44115: तुग्राद्घन्

Padacheda: तुग्रात् | S | 5 | 1 |

घन् | S | 1 | 1 |

Sutrartha

‘भवः’ अस्मिन् अर्थे सप्तमीसमर्थात् ‘तुग्र’शब्दात् वेदेषु संज्ञायाः विषये घन्-प्रत्ययः कृतः दृश्यते ।

‘तुग्र’शब्दस्य अनेके अर्थाः विद्यन्ते । ‘अन्नम्’, ‘आकाशः’, ‘यज्ञः’, ‘वरिष्ठः’ - एते चत्वारः अर्थाः काशिकायां दीयन्ते । अस्मात् सप्तमीसमर्थात् ‘तुग्र’शब्दात् ‘भवः’ अस्मिन् अर्थे वेदेषु घन्-प्रत्ययः कृतः दृश्यते । तुग्रे भवः = तुग्र + घन् → तुग्र + इय [आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् (7.1.2) इति घकारस्य इय्-आदेशः] → तुग्र् + इय [यस्येति च (6.4.148) इति अकारलोपः] → तुग्रिय ज्ञातव्यम् - अस्य सूत्रस्य विषये कौमुदीकारः स्रोतसो विभाषा ड्यड्यौ (4.4.113) इत्यस्मात् ‘विभाषा’ इत्यस्य अनुवृत्तिं कृत्वा पक्षे यत्-प्रत्ययं अपि पाठयति । तुग्रे भवः = तुग्र + यत् → तुग्र्यः । उदाहरणम् - ऋग्वेदे 1.33.15 इत्यत्र - आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु । (पाठभेदेन अत्र ‘तुग्रियासु’ इत्यपि पाठः दृश्यते) ।

Vasu English Summary

The affix धन् comes in the sense of ‘what stays there’ after the word तुग्र , in the छन्दस् (Vedas).

Vasu English Translation

The affix धन् comes in the sense of ‘what stays there’ after the word तुग्र , in the छन्दस् (Vedas). This debars यत् ॥ Thus तुग्रि॑यः as त्वमग्रे वृषभस् तुग्रियाणां ॥ Which assumes the form तुग्र्य tugrya also. As आवः शमम् वृषभं तुग्र्यासु (Rig Veda l. 34.15) Tugrya meaning ‘sunk in the waters’. The word तुग्र means ‘food, firmament, sacrifice and varishtha’.

Kashika

तुग्रशब्दाद् घन् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। त्वमग्ने वृषभस्तुग्रियाणाम्। अन्नाकाशयज्ञवरिष्ठेषु तुग्रशब्दः॥

Siddhanta Kaumudi

भवेर्थे । पक्षे यदपि । आ वः शमं वृषभं तुग्र्यासु (आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु) । इति बह्वृचाः । तुग्रियास्विति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ॥

Padamanjari

‘तुरुस्तुशम्यमः सार्वधातुके’ इत्यत औणादिको रन् गुडागमः ॥

Prakriyasarvasvam

अन्नाकाशयज्ञवरिष्ठेषु तुग्रशब्दः । तत्र भवः । त्वमग्ने वृधस्तुग्रियाणाम् ।