44116: अग्राद्यत्

Padacheda: अग्रात् | S | 5 | 1 |

यत् | S | 1 | 1 |

Sutrartha

‘भवः’ अस्मिन् अर्थे सप्तमीसमर्थात् ‘अग्र’शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।

सप्तमीसमर्थात् ‘अग्र’शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । अग्रे भवः अग्र्यः । यथा - यजुर्वेदे 16.30 (इत्युक्ते रुद्रपाठे नमकम्) इत्यत्र - ‘नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमोऽग्र्याय च प्रथमाय च’ इति प्रयोगः दृश्यते । ज्ञातव्यम् - वस्तुतः अत्र ‘यत्’ प्रत्ययः अधिकाररूपेण उपस्थितः अस्त्येव । परन्तु अस्मिन् सूत्रे ‘यत्’प्रत्ययस्य पुनर्विधानम् कृतमस्ति । ‘अग्रिमसूत्रेण निर्दिष्टौ ‘घ’ तथा ‘छ’प्रत्ययौ यत्-प्रत्ययं न बाधेयाताम्’ - इति स्पष्टीकर्तुमत्र यत्-प्रत्ययस्य पुनर्विधानम् कृतमस्ति ।

Vasu English Summary

The affix यत् comes in the sense of ‘what stays there’ after the word अग्र , in the छन्दस् (Vedas).

Vasu English Translation

The affix यत् comes in the sense of ‘what stays there’ after the word अग्र , in the छन्दस् (Vedas). Thus अग्रे भवं = अ꣡ग्र्यम् ॥ Why this separate rule for यत् would have come after अग्र by the general rule (4.4.110) ? The repetition is to show that यत् is not debarred by घ and छ of the next sutra, which would have been the case, had this sutra not existed.

Kashika

अग्रशब्दाद् यत् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अग्रे भवम् अग्र्य॑म् (मा०सं०१६.३०)। किमर्थमिदं यावता सामान्येन यद् विहित एव? घच्छौ च (४.४.११७) इति वक्ष्यति, ताभ्यां बाधा मा भूदिति पुनर्विधीयते॥

Siddhanta Kaumudi

अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥

Padamanjari

ठृज्रेन्द्राग्रऽ इत्यग्रशब्दो निपातितः । सामान्येनेति ।’भवे च्छन्दसि’ इति । ताभ्यां बाधा मा भूदिति पुनर्विधीयत इति । एवमपि यद्ग्रहणमनर्थकम्, अग्रादित्येवास्तु, प्राकरणिको यद्भविष्यति; अथ वा ठग्राद् घच्छौ चऽ इति चकाराद्भविष्यति, ठग्रपश्चाडिडमच्ऽ इत्यस्य समुच्चयो न शक्यः, विदेशस्थत्वात् ? एवमप्यनन्तरस्य घनः समुच्चयो विज्ञायेत । योगविभागे पुनरनन्तरो घनेव स्यात्, योगविभागसामर्थ्यान्न भविष्यति । अथ कथम्’ताश्च एव चाध्यजननः’ , ठेतच्छिवे विजानीहि ब्राह्मणाध्यस्य लक्षणम्ऽ इति भाषायां प्रयोगः ? छन्दोवदृषयः कुर्वन्ति ॥

Nyaas

सामान्येन यद्विहितः इति। भवे च्छन्दसि (4.4.109) इत्यनेन। अथ यद्ग्रहणं किमर्थम्, न यथाविहितमेवोच्येत? नैवं शक्यम्; अग्रश्चाड्डिमच् (वा। 448) इत्येवामग्रशब्दाड्डिमजप्युक्तः, तत्र यथा विहिते प्रत्यय उच्यमाने डिमचपि स्यात्। तस्माद्यद्ग्रहणं कर्तव्यम्॥

Sutra Prayogas

  • अग्र्यम् (भट्टिकाव्यम्): अग्राद्यत् अयोग्ये असमर्थे न्यस्यति निक्षिपति ।