44111: पाथोनदीभ्यां ड्यण्

Padacheda: पाथस्-नदीभ्याम् | S | 5 | 2 |

ड्यण् | S | 1 | 1 |

Sutrartha

सप्तमीसमर्थात् ‘पाथस्’शब्दात् ‘नदी’शब्दात् च ‘भवः’ अस्मिन् अर्थे वेदेषु संज्ञायाः विषये ड्यण्-प्रत्ययः कृतः दृश्यते ।

‘पाथस्’ (= अन्तरिक्षः) तथा ‘नदी’ - एताभ्यां शब्दाभ्यां ‘भवः’ अस्मिन् अर्थे वेदेषु ड्यण्-प्रत्ययः कृतः दृश्यते । 1. पाथसि भवः = पाथस् + ड्यण् → पाथस् + य [इत्संज्ञालोपः] → पाथस् + य [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → पाथ् + य [टेः (6.4.143) इति डित्-प्रत्यये परे अङ्गस्य टिलोपः] → पाथ्य पाथसि भवः पाथ्यः । अन्तरिक्षे विद्यमानः इत्यर्थः । यथा - तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनञ्जयं रणेरणे ॥ ऋग्वेदः 6.16.15 ॥ 2. नद्यां भवः = नदी + ड्यण् → नदी + य [इत्संज्ञालोपः] → नादी + य [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → नाद् + य [टेः (6.4.143) इति डित्-प्रत्यये परे अङ्गस्य टिलोपः] → नाद्य नद्यां भवः नाद्यः । यथा - उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ॥ ऋग्वेदः 2.35.1 ॥

Vasu English Summary

The affix ड्यण comes in the sense of ‘what stays there’ after the words 1. पाथस् and 2. नदी , in the छन्दस् (Vedas), whereby the last vowel with the consonant following is elided.

Vasu English Translation

The affix ड्यण comes in the sense of ‘what stays there’ after the words 1. पाथस् and 2. नदी , in the छन्दस् (Vedas), whereby the last vowel with the consonant following is elided. This debars यत् ॥ Thus पाथसि भवः = पाथ्यः, so also नाद्यः ॥ As in the following hymns : तमुत्वा पाथ्यो वृषा, च नो दधीत नाद्यो गिरो मे ॥ पाथः means firmament.

Kashika

पाथःशब्दाद् नदीशब्दात् च ड्यण् प्रत्ययो भवति तत्र भव इत्येतस्मिन्नर्थे। यतोऽपवादः। पाथसि भवः पा॒थ्यो॒ वृषा॒ (ऋ०६.१६.१५)। चनो॑ दधीत ना॒द्यो गिरो॑ मे (ऋ० २.३५.१)। पाथोऽन्तरिक्षम्॥

Siddhanta Kaumudi

तमुत्वा पाथ्यो वृषा (तमु॑त्वा पा॒थ्यो वृषा॑) । चनो दधीत नाद्यो गिरो मे (चनो॑ दधीत ना॒द्यो गिरो॑ मे) । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥

Padamanjari

पाथोऽन्तरिक्षमिति । पाति भूताद्यवकाशदानेनेति कृत्वा । यद्यपि’पातेर्बलेर्जुट्’ , ठुदके थुट्ऽ, ठन्न चेऽ इति अन्नोदकयोः पाथः -शब्दोऽसुनि व्युत्पाद्यते, तथापि बाहुलकादन्तरिक्षेऽपि भवति ॥

Prakriyasarvasvam

पाथसि भवः । तमु त्वा पाथ्यो वृषा । चनो दधीत नाद्यः ।