44083: विध्यत्यधनुषा¶
Padacheda: विध्यति | T | | |
अ-धनुषा | S | 3 | 1 |
Sutrartha¶
‘विध्यति’ अस्मिन् अर्थे द्वितीयासमर्थात् यत्-प्रत्ययः भवति, परन्तु ‘धनुष्’ इति करणमस्ति चेत् यत्-प्रत्ययः न भवति ।
‘विध्यति’ इति ‘व्यध् (ताडने)’ इत्यस्य दिवादिगणस्य धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । ‘ताडयति / वेदनां करोति’ अस्मिन् अर्थे अस्य धातोः प्रयोगः भवति । यत्र केनचन पदार्थेन वेदना क्रियते, तत्र ‘यम् वेदना भवति’ तस्य निर्देशार्थम् वर्तमानसूत्रस्य प्रयोगः भवति । उदाहरणम् पश्यामश्चेत् स्पष्टम् स्यात् - 1. वालुकायाः लघुकणाः ये भूमौ पतिताः सन्ति, तेषु पादौ स्थापयामश्चेत् प्रायः तैः कणैः पादवेदना जायते । अस्य निर्देशः ‘वालुकाकणाः पादौ विध्यन्ति’ इति क्रियते । अत्र ताडनक्रियायाः कर्म अस्ति पादौ । अस्मात् द्वितीयासमर्थात् वालुकाकणानाम् निर्देशं कर्तुम् वर्तमानसूत्रेण यत्-प्रत्ययः विधीयते । यथा - पाद + यत् → पद् + यत् [पद् यत्यतदर्थे (6.3.53) इति पद्-आदेशः] → पद्य पादौ विध्यन्ति ते पद्याः वालुकाकणाः । 2. गुल्मानाम् ( लघुवृक्षानाम्) कण्टकाः चलनसमये ऊरुम् (जङ्घाम्) पीडयन्ति । अस्य निर्देशः ‘कण्टकाः ऊरुम् विद्ध्यन्ति’ इति क्रियते । अत्र पीडनक्रियायाः कर्म अस्ति ऊरुः । अस्मात् द्वितीयासमर्थात् कण्टकानां निर्देशं कर्तुम् यत् प्रत्ययः क्रियते । ऊरून् विध्यन्ति ते ऊरव्याः कण्टकाः । प्रक्रिया इयम् - ऊरु + यत् → ऊरो + य [ओर्गुणः (6.4.146) इति गुणादेशः] → ऊरव् + य [वान्तो यि प्रत्यये (6.1.79) इति अवादेशः] → ऊरव्य यदि व्यधनक्रियायाः करणम् ‘धनुः’ इति अस्ति (इत्युक्ते, धनुषा ताडनम् / पीडनम् क्रियते), तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - ‘धनुषा पादान् विध्यन्ति ते शराः’ अस्मिन् वाक्ये पाद-शब्दात् यत्-प्रत्ययविधानम् न भवति, यतः अत्र व्यधनक्रियायाः करणम् ‘धनुः’ इति अस्ति । तथा च, यत्र व्यधनक्रियायाः करणम् धनुः इति ‘भवितुमर्हति’, तत्रापि वर्तमानसूत्रस्य प्रसक्तिः न भवति । यथा - ‘देवदत्तः शत्रुं विध्यति’ इत्यत्र ‘प्रायः धनुषा विध्यति / धनुषा व्यद्धुमर्हति’ इति अर्थः जायते, अतः अत्रापि असय सूत्रस्य प्रसक्तिः न वर्तते ।
Vasu English Summary¶
The affix यत् comes in the sense of ‘what pierces it’ after a word in the Accusative -2nd case in construction, provided that it is not a bow with which anything is pierced.
Vasu English Translation¶
The affix यत् comes in the sense of ‘what pierces it’ after a word in the Accusative -2nd case in construction, provided that it is not a bow with which anything is pierced. Thus पादौ विध्यन्ति = पद्याः (6.3.53) शर्कराः, ‘what pierce the feet’ i.e. pebbles. ऊरव्याः कण्टकाः ‘thorns’ i. e. what pierce the thigh.
Why do we say “provided it is not a bow, अधनुषा”? Observe पादौ विध्यति धनुषा, no affix is added here. This exclusion of धनुष् indicates that the act of piercing must be such as not to be done by a bow &c. Therefore the affix does not apply to cases like these चौरं विध्यति, शत्रुंविध्यति ॥
Bhashya¶
विध्यत्यधनुषा (1821) (5579 आक्षेपवार्तिकम्॥ 1 ॥) - विध्यत्यकरणेन - (भाष्यम्) विध्यत्यकरणेनेति वक्तव्यम्॥ (5580 आक्षेपसमर्थकं वार्तिकम्॥ 2 ॥) - इतरथा ह्यनिष्टप्रसङ्गः - (भाष्यम्) अधनुषेति ह्युच्यमानेऽतिप्रसङ्गो भवति। इहापि प्रसज्येत -शर्कराभिर्विध्यति, कण्टकैर्विध्यतीति। तत्तर्हि वक्तव्यम्? न वक्तव्यम्॥ (सिद्धान्तभाष्यम्) कस्मान्न भवति -कण्टकैर्विध्यति, शर्कराभिर्विध्यतीति। अनभिधानात्॥
Kashika¶
तदिति द्वितीयासमर्थाद् विध्यतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, न चेद् धनुष् करणं भवति। पादौ विध्यन्ति पद्याः शर्कराः। ऊरव्याः कण्टकाः। अधनुषेति। किम् ? पादौ विध्यति धनुषा। नन्वसमर्थत्वादनभिधानात् च प्रत्ययो न भवति, नहि धनुषा पद्य इत्युक्ते विवक्षितोऽर्थः प्रतीयते? एवं तर्हि धनुष्प्रतिषेधेन व्यधनक्रिया विशेष्यते — यस्यां धनुष्करणं न संभाव्यत इति। तेनेह न भवति — चौरं विध्यति, शत्रुं विध्यति देवदत्त इति॥
Siddhanta Kaumudi¶
द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः ॥
Balamanorama¶
विध्यत्यधनुषा - विध्यत्यधनुषा । तदिति द्वितीयान्तमनुवर्तते । अधनुषेति सप्तम्यर्थे तृतीया । धनुषोऽभावः-अधनुः, तस्मिन्सतीत्यर्थः । अर्थाऽभावे नञ्तत्पुरुषः,अर्थाभावे अव्ययीभावे अयं विकल्प्यते॑ इत्युक्तत्वात् । द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्याद्धनुष करणस्याऽभावे सतीत्यर्थः । न चेत्तत्रेति । तत्र=वेधने धनुः करणं न चेदित्यर्थः । पद्या इति । पादशब्दाद्यति ‘पद्यत्यतदर्थे’ इति पद्भावः । अधनुषेति किम् । धनुषा चोरं विध्यति देवदत्तः । अत्र चोराद्यन्न भवति । न चाऽसामर्थ्यादेवात्र यन्नेति वाच्यं, विध्यतीत्यस्य प्रत्ययार्थत्वेन प्रधानतया तस्य सापेक्षत्वेऽपि सामर्थ्याऽविधातात् । अन्यथाऔपगवो देवदत्त उपगुनप्तृत्वा॑ दित्यादौ अणादिकं न स्यात्, प्रत