44090: गृहपतिना संयुक्ते ञ्यः ============================= **Padacheda:** गृहपतिना | S | 3 | 1 | संयुक्ते | S | 7 | 1 | ञ्यः | S | 1 | 1 | Sutrartha --------- **तृतीयासमर्थात् 'गृहपति' शब्दात् 'संयुक्तम् (= सम्बन्धी)' अस्मिन् अर्थे संज्ञायाम् ञ्य-प्रत्ययः भवति ।** गृहपतिः इत्युक्ते गृहस्य पतिः (प्रमुखः) । 'संयुक्तम्' इत्युक्ते 'सम्बन्धी' । गृहपतिना सह यस्य सम्बन्धः, तस्य निर्देशं कर्तुम् संज्ञाविधानार्थम् गृहपति-शब्दात् ञ्य प्रत्ययः भवति । यथा - गृहपतिना संयुक्तः अग्निः = गृहपति + ञ्य → गार्हपत्य । 'गार्हपत्य' इति कश्चन अग्निविशेषः । वेदेषु अग्निनाम् भिन्नानि नामानि दत्तानि दृश्यन्ते, यथा गार्हपत्य-अग्निः, दक्षिण-अग्निः, आहवनीय-अग्निः आदयः । एतेषु 'गार्हपत्य' शब्दस्य व्युत्पत्यर्थम् रचितम् इदम् सूत्रम् । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'गृहपतिना' इत्येव समर्थेषु प्रथमः स्वीक्रियते, अत्र पूर्वसूत्राणि यावत् 'तत्' इति न अनुवर्तते । अतः अत्र 'तृतीयासमर्थः गृहपति-शब्दः' इत्यस्मात् एव प्रत्ययविधानम् भवति । 2. वस्तुतः अस्मिन् सूत्रे 'गृहपतिना संयुक्तम्' इत्यस्मिन् अर्थे ञ्य-प्रत्ययः पाठितः अस्ति, न हि 'गृहपतिना संयुक्तः अग्निः' अस्मिन् अर्थे । अतः गृहपतिना सम्बधितम् यत् किमपि वर्तते (यथा - गृहपतिना संयुक्तम् गृहम् / कार्यम् / मन्दिरमादयः), तस्य सर्वस्य विषये अनेन सूत्रेण ञ्य-प्रत्ययविधानस्य प्रसक्तिः वर्तते । परन्तु तादृशम् न भवति, यतः अत्र 'संज्ञायाम्' इत्यपि पूर्वसूत्रात् अनुवर्तते । 'संज्ञायाम्' इत्यनेन 'गार्हपत्य' शब्दस्य प्रयोगस्य संज्ञायाः विषये नियमनम् क्रियते, अतः अन्यत्र (यत्र 'गार्हपत्य' इति संज्ञारूपेण न प्रयुज्यते तत्र) अस्य सूत्रस्य प्रयोगः न भवति । अतः 'गृहपतिना संयुक्तम् गृहम् / कार्यम् / मन्दिरम्' एतेषु स्थलेषु अस्य सूत्रस्य प्रसक्तिः नास्ति । Vasu English Summary -------------------- The affix ञ्य comes in the sense of 'joined with' after the word गृहपति in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affix ञ्य comes in the sense of 'joined with' after the word गृहपति in the Instrumental -3rd case in construction. Thus गृहपतिना संयुक्तः = गार्हपत्यः 'the *Garhapatya* Fire': i. e. a Fire particularly consecrated by the Householder. The word संज्ञायां of the last *sutra* should be read into it, thus गार्हपत्यः means a particular Fire, and not every thing relating to a गृहपति ॥ The Fire in which husband (*grihapati*), together with or joined with his wife, performs sacrifice is called *Garhapatya*. That sacrifice cannot be performed in Dakshinagni. Or that fire in which *Grihapati* hymns are recited is called *Garhapatya*. Bhashya ------- गृहपतिना संयुक्ते ञ्ञ्यः (1828) (ञ्ञ्यप्रत्ययाधिकरणम्) (आक्षेपभाष्यम्) गृहपतिना संयुक्त इत्युच्यते, तत्रदक्षिणाग्नावपि प्राप्नोति। दक्षिणाग्निरपि गृहपतिना संयुज्यते॥ (सिद्धान्तभाष्यम्) एवं तर्हि -गृहपतिना संयुक्त इत्युच्यते, सर्वश्च गृहपतिना संयुक्तः। तत्र प्रकर्षगतिर्विज्ञास्यते -साधीयो यो गृहपतिना संयुक्त इति। कश्च साधीयः? यस्मिन् पत्नीसंयाजाः क्रियन्ते॥ अथ वा गृहपतिर्नाम मन्त्रः स यस्मिन्नुच्यते॥ अथ वा संज्ञायामिति वर्तते॥ Kashika ------- निर्देशादेव तृतीयासमर्थविभक्तिः। गृहपतिशब्दात् तृतीयासमर्थात् संयुक्त इत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति। गृहपतिना संयुक्तो गार्हपत्योऽग्निः। अन्यस्यापि गृहपतिना संयोगोऽस्ति, तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः॥ Siddhanta Kaumudi ----------------- गृहपतिर्यजमानस्तेन संयुक्तो गार्हपत्योऽग्निः ॥ Balamanorama ------------ **गृहपतिना संयुक्ते ञ्यः** - गृहपतिना । अस्मिन्नर्थे गृहपतिशब्दात्तृतीयान्ताञ्ञ्यः स्यादित्यर्#H । गार्हपत्योऽग्निरिति । अग्निविशेष इत्यर्थः । तत्र पत्नीसंयोजेषु अग्निहोत्तरे च गृहपतिदेवताकहोमस्य क्रियमामत्वाद्गृहपतियोगः । यद्यपिदेवसूहविःषु अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति॑ इति हविर्होम आहबनीये क्रियते, तथापि संज्ञाधिकारादाहरवनीये नास्य प्रयोगः । Tattvabodhini ------------- **गृहपतिना संयुक्ते ञ्यः** - गार्हपत्य इति ।गृहपतिने॑ति निर्देशादेव तृतीयान्तात्प्रत्ययः ।संज्ञाया॑मित्यनुवृत्तेराहवनीयादौ नातिप्रसङ्गः । Padamanjari ----------- अन्यस्यापीत्यादि । गृहपतिर्हि यजमानः, स यथा गार्हपत्ये कार्याणि करोति तथा दक्षिणाग्नावाहवनीये च, भूयो वाऽऽहवनीये; तस्मादन्यस्यापि गृहपतिना योगोऽस्ति । यद्येवम्, तत्राप्यतिप्रसङ्गः ? इत्यत आह - तत्रेति । अपर आह - गृहपतिरग्निविशेषः, तेन संयोगो गार्हपत्यस्यैवाग्निहोत्रेऽपि गार्हपत्ये अग्नये गृहपतये प्रजापतये, पत्नीसंयाजेषु च तत्रैवेज्यते इति , तत्रापि गृहपतिरग्निर्गृह्यते न यजमान इत्यत्र संज्ञाधिकार एव शरणम् ॥ Nyaas ----- `संयुक्ते` इति। सम्बद्ध इत्यर्थः।`अन्यस्यापि` इत्यादि। यथैव हि गृहपतिर्यजनमानो गार्हपत्ये कार्यं करोति, तथा दक्षिणाग्नावाहवनीये च। तस्मादन्यस्यापि दक्षिणादेर्गृहपतिना संयोगोऽस्ति। यद्येवम्, अतिप्रसङ्गोऽन्यत्र प्राप्नोति? इत्याह - `तत्र् संज्ञाधिकारात्` इत्यादि। अभिधेयनियमार्थं संज्ञाग्रहणमनुवर्तते, तेनेह न भवत्यतिप्रसङ्गः॥ Prakriyasarvasvam ----------------- नाम्न्येव । गृहस्थेन प्रथमसंयुक्तत्वाद् गार्हपत्यः पश्चिमाग्निः । स ह्यन्याग्न्योः प्रकृतिः ।।