44121: रक्षोयातूनां हननी

Padacheda: रक्षस्-यातूनाम् | S | 6 | 3 |

हननी | S | 1 | 1 |

Sutrartha

षष्ठीसमर्थात् रक्षस्-शब्दात् ‘यातु’शब्दात् च ‘हननी’ अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते ।

‘हननी’ इति हन्-धातोः ल्युट्-प्रत्ययान्तरूपम् । हन्यते अनया सा हननी । रक्षस् (= असूरः / राक्षसः ) तथा यातु (= राक्षसः / पिशाचः) - एताभ्यां शब्दाभ्याम् षष्ठीसमर्थाभ्याम् ‘हननम्’ अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते । 1. रक्षसाम् हननी = रक्षस् + यत् + टाप् [अजाद्यतष्टाप् (4.1.4) इति टाप्] → रक्षस्या । रक्षसाः यया हन्यन्ते सा रक्षस्या । रक्षसानां हननस्य साधनम् इत्यर्थः । 2. यातूनाम् हननी = यातु + यत् + टाप् [अजाद्यतष्टाप् (4.1.4) इति टाप्] → यातो + आ + आ [ओर्गुणः (6.4.146) इति गुणः] → यातव् + य + आ [वान्तो यि प्रत्यये (6.1.79) इति अवादेशः] → यातव्या यातवाः यया हन्यन्ते सा यातव्या । यातूनाम् हननस्य साधनम् इत्यर्थः । ज्ञातव्यम् - वस्तुतः अस्मिन् सूत्रे ‘रक्षस्’ तथा ‘यातु’ - द्वौ एव शब्दौ स्तः, अतः सूत्रे वस्तुतः द्विवचनस्य प्रयोगः भवेत् । परन्तु अत्र ‘रक्षोयातूनाम्’ इति बहुवचनस्य प्रयोगः कृतः अस्ति । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - ‘बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थम्’ । इत्युक्ते, अनेन सूत्रेण निर्दिष्टा हननी ‘बहूनाम् रक्षसाम् यातूनाम् च हन्तुम् समर्था अस्ति, केवलं एकस्यैव न’, इति हनन्याः स्तुतिं कर्तुमत्र बहुवचनम् कृतमस्ति । तत्वबोधिनीकारः वदति - ‘बहुवचनान्तात्प्रत्यये बहूनां रक्षसां हनने सामर्थ्यमुद्भाव्यते मन्त्रे, तथा च स्तुतिविशिष्टा सम्पूर्णा भवति’ । अनेके राक्षसः यातवः च यया हन्यन्ते, तस्याः सामर्थ्यस्य स्तुतिः अत्र विवक्ष्यते - इति आशयः ।

Vasu English Summary

The affix यत् comes in the sense of ‘killer’ after the words 1. रक्षा and 2. यातू in the Genitive -6th-Case in construction, in the छन्दस् (Vedas).

Vasu English Translation

The affix यत् comes in the sense of ‘killer’ after the words 1. रक्षा and 2. यातू in the Genitive -6th-Case in construction, in the छन्दस् (Vedas). That by which anything is killed is called हननी ॥ Thus रक्षस्य॑ and यातव्य॑ meaning ‘that which kills the demons called Rakshas and Yatus’. As याते अग्ने रक्षस्या तनः i. e. रक्षसां हननी ‘O Agni thy bodies are killers of Rakshas’. So यातव्याः तनूः ॥ The word is in the plural as a mark of respect.

Kashika

निर्देशादेव समर्थविभक्तिः। रक्षःशब्दाद् यातुशब्दात् च षष्ठीसमर्थाद् हननीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। हन्यतेऽनयेति हननी। या॑ वां॒ मित्रावरुणौ रक्ष॒स्या त॒नूः॑ (मै०सं०२.३.१)। रक्षसां हननी। यात॒व्या (मै०सं०२.३.१)। यातूनां हननी। बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थम्। बहूनां रक्षसां हननेन तनूः स्तूयते॥

Siddhanta Kaumudi

या ते अग्ने रक्षस्या तनूः (या ते॑ अग्ने रक्ष॒स्या॑ त॒नूः) ॥

Padamanjari

रक्षेरसुनि रक्षः’कमिमनिजनि’ इत्यादिना । यातेस्तौ यातुः । यातुशब्दो रक्षः पर्यायः ।’विरूपाणामपि समानार्थानाम्’ इत्येकशेषस्तु न भवति; बह्वर्थाभिधायिस्वरूपपरत्वेन सूत्रे भिन्नार्थयोर्निर्देशात् । निर्देशादेव समर्थविभक्तिरिति । सा पुनः’कर्तृकर्मणोः कृति’ इति कर्मणि षष्ठी । वहुवचनं स्तुतिवैशिष्ट।ल्ज्ञापनार्थमिति । तद्धि बहुवचनात्प्रत्ययविध्यर्थम्, अन्यथा द्वित्वाद् द्विवचनमेव न्याय्यं स्यात् । कथं पुनर्बहुवचनेन स्तुतिवैशिष्ट।ल्ं ज्ञाप्यते ? तत्राह - बहूनामिति । बहुवचनान्तात्प्रत्यये बहूनां रक्षसां हनने सामर्थ्यमुद्भाव्यते मन्त्रे । तथा च स्तुतिविशिष्टा सम्पूर्णा भवति । योगश्चायं शैषिकयोरण्च्छयोरपवादः ॥

Nyaas

निर्देशादेव समर्थविभक्तिः (इति)। सा पुनः षष्ठी कर्त्तुकर्मणोः कृति (2.3.65) इति कर्मणि द्रष्टव्या। योग्यतामात्रे विवक्षिते हन्यतेऽनयेति हननी, करणे ल्युट्, टिड्ढाणञ् (4.1.15) इति ङीप्। ननु च रक्षीयातुशब्दयोर्द्वित्वाद्द्विवचनेन भवितव्यम्, तत्कथमिदमुक्तम्? वचनसामर्थ्यात् सम्भावनमेव स्तुतिरिति दर्शयितुमाह - बहुवचनम् इत्यादि। योगश्चायं तस्येदम् (4.3.120) इत्यणि प्राप्ते वेदितव्यः॥

Prakriyasarvasvam

एषां हननसा²धनभूतेत्यर्थे यत् स्यात् । याते अग्ने रक्षस्या तनूः । यातव्या ।