44090: गृहपतिना संयुक्ते ञ्यः¶
Padacheda: गृहपतिना | S | 3 | 1 |
संयुक्ते | S | 7 | 1 |
ञ्यः | S | 1 | 1 |
Sutrartha¶
तृतीयासमर्थात् ‘गृहपति’ शब्दात् ‘संयुक्तम् (= सम्बन्धी)’ अस्मिन् अर्थे संज्ञायाम् ञ्य-प्रत्ययः भवति ।
गृहपतिः इत्युक्ते गृहस्य पतिः (प्रमुखः) । ‘संयुक्तम्’ इत्युक्ते ‘सम्बन्धी’ । गृहपतिना सह यस्य सम्बन्धः, तस्य निर्देशं कर्तुम् संज्ञाविधानार्थम् गृहपति-शब्दात् ञ्य प्रत्ययः भवति । यथा - गृहपतिना संयुक्तः अग्निः = गृहपति + ञ्य → गार्हपत्य । ‘गार्हपत्य’ इति कश्चन अग्निविशेषः । वेदेषु अग्निनाम् भिन्नानि नामानि दत्तानि दृश्यन्ते, यथा गार्हपत्य-अग्निः, दक्षिण-अग्निः, आहवनीय-अग्निः आदयः । एतेषु ‘गार्हपत्य’ शब्दस्य व्युत्पत्यर्थम् रचितम् इदम् सूत्रम् । ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘गृहपतिना’ इत्येव समर्थेषु प्रथमः स्वीक्रियते, अत्र पूर्वसूत्राणि यावत् ‘तत्’ इति न अनुवर्तते । अतः अत्र ‘तृतीयासमर्थः गृहपति-शब्दः’ इत्यस्मात् एव प्रत्ययविधानम् भवति । 2. वस्तुतः अस्मिन् सूत्रे ‘गृहपतिना संयुक्तम्’ इत्यस्मिन् अर्थे ञ्य-प्रत्ययः पाठितः अस्ति, न हि ‘गृहपतिना संयुक्तः अग्निः’ अस्मिन् अर्थे । अतः गृहपतिना सम्बधितम् यत् किमपि वर्तते (यथा - गृहपतिना संयुक्तम् गृहम् / कार्यम् / मन्दिरमादयः), तस्य सर्वस्य विषये अनेन सूत्रेण ञ्य-प्रत्ययविधानस्य प्रसक्तिः वर्तते । परन्तु तादृशम् न भवति, यतः अत्र ‘संज्ञायाम्’ इत्यपि पूर्वसूत्रात् अनुवर्तते । ‘संज्ञायाम्’ इत्यनेन ‘गार्हपत्य’ शब्दस्य प्रयोगस्य संज्ञायाः विषये नियमनम् क्रियते, अतः अन्यत्र (यत्र ‘गार्हपत्य’ इति संज्ञारूपेण न प्रयुज्यते तत्र) अस्य सूत्रस्य प्रयोगः न भवति । अतः ‘गृहपतिना संयुक्तम् गृहम् / कार्यम् / मन्दिरम्’ एतेषु स्थलेषु अस्य सूत्रस्य प्रसक्तिः नास्ति ।
Vasu English Summary¶
The affix ञ्य comes in the sense of ‘joined with’ after the word गृहपति in the Instrumental -3rd case in construction.
Vasu English Translation¶
The affix ञ्य comes in the sense of ‘joined with’ after the word गृहपति in the Instrumental -3rd case in construction. Thus गृहपतिना संयुक्तः = गार्हपत्यः ‘the Garhapatya Fire’: i. e. a Fire particularly consecrated by the Householder. The word संज्ञायां of the last sutra should be read into it, thus गार्हपत्यः means a particular Fire, and not every thing relating to a गृहपति ॥ The Fire in which husband (grihapati), together with or joined with his wife, performs sacrifice is called Garhapatya. That sacrifice cannot be performed in Dakshinagni. Or that fire in which Grihapati hymns are recited is called Garhapatya.
