यत्यस्यते वेत्यसुरः ॥ Nyaas ----- `षष्ठीसमर्थात्` इति। `असुरस्य` इति निर्देशादेव षष्ठी समर्थविभक्तर्लभ्यते। `स्वम्` इति। आत्मीयमित्यर्थः। `अणोऽपवादः` इति। **तस्येदम्** (4.3.120) इति प्राप्तस्य॥ Prakriyasarvasvam ----------------- अस्मिन्नर्थे यत् । असूर्य वा एतत्पात्रम् ।