44089: संज्ञायां धेनुष्या¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
धेनुष्या | S | 1 | 1 |
Sutrartha¶
संज्ञायाः विषये ‘धेनुष्या’ शब्दः निपात्यते ।
अनेन सूत्रेण ‘धेनुष्या’ अयम् शब्दः पाठ्यते । किम् नाम धेनुष्या ? यत्र कश्चन धनहीनः कस्माच्चित् धनिकात् ऋणरूपेण धनम् स्वीकरोति, तथा च ‘यावत् ऋणमुक्तिः न स्यात् तावत् मम धेनोः दुग्धम् स्वीकुरु’ इति उक्त्वा स्वस्य धेनुम् दुग्धनिष्कासनार्थम् धनिकाय अर्पयति , तत्र तादृश्याः धेनोः ‘धेनुष्या’ इति संज्ञा भवति । काशिकाकारः वदति - ‘या धेनुः उत्तमर्णाय (= धनिकाय) ऋणप्रदानात् दोहनार्थम् दीयते, सा धेनुष्या’ । ‘धेनुष्याम् भवते ददामि’ एतादृशाः वाक्याः लोके प्रसिद्धाः । एतेषु वाक्येषु विद्यमानस्य धेनुष्या-शब्दस्य निपातनम् वर्तमानसूत्रेण क्रियते । अस्य निपातनस्य विषये कौमुद्यामुच्यते - ‘धेनुशब्दस्य षुगागमो यप्रत्ययश्च स्वार्थे निपात्यते संज्ञायाम्’ । इत्युक्ते, ‘धेनुष्या’शब्दस्य निर्माणे ‘षुक्’ इति आगमः तथा च ‘य’ इति प्रत्ययः निपात्यते । प्रक्रिया इयम् - या धेनुः उत्तमर्णाय ऋणप्रदानात् दोहनार्थम् दीयते सा धेनुः = धेनु + षुक् [षुक्-आगमस्य निपातनम्] → धेनु + ष् [ककार-उकारयोः लोपः] → धेनु + ष् + य [य-प्रत्ययस्य निपातनम्] → धेनुष्य + टाप् [अजाद्यतष्टाप् (4.1.4) इति टाप्] → धेनुष्या ज्ञातव्यम् - 1) वस्तुतः अत्र ‘यत्’ इत्यस्य अधिकारः प्रचलति । तथापि ‘धेनुष्या’शब्दस्य विषये ‘य’ प्रत्ययस्य निपातनम् कृतमस्ति - यत्-प्रत्ययः अत्र न प्रयुक्तः । अस्य कारणम् ‘स्वरविशेषः’ इति । यत्-प्रत्ययस्य अकारः तित्स्वरितम् (6.1.185) इत्यनेन स्वरितः अस्ति, तथा च ‘य’प्रत्ययस्य अकारः आद्युदात्तश्च (3.1.3) इत्यनेन उदात्तः अस्ति । ‘धेनुष्य’ शब्दे विद्यमानः अन्तिमः स्वरः (यकारोत्तरः अकारः) उदात्तः अस्ति, स्वरितः न । अतः अत्र यत्-प्रत्यययोजनम् न समीचीनम् । अतएव अत्र ‘य’प्रत्ययविधानम् क्रियते । अतः काशिकाकारः वदति - ‘अन्तोदात्तः अपि हि अयम् इष्यते’ । 2) अस्मात् सूत्रात् ‘संज्ञायाम्’ इत्यस्य अनुवृत्तिः चतुर्थाध्यायस्य चतुर्थपादसमाप्तिपर्यन्तम् गच्छति । बालमनोरमाकारः अस्मिन् विषये स्पष्टीकरोति - ‘संज्ञायाम् इति आपादपरिसमाप्तेः अधिकारः’ । अत्र ‘अधिकारः’ इत्युक्ते ‘अनुवृत्तिः’ इति । ‘यत्’प्रत्ययस्य अधिकारः अपि तावदेव वर्तते, अतः ‘यत्’ प्रत्ययस्य अधिकारे अग्रे पाठिताः सर्वे शब्दाः केवलम् ‘संज्ञायाम्’ विषये एव प्रयुज्यन्ते । अत्र ‘संज्ञायाम्’ इत्युक्ते’ ‘विशिष्ट-प्रयोगे एव’ इत्यर्थः ।
Vasu English Summary¶
The word धेनुष्या is irregularly formed being a Name.
Vasu English Translation¶
The word धेनुष्या is irregularly formed being a Name. This word is formed by adding षुक् and य to धेनु ॥ It has udatta on the final. धेनुष्या means that cow (धेनु) which is given to a creditor in discharge of a debt or as a pledge to satisfy the debt from her milk. It is also called पीतदुग्धा ॥ As धेनुष्यां भवते ददामि ॥
Kashika¶
धेनुष्येति निपात्यते संज्ञायां विषये। संज्ञाग्रहणमभिधेयनियमार्थम्। धेनोः षुगागमो यश्च प्रत्ययो निपात्यते। अन्तोदात्तोऽपि ह्ययमिष्यते। या धेनुरुत्तमर्णाय ऋणप्रदानाद् दोहनार्थं दीयते सा धेनुष्या। पीतदुग्धेति यस्याः प्रसिद्धिः। धेनुष्यां भवते ददामि॥
Siddhanta Kaumudi¶
धेनुशब्दस्य षुगागमो यप्रत्ययश्च स्वार्थे निपात्यते संज्ञायाम् । धेनुष्या बन्धके स्थिता ॥
Balamanorama¶
संज्ञायां धेनुष्या - संज्ञायां धेनुष्या । यप्रत्ययश्चेति । यति तु तित्स्वर) स्यादिति भावः । धेनुष्येति । या धेनुर्दोहनार्थमुत्तमर्णाय अधमर्णेन दीयते तस्या इयं संज्ञा । तदाह — बन्धके स्थितेति । अमरवाक्यमिदम् । संज्ञायामित्या पादपरिसमाप्तेरधिकारः । संज्ञा हि रूठिर्विवक्षिता ।
Tattvabodhini¶
संज्ञायां धेनुष्या - संज्ञायामिति । ऋणप्रत्यर्पणाय या धेनुर्दोहनार्थमुत्तमर्णाय दीयते तस्या संज्ञेयम् ।
Padamanjari¶
यश्च प्रत्ययो निपात्यत इति । कुत्र ? अनिर्दिष्टार्थत्वात्स्वार्थे, तदाह - या धेनुरुतमर्णायेति । कथं पुनर्यति प्रकृते यप्रत्ययो निपात्यते ? तत्राहान्तोदातोऽपि ह्ययमिष्यत इति । यति हि’तित्स्वरितम्’ इति स्वरितः स्याद्, अन्तोदातश्चेष्यते, न केवलं संज्ञायाम्, अपि त्वन्तोदातोऽपीत्यपिशब्दस्यार्थः ॥
Nyaas¶
यश्च प्रत्ययः इति। किमर्थं पुनर्यप्रत्ययो निपात्यते? इत्याह - अन्तोदात्तो ह्रयमपीष्यते इति। यति सति तित्स्वरेणान्तस्वरितत्वात्। अन्तोदात्तश्चेष्यते। तस्माद्यप्रत्यय एव न्याय्यः। न केवलं संज्ञाविषय एवेष्यते; अपि त्वन्तोदात्तोऽपीत्येषोऽपिशब्दस्यार्थः॥
Prakriyasarvasvam¶
श्रणप्रत्यर्षणान्तमुत्तमर्णस्य दोहायार्पिता धेनुर्धेनुष्या ।।