44111: पाथोनदीभ्यां ड्यण् ========================= **Padacheda:** पाथस्-नदीभ्याम् | S | 5 | 2 | ड्यण् | S | 1 | 1 | Sutrartha --------- **सप्तमीसमर्थात् 'पाथस्'शब्दात् 'नदी'शब्दात् च 'भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये ड्यण्-प्रत्ययः कृतः दृश्यते ।** 'पाथस्' (= अन्तरिक्षः) तथा 'नदी' - एताभ्यां शब्दाभ्यां 'भवः' अस्मिन् अर्थे वेदेषु ड्यण्-प्रत्ययः कृतः दृश्यते । 1. पाथसि भवः = पाथस् + ड्यण् → पाथस् + य [**इत्संज्ञालोपः**] → पाथस् + य [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → पाथ् + य [**टेः** (6.4.143) इति डित्-प्रत्यये परे अङ्गस्य टिलोपः] → पाथ्य पाथसि भवः पाथ्यः । अन्तरिक्षे विद्यमानः इत्यर्थः । यथा - तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनञ्जयं रणेरणे ॥ ऋग्वेदः 6.16.15 ॥ 2. नद्यां भवः = नदी + ड्यण् → नदी + य [**इत्संज्ञालोपः**] → नादी + य [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → नाद् + य [**टेः** (6.4.143) इति डित्-प्रत्यये परे अङ्गस्य टिलोपः] → नाद्य नद्यां भवः नाद्यः । यथा - उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ॥ ऋग्वेदः 2.35.1 ॥ Vasu English Summary -------------------- The affix ड्यण comes in the sense of 'what stays there' after the words 1. पाथस् and 2. नदी , in the छन्दस् (Vedas), whereby the last vowel with the consonant following is elided. Vasu English Translation ------------------------ The affix ड्यण comes in the sense of 'what stays there' after the words 1. पाथस् and 2. नदी , in the छन्दस् (Vedas), whereby the last vowel with the consonant following is elided. This debars यत् ॥ Thus पाथसि भवः = पाथ्यः, so also नाद्यः ॥ As in the following hymns : तमुत्वा पाथ्यो वृषा, च नो दधीत नाद्यो गिरो मे ॥ पाथः means firmament. Kashika ------- पाथःशब्दाद् नदीशब्दात् च ड्यण् प्रत्ययो भवति तत्र भव इत्येतस्मिन्नर्थे। यतोऽपवादः। पाथसि भवः पा॒थ्यो॒ वृषा॒ (ऋ०६.१६.१५)। चनो॑ दधीत ना॒द्यो गिरो॑ मे (ऋ० २.३५.१)। पाथोऽन्तरिक्षम्॥ Siddhanta Kaumudi ----------------- तमुत्वा पाथ्यो वृषा (तमु॑त्वा पा॒थ्यो वृषा॑) । चनो दधीत नाद्यो गिरो मे (चनो॑ दधीत ना॒द्यो गिरो॑ मे) । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥ Padamanjari ----------- पाथोऽन्तरिक्षमिति । पाति भूताद्यवकाशदानेनेति कृत्वा । यद्यपि'पातेर्बलेर्जुट्' , ठुदके थुट्ऽ, ठन्न चेऽ इति अन्नोदकयोः पाथः -शब्दोऽसुनि व्युत्पाद्यते, तथापि बाहुलकादन्तरिक्षेऽपि भवति ॥ Prakriyasarvasvam ----------------- पाथसि भवः । तमु त्वा पाथ्यो वृषा । चनो दधीत नाद्यः ।