44115: तुग्राद्घन् ================== **Padacheda:** तुग्रात् | S | 5 | 1 | घन् | S | 1 | 1 | Sutrartha --------- **'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् 'तुग्र'शब्दात् वेदेषु संज्ञायाः विषये घन्-प्रत्ययः कृतः दृश्यते ।** 'तुग्र'शब्दस्य अनेके अर्थाः विद्यन्ते । 'अन्नम्', 'आकाशः', 'यज्ञः', 'वरिष्ठः' - एते चत्वारः अर्थाः काशिकायां दीयन्ते । अस्मात् सप्तमीसमर्थात् 'तुग्र'शब्दात् 'भवः' अस्मिन् अर्थे वेदेषु घन्-प्रत्ययः कृतः दृश्यते । तुग्रे भवः = तुग्र + घन् → तुग्र + इय [**आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम्** (7.1.2) इति घकारस्य इय्-आदेशः] → तुग्र् + इय [**यस्येति च** (6.4.148) इति अकारलोपः] → तुग्रिय ज्ञातव्यम् - अस्य सूत्रस्य विषये कौमुदीकारः **स्रोतसो विभाषा ड्यड्यौ** (4.4.113) इत्यस्मात् 'विभाषा' इत्यस्य अनुवृत्तिं कृत्वा पक्षे यत्-प्रत्ययं अपि पाठयति । तुग्रे भवः = तुग्र + यत् → तुग्र्यः । उदाहरणम् - ऋग्वेदे 1.33.15 इत्यत्र - आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु । (पाठभेदेन अत्र 'तुग्रियासु' इत्यपि पाठः दृश्यते) । Vasu English Summary -------------------- The affix धन् comes in the sense of 'what stays there' after the word तुग्र , in the छन्दस् (Vedas). Vasu English Translation ------------------------ The affix धन् comes in the sense of 'what stays there' after the word तुग्र , in the छन्दस् (Vedas). This debars यत् ॥ Thus तुग्रि॑यः as त्वमग्रे वृषभस् तुग्रियाणां ॥ Which assumes the form तुग्र्य *tugrya* also. As आवः शमम् वृषभं तुग्र्यासु (*Rig* *Veda* l. 34.15) *Tugrya* meaning 'sunk in the waters'. The word तुग्र means 'food, firmament, sacrifice and *varishtha*'. Kashika ------- तुग्रशब्दाद् घन् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। यतोऽपवादः। त्वमग्ने वृषभस्तुग्रियाणाम्। अन्नाकाशयज्ञवरिष्ठेषु तुग्रशब्दः॥ Siddhanta Kaumudi ----------------- भवेर्थे । पक्षे यदपि । आ वः शमं वृषभं तुग्र्यासु (आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु) । इति बह्वृचाः । तुग्रियास्विति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ॥ Padamanjari ----------- 'तुरुस्तुशम्यमः सार्वधातुके' इत्यत औणादिको रन् गुडागमः ॥ Prakriyasarvasvam ----------------- अन्नाकाशयज्ञवरिष्ठेषु तुग्रशब्दः । तत्र भवः । त्वमग्ने वृधस्तुग्रियाणाम् ।