44108: समानोदरे शयित ओ चोदात्तः =============================== **Padacheda:** समान-उदरे | S | 7 | 1 | शयितः | S | 1 | 1 | ओ | S | | | 1 च | S | 0 | 0 | उदात्तः | S | 1 | 1 | Sutrartha --------- **'शयितः' अस्मिन् अर्थे सप्तमीसमर्थात् 'समानोदर'शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति, तथा च निर्मितस्य शब्दस्य ओकारः उदात्तः जायते ।** 'शयितः' इति 'शी' धातो' क्त-प्रत्ययान्तरूपम् । 'शयनम् कृतः / स्थितः' इत्यर्थः । सप्तमीसमर्थात् 'समानोदर'शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति । यथा - समानोदरे शयितः = समानोदर + यत् → समानोदर् + य [**यस्येति च** (6.4.148) इति अकारलोपः] → समानोदर्यः । समाने उदरे शयितः सः समानोदर्यः भ्राता । समाने उदरे शयिता सा समानोदर्या स्वसा । अनेन सूत्रेण 'समानोदर्य' शब्दस्य ओकारस्य उदात्तत्वमपि विधीयते । वस्तुतः तु यत्-प्रत्ययः 'तित्' अस्ति, अतः **तित्स्वरितम्** (6.1.185) इत्यनेन तित्-प्रत्ययस्य आदिस्वरस्य उदात्तत्वम् विधीयते, येन अन्ये स्वराः **अनुदात्तं पदमेकवर्ज्यम्** (6.1.158) इत्यनेन अनुदात्तस्वरं प्राप्नुवन्ति । परन्तु तत् बाधित्वा अनेन सूत्रेण 'समानोदर्य' शब्दस्य ओकारः उदात्तः क्रियते । Vasu English Summary -------------------- The affix यत् comes in the sense of 'who sleeps' after the word समानोदर in the Locative -7th case construction and the उदात्त falls on the letter ओ। Vasu English Translation ------------------------ The affix यत् comes in the sense of 'who sleeps' after the word समानोदर in the Locative -7th case construction and the उदात्त falls on the letter ओ। The word शयित is equal to स्थितः 'remain'. Thus समानोदरे शयितः = समानोदर्यः 'uterine brother' i. e. who has slept in the same womb. See (6.3.88). Kashika ------- समानोदरशब्दात् सप्तमीसमर्थात् शयित इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, ओकारश्चोदात्तः। शयितः स्थित इत्यर्थः। समानोदरे शयितः समानोदर्यो भ्राता॥ Siddhanta Kaumudi ----------------- समाने उदरे शयितः स्थितः समानोदर्यो भ्राता ॥ Balamanorama ------------ **समानोदरे शयित ओ चोदात्तः** - समानोदरे । समानोदरशब्दात्सप्तम्यन्ताच्छयित इत्यर्थे यत्स्यादोकाराश्च उदात्त इत्यर्थः । शयित इत्यस्य विवरणं स्थित इति । कुशेशयं जलेशयमित्यादौ तथा दर्शनादिति भावः । समानोदर्य इति । समानमुदरमिति । विग्रहेपूर्वापरप्रथमे॑त्यादिना समासाद्यति कृते तित्स्वरापवाद ओकारस्योदात्तः । 'विभाषोदरे' इति सभावेऽसति रूपम् । Tattvabodhini ------------- **समानोदरे शयित ओ चोदात्तः** - शयितः स्थित इति । शीधातुः स्थित्यर्थे वर्तते ।जलाशयः॑कुशेशय॑मिति प्रयोगादिति भावः । समानमुदरमितिपूर्वापरप्रथमे॑त्यादिना तत्पुरुषःष ततो यत्, तित्स्वरापवाद ओकारस्योदात्तः । Padamanjari ----------- ओकारश्चोदात इति । तित्स्वरितस्यापवादः । शयितः स्थित इति । शेतेः स्थितावपि वृतेः, आमाशयः, जलाशय इति यथा । समानोदर्य इति । उद्दीर्यत इत्युदरम्, उदि दृणातेरलचौ पूर्वपदान्तलोपश्चेत्यलचोरन्यतरः । समानं च तदुदरं च समानोदरम्,'पूर्वापरप्रथम्' इत्यादिना समासःष ततः प्रत्ययः ॥ Nyaas ----- `ओकारश्चोदात्तः` इति। यतः स्वरे प्राप्त ओकारस्योदात्तत्वं विधीयते। `शयितः स्थित इत्यर्थः`(इति)। अनेकार्थत्वात् तस्य स्थितावपि वृत्तेः; तथा हि - जलाशय इति। समानोदर्यः` इति। समानञ्च तदुदरञ्चेति समानाधिकरणसमासं कृत्वा ततः प्रत्ययः॥ Prakriyasarvasvam ----------------- अस्मिन्नर्थे यद् ओकारस्योदात्तत्वं च । समानोदर्यः ॥ इत्योकारस्योदात्तत्वम् । समानोदर्यः । यति 'तित् स्वरितम् (६-१-१८५) इत्यस्य बाधः । Sutra Prayogas -------------- * **समानोदर्यमस्माकं** (भट्टिकाव्यम्): `समानोदरे शयितः` इति यत्।