Bhashya¶
गृहपतिना संयुक्ते ञ्ञ्यः (1828) (ञ्ञ्यप्रत्ययाधिकरणम्) (आक्षेपभाष्यम्) गृहपतिना संयुक्त इत्युच्यते, तत्रदक्षिणाग्नावपि प्राप्नोति। दक्षिणाग्निरपि गृहपतिना संयुज्यते॥ (सिद्धान्तभाष्यम्) एवं तर्हि -गृहपतिना संयुक्त इत्युच्यते, सर्वश्च गृहपतिना संयुक्तः। तत्र प्रकर्षगतिर्विज्ञास्यते -साधीयो यो गृहपतिना संयुक्त इति। कश्च साधीयः? यस्मिन् पत्नीसंयाजाः क्रियन्ते॥ अथ वा गृहपतिर्नाम मन्त्रः स यस्मिन्नुच्यते॥ अथ वा संज्ञायामिति वर्तते॥
Kashika¶
निर्देशादेव तृतीयासमर्थविभक्तिः। गृहपतिशब्दात् तृतीयासमर्थात् संयुक्त इत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति। गृहपतिना संयुक्तो गार्हपत्योऽग्निः। अन्यस्यापि गृहपतिना संयोगोऽस्ति, तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः॥
Siddhanta Kaumudi¶
गृहपतिर्यजमानस्तेन संयुक्तो गार्हपत्योऽग्निः ॥
Balamanorama¶
गृहपतिना संयुक्ते ञ्यः - गृहपतिना । अस्मिन्नर्थे गृहपतिशब्दात्तृतीयान्ताञ्ञ्यः स्यादित्यर्#H । गार्हपत्योऽग्निरिति । अग्निविशेष इत्यर्थः । तत्र पत्नीसंयोजेषु अग्निहोत्तरे च गृहपतिदेवताकहोमस्य क्रियमामत्वाद्गृहपतियोगः । यद्यपिदेवसूहविःषु अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति॑ इति हविर्होम आहबनीये क्रियते, तथापि संज्ञाधिकारादाहरवनीये नास्य प्रयोगः ।
Tattvabodhini¶
गृहपतिना संयुक्ते ञ्यः - गार्हपत्य इति ।गृहपतिने॑ति निर्देशादेव तृतीयान्तात्प्रत्ययः ।संज्ञाया॑मित्यनुवृत्तेराहवनीयादौ नातिप्रसङ्गः ।
Padamanjari¶
अन्यस्यापीत्यादि । गृहपतिर्हि यजमानः, स यथा गार्हपत्ये कार्याणि करोति तथा दक्षिणाग्नावाहवनीये च, भूयो वाऽऽहवनीये; तस्मादन्यस्यापि गृहपतिना योगोऽस्ति । यद्येवम्, तत्राप्यतिप्रसङ्गः ? इत्यत आह - तत्रेति । अपर आह - गृहपतिरग्निविशेषः, तेन संयोगो गार्हपत्यस्यैवाग्निहोत्रेऽपि गार्हपत्ये अग्नये गृहपतये प्रजापतये, पत्नीसंयाजेषु च तत्रैवेज्यते इति , तत्रापि गृहपतिरग्निर्गृह्यते न यजमान इत्यत्र संज्ञाधिकार एव शरणम् ॥
Nyaas¶
संयुक्ते इति। सम्बद्ध इत्यर्थः।अन्यस्यापि इत्यादि। यथैव हि गृहपतिर्यजनमानो गार्हपत्ये कार्यं करोति, तथा दक्षिणाग्नावाहवनीये च। तस्मादन्यस्यापि दक्षिणादेर्गृहपतिना संयोगोऽस्ति। यद्येवम्, अतिप्रसङ्गोऽन्यत्र प्राप्नोति? इत्याह - तत्र् संज्ञाधिकारात् इत्यादि। अभिधेयनियमार्थं संज्ञाग्रहणमनुवर्तते, तेनेह न भवत्यतिप्रसङ्गः॥
Prakriyasarvasvam¶
नाम्न्येव । गृहस्थेन प्रथमसंयुक्तत्वाद् गार्हपत्यः पश्चिमाग्निः । स ह्यन्याग्न्योः प्रकृतिः ।।