44110: भवे छन्दसि¶
Padacheda: भवे | S | 7 | 1 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
‘भवः’ अस्मिन् अर्थे वेदेषु संज्ञायाः विषये सप्तमीसमर्थेभ्यः यत्-प्रत्ययः कृतः दृश्यते ।
भिन्नानां शब्दानां विषये सप्तमीसमर्थात् ‘भवः’ (= तत्र वर्तते) अस्मिन् अर्थे यत्-प्रत्ययः भवति। तत्र भवः (4.3.53) इति प्राग्दीव्यतीय-अधिकारे पाठितम् किञ्चन सूत्रम् विद्यते । अस्मिन् सूत्रे ‘भवः’ इति अर्थः उक्तः अस्ति । अस्यैव निर्देशः वर्तमानसूत्रे अपि क्रियते । अस्मिन् अर्थे भिन्नेभ्यः शब्देभ्यः प्राग्दीव्यतीय-अधिकारस्य औत्सर्गिकः अण्-प्रत्ययः (उत तस्य अपवादाः) विधीयन्ते । परन्तु वेदेषु अस्मिन्नेव अर्थे केभ्यश्चन शब्देभ्यः ‘यत्’ प्रत्ययः प्रयुक्तः दृश्यते । यथा - ‘नमो मेघ्याय च विद्युत्याय च’ इति रूद्रनमके दृश्यते । अस्य सिद्ध्यर्थम् वर्तमानसूत्रस्य निर्माणं कृतमस्ति । प्रक्रिया एतादृशी मेघे भवः = मेघ + यत् → मेघ् + य [यस्येति च (6.4.148) इति आकारलोपः] → मेघ्य ज्ञातव्यम् - 1. ‘सर्वे विधयः छन्दसि विकल्प्यन्ते’ इति कश्चन सिद्धान्तः अस्ति । ‘वेदेषु सर्वे विधयः वैकल्पिकरूपेण भवितुमर्हन्ति’ इति अस्य आशयः । अतः ‘तत्र भवः’ अस्मिन् अर्थे वेदेषु वर्तमानसूत्रेण उक्तः यत्-प्रत्ययः तु दृश्यते एव, परन्तु तत्र भवः (4.3.53) इत्यत्र प्राग्दीव्यतीय-अधिकारे पाठितः उचितः प्रत्ययः अपि प्रयुक्तः दृश्यते । यथा, ऋग्वेदे 10.34.1 इत्यत्र ‘सोमस्येव मौजवतस्य भक्षः’ इति दृश्यते । अत्र प्रयुक्तः ‘मौजवत’शब्दः मुजवत्-शब्दात् अण्-प्रत्ययं कृत्वा सिद्ध्यति । मुजवति भवः = मुञ्जवत् + अण् → मौजवत । ‘मुजवान्’ नाम कश्चन पर्वतः, अस्मिन् पर्वति विद्यमानः ‘मौजवतः’ सोमः - इति अत्र प्रयोगः दृश्यते । 2. अस्मात् सूत्रात् आरभ्य आपादपरिसमाप्तेः ‘छन्दसि’ इति अनुवर्तते । इत्युक्ते, अग्रे प्राग्घितीय-अधिकारे पाठिताः सर्वे अर्थाः प्रत्ययाः च वेदानाम् विषये एव विधानं कुर्वन्तीति स्मर्तव्यम् ।
Vasu English Summary¶
The affix यत् comes in the sense of ‘what stays here’ in the छन्दस् (Vedas) when in the Locative -7th case in construction.
Vasu English Translation¶
The affix यत् comes in the sense of ‘what stays here’ in the छन्दस् (Vedas) when in the Locative -7th case in construction. This debars अण्, घ &c (4.3.53). Those affixes also are employed in the alternative, there being much latitude of grammatical rules in the Vedas. Thus the words मेघ्यः꣡ and विदुत्य॑ in the following hymn of the Yajur Veda (16. V. 38): नमा॒ मेघ्या॑य च विदुत्या॒य च॒ ॥ All the sutras henceforward up to the end of the chapter, are Vedic sutras, the word छन्दसि being understood in them all. The word भवे governs all the sutras up to (4.4.118).
Kashika¶
तत्रेत्येव। सप्तमीसमर्थाद् भव इत्येतस्मिन्नर्थे छन्दसि विषये यत् प्रत्ययो भवति। अणादीनां घादीनां चापवादः। सति दर्शने तेऽपि भवन्ति सर्वविधीनां छन्दसि व्यभिचारात्। नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नमः॑ (तै०सं०४.५.७.२)। आ पादपरिसमाप्तेश्छन्दोऽधिकारः, भवाधिकारश्च समुद्राभ्राद् घः (४.४.११८) इति यावत्॥
Siddhanta Kaumudi¶
सप्तम्यन्ताद्भवार्थे यत् । मेघ्याय च विद्युत्याय च (मे॒घ्या॑य च विद्यु॒त्या॑य च) । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा । मुञ्जवान्नाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौजवतस्य भक्षः (सोम॑स्येव मौजव॒तस्य॑ भ॒क्षः) । आ चतुर्थसमाप्तेश्छन्दोऽधिकारः ॥
Padamanjari¶
अणादीनां घादीनां चापवाद इति ।’तत्र भवः’ इति प्राप्तानाम् । सति दर्शनेतेऽपि भवन्तीति । तद्यथा - मुञ्जवान्नाम पर्वतस्तत्र भवो मौञ्जवतस्तस्येति भक्षः । मेध्यायेति । अत्र’यतो’ नावःऽ इत्याद्यौदातत्वं प्राप्नोति, अन्तस्वरितं चाधीयत इति ॥
Nyaas¶
अणादीनां घादीनाञ्चापवादः इति। तत्र भवः (4.3.53) इति प्राप्तानाम्। यद्येवम्, यता बाधितत्वाच्छन्दसि तेषामभावः स्यात्, ततश्च मुञ्जावत्यं मौञ्जावतं वेत्येवमादि न सिध्यति? इत्याह - सति दर्शने इत्यादि। कथं पुनरेवं लभ्यते? इत्याह - सर्वविधीनाम् इत्यादि। सर्वविधिव्यभिचारस्तु बहुलं छन्दसि (7.4.78) इति बहुलग्रहणाल्लभ्यते। मुञ्जावान् नाम पर्वतः, तत्र भवोऽसौ मौञ्जावतः॥
Prakriyasarvasvam¶
तत्र भव इत्यर्थे यत्स्यात् । नमो मेध्याय च विद्युत्याय च ।