44110: भवे छन्दसि ================= **Padacheda:** भवे | S | 7 | 1 | छन्दसि | S | 7 | 1 | Sutrartha --------- **'भवः' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये सप्तमीसमर्थेभ्यः यत्-प्रत्ययः कृतः दृश्यते ।** भिन्नानां शब्दानां विषये सप्तमीसमर्थात् 'भवः' (= तत्र वर्तते) अस्मिन् अर्थे यत्-प्रत्ययः भवति। **तत्र भवः** (4.3.53) इति प्राग्दीव्यतीय-अधिकारे पाठितम् किञ्चन सूत्रम् विद्यते । अस्मिन् सूत्रे 'भवः' इति अर्थः उक्तः अस्ति । अस्यैव निर्देशः वर्तमानसूत्रे अपि क्रियते । अस्मिन् अर्थे भिन्नेभ्यः शब्देभ्यः प्राग्दीव्यतीय-अधिकारस्य औत्सर्गिकः अण्-प्रत्ययः (उत तस्य अपवादाः) विधीयन्ते । परन्तु वेदेषु अस्मिन्नेव अर्थे केभ्यश्चन शब्देभ्यः 'यत्' प्रत्ययः प्रयुक्तः दृश्यते । यथा - 'नमो मेघ्याय च विद्युत्याय च' इति रूद्रनमके दृश्यते । अस्य सिद्ध्यर्थम् वर्तमानसूत्रस्य निर्माणं कृतमस्ति । प्रक्रिया एतादृशी मेघे भवः = मेघ + यत् → मेघ् + य [**यस्येति च** (6.4.148) इति आकारलोपः] → मेघ्य ज्ञातव्यम् - 1. 'सर्वे विधयः छन्दसि विकल्प्यन्ते' इति कश्चन सिद्धान्तः अस्ति । 'वेदेषु सर्वे विधयः वैकल्पिकरूपेण भवितुमर्हन्ति' इति अस्य आशयः । अतः 'तत्र भवः' अस्मिन् अर्थे वेदेषु वर्तमानसूत्रेण उक्तः यत्-प्रत्ययः तु दृश्यते एव, परन्तु **तत्र भवः** (4.3.53) इत्यत्र प्राग्दीव्यतीय-अधिकारे पाठितः उचितः प्रत्ययः अपि प्रयुक्तः दृश्यते । यथा, ऋग्वेदे 10.34.1 इत्यत्र 'सोमस्येव मौजवतस्य भक्षः' इति दृश्यते । अत्र प्रयुक्तः 'मौजवत'शब्दः मुजवत्-शब्दात् अण्-प्रत्ययं कृत्वा सिद्ध्यति । मुजवति भवः = मुञ्जवत् + अण् → मौजवत । 'मुजवान्' नाम कश्चन पर्वतः, अस्मिन् पर्वति विद्यमानः 'मौजवतः' सोमः - इति अत्र प्रयोगः दृश्यते । 2. अस्मात् सूत्रात् आरभ्य आपादपरिसमाप्तेः 'छन्दसि' इति अनुवर्तते । इत्युक्ते, अग्रे प्राग्घितीय-अधिकारे पाठिताः सर्वे अर्थाः प्रत्ययाः च वेदानाम् विषये एव विधानं कुर्वन्तीति स्मर्तव्यम् । Vasu English Summary -------------------- The affix यत् comes in the sense of 'what stays here' in the छन्दस् (Vedas) when in the Locative -7th case in construction. Vasu English Translation ------------------------ The affix यत् comes in the sense of 'what stays here' in the छन्दस् (Vedas) when in the Locative -7th case in construction. This debars अण्, घ &c (4.3.53). Those affixes also are employed in the alternative, there being much latitude of grammatical rules in the Vedas. Thus the words मेघ्यः꣡ and विदुत्य॑ in the following hymn of the *Yajur* *Veda* (16. V. 38): नमा॒ मेघ्या॑य च विदुत्या॒य च॒ ॥ All the *sutras* henceforward up to the end of the chapter, are Vedic *sutras*, the word छन्दसि being understood in them all. The word भवे governs all the *sutras* up to (4.4.118). Kashika ------- तत्रेत्येव। सप्तमीसमर्थाद् भव इत्येतस्मिन्नर्थे छन्दसि विषये यत् प्रत्ययो भवति। अणादीनां घादीनां चापवादः। सति दर्शने तेऽपि भवन्ति सर्वविधीनां छन्दसि व्यभिचारात्। नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नमः॑ (तै०सं०४.५.७.२)। आ पादपरिसमाप्तेश्छन्दोऽधिकारः, भवाधिकारश्च **समुद्राभ्राद् घः** (४.४.११८) इति यावत्॥ Siddhanta Kaumudi ----------------- सप्तम्यन्ताद्भवार्थे यत् । मेघ्याय च विद्युत्याय च (मे॒घ्या॑य च विद्यु॒त्या॑य च) । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा । मुञ्जवान्नाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौजवतस्य भक्षः (सोम॑स्येव मौजव॒तस्य॑ भ॒क्षः) । आ चतुर्थसमाप्तेश्छन्दोऽधिकारः ॥ Padamanjari ----------- अणादीनां घादीनां चापवाद इति ।'तत्र भवः' इति प्राप्तानाम् । सति दर्शनेतेऽपि भवन्तीति । तद्यथा - मुञ्जवान्नाम पर्वतस्तत्र भवो मौञ्जवतस्तस्येति भक्षः । मेध्यायेति । अत्र'यतो' नावःऽ इत्याद्यौदातत्वं प्राप्नोति, अन्तस्वरितं चाधीयत इति ॥ Nyaas ----- `अणादीनां घादीनाञ्चापवादः` इति। **तत्र भवः** (4.3.53) इति प्राप्तानाम्। यद्येवम्, यता बाधितत्वाच्छन्दसि तेषामभावः स्यात्, ततश्च मुञ्जावत्यं मौञ्जावतं वेत्येवमादि न सिध्यति? इत्याह - `सति दर्शने` इत्यादि। कथं पुनरेवं लभ्यते? इत्याह - `सर्वविधीनाम्` इत्यादि। सर्वविधिव्यभिचारस्तु **बहुलं छन्दसि** (7.4.78) इति बहुलग्रहणाल्लभ्यते। मुञ्जावान् नाम पर्वतः, तत्र भवोऽसौ मौञ्जावतः॥ Prakriyasarvasvam ----------------- तत्र भव इत्यर्थे यत्स्यात् । नमो मेध्याय च विद्युत्याय च ।