44095: हृदयस्य प्रियः ===================== **Padacheda:** हृदयस्य | S | 6 | 1 | प्रियः | S | 1 | 1 | Sutrartha --------- **षष्ठीसमर्थात् 'हृदय' शब्दात् 'प्रियः' अस्मिन् अर्थे संज्ञायां विषये यत्-प्रत्ययः भवति ।** षष्ठीसमर्थात् 'हृदय'शब्दात् 'प्रियः' अस्मिन् अर्थे यत्-प्रत्ययः विधीयते । हृदयस्य प्रियः = हृदय + यत् → हृद् + य [**हृदयस्य हृल्लेखयदण्लासेषु** (6.3.50) इत्यनेन भसंज्ञकस्य 'हृदय'शब्दस्य यत्-प्रत्यये परे हृद्-आदेशः] → हृद्य अत्र 'संज्ञायाम्' इति अनुवर्तते, अतः 'हृदस्य प्रियः हृद्यः देशः / हृदस्य प्रियम् हृद्यम् वनम्' एतेषु एव अर्थेषु 'हृद्य' शब्दः प्रयुज्यते, न हि 'हृदस्य प्रियः पुत्रः / हृद्स्य प्रियः हृद्यः सखा' एतेषु अर्थेषु । Vasu English Summary -------------------- The affix यत् comes in the sense of 'loved' after the word हृदय being in the Genitive -6th-Case in construction. Vasu English Translation ------------------------ The affix यत् comes in the sense of 'loved' after the word हृदय being in the Genitive -6th-Case in construction. The construction is shown by the aphorism itself. Thus हृदयस्य प्रियः = हृ꣡द्यः 'pleasant to the heart' e. g. हृद्यो देशः, हृद्यं वनम् ॥ But we cannot say हृद्यः पुत्रः, the word संज्ञायां (4.4.99) governs this *sutra* also, and thus restricts the meaning of the word. Kashika ------- निर्देशादेव समर्थविभक्तिः। हृदयशब्दात् षष्ठीसमर्थात् प्रिय इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। हृदयस्य प्रियो हृद्यो देशः। हृद्यं वनम्। संज्ञाधिकारादभिधेयनियमः। इह न भवति — हृदयस्य प्रियः पुत्र इति॥ Siddhanta Kaumudi ----------------- हृद्यो देशः । हृदस्य हृल्लेख-(SK988) इति हृदादेशः ॥ Balamanorama ------------ **हृदयस्य प्रियः** - ह्मदयस्य प्रियः । षष्ठन्ताद्धृदयशब्दात्प्रिय इत्यर्थे यत्स्यादित्यर्थः । Tattvabodhini ------------- **हृदयस्य प्रियः** - ह्मदयस्य । प्रीणतीति प्रियः ।इगुपधे॑ति कः । कृद्योगात्कर्मणि षष्ठी, अलौकिके तद्धित प्रकृतिभागे तु वचनसामर्थ्यादेव । एवमन्यत्रापि बोध्यम् । Padamanjari ----------- हृदयमु अन्तः करणम्, प्रियमु प्रीतिकरम् । हृद्यमिति ।'हृदयस्य हृल्लेखयदण्लासेषु' इति हृदादेशः ॥ Nyaas ----- `ह्मद्यः` इति। **हृदयस्य हृल्लेखयदण्लासेषु** (6.3.50) इत्यादिना ह्मद्भावः॥ Prakriyasarvasvam ----------------- अत्रार्थे यत् ॥ Sutra Prayogas -------------- * **हृद्यताम्** (किरातार्जुनीयम्): `हृदयस्य प्रियः` इति यत्प्रत्ययः।