44084: धनगणं लब्धा¶
Padacheda: धन-गणम् | S | 2 | 1 |
लब्धा | S | 1 | 1 |
Sutrartha¶
‘धनम् लभते’ तथा ‘गणम् लभते’ अस्मिन् अर्थे कर्तारम् निर्देशयितुम् द्वितीयासमर्थात् धनशब्दात् गणशब्दात् च यत्-प्रत्ययः भवति ।
‘लब्धा’ इति ‘लभ्’ धातोः तृन्-प्रत्ययान्तस्य प्रथमैकवचनम् । लभते सः लब्धा । यः धनम् लभते, उत यः गणम् लभते, तस्य निर्देशार्थम् यत्-प्रत्ययः क्रियते । धनम् लब्धा सः = धन + यत् → धन्य । गणम् लब्धा सः = गण + यत् → गण्य । ज्ञातव्यम् - लभ्-धातोः तृच्-प्रत्ययान्तरूपमपि ‘लब्धा’ इत्येव अस्ति । तस्यापि अर्थः समानः एव । परन्तु अस्मिन् सूत्रे प्रयुक्तः ‘लब्धा’शब्दः लभ्-धातोः तृच्-प्रत्ययान्तरूपम् नास्ति, अपि तु तृन्-प्रत्ययानरूपमस्ति । किम् कारणम् ? यदि अत्र ‘लब्धा’ अयम् तृच्-प्रत्ययान्तशब्दः मन्यते, तर्हि धन-शब्दस्य कर्तृकर्मणोः कृतिः (2.3.65) इत्यनेन षष्ठीविभक्तिः स्यात् - यथा, धनस्य लब्धा । परन्तु अत्र सूत्रे ‘धनम् लब्धा’ इति द्वितीया प्रयुज्यते । अतः अत्र तृन्-प्रत्ययः एव विद्यते, यस्य विषये न लोकाव्ययनिष्ठाखलर्थतृनाम् (2.3.69) इत्यनेन षष्ठी प्रतिषिध्यते, अतः द्वितीया प्राप्नोति । अस्मिन् विषये काशिकाकारः वदति - ‘लब्धा इति तृन्नन्तम् , तेन द्वितीयासमर्था विभक्तिः युज्यते’ ।
Vasu English Summary¶
The affix यत् comes in the sense of ‘who obtains it’ after the words 1. धन and 2. गण being in the Accusative -2nd case in construction.
Vasu English Translation¶
The affix यत् comes in the sense of ‘who obtains it’ after the words 1. धन and 2. गण being in the Accusative -2nd case in construction. Thus धनं लब्धा = धन्यः, so also गण्यः ॥ लब्धृ is formed from लभ् by तृन्, hence it takes the accusative.
Kashika¶
तदित्येव। धनगणशब्दाभ्यां द्वितीयासमर्थाभ्यां लब्धेत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। धन्यः। गण्यः। लब्धेति तृन्नन्तम्, तेन द्वितीया समर्था विभक्तिर्युज्यते॥
Siddhanta Kaumudi¶
तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः ॥
Balamanorama¶
धनगणं लब्धा - धनगणं लब्धा । धनशब्दाद्गणशब्दाच्च द्वितीयान्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः । ननु लब्धृशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत आह — तृन्नन्तमेतदिति । तथाच ‘न लोके’ ति निषेधान्न षष्ठीति भावः ।
Tattvabodhini¶
धनगणं लब्धा - तृन्नन्तमिति । एवं चन लोके॑त्यादिना कृद्योगषष्ठआ निषेधात्धनगण ॑मिति प्रयोगो निर्बाध इति भावः ।
Padamanjari¶
लब्धेति तृनन्तमेतत्, तृजन्ते तु’कर्तृकर्मणोः कृति’ इति षष्ठ।ल भवितव्यम् । तृनन्ते तु’न लोकाव्ययनिष्ठा’ इति प्रतिषेधाद् द्वितीयैव भवति ॥
Nyaas¶
कथं पुनरत्र द्वितीया समर्थविभक्तिः, यावता कर्त्तृकर्मणोः कृति (2.3.65) इति षष्ठआ भवितव्यम्? इत्याह - लब्धेति तृन्नन्तम् इत्यादि। तृन्नन्तस्य हि प्रयोगे न लोकाव्ययनिष्षाखलर्थतृनाम् (2.3.69) इति षष्ठीप्रतिषेधेन द्वितीया भवति॥
Prakriyasarvasvam¶
आभ्यां तल्लब्धेत्यर्थे यत् । धनं लब्धा धन्यः । गण्यः ॥
Sutra Prayogas¶
धन्योऽसि (शिशुपालवधम्): धनगणं लब्धा इति यत्प्रत्ययः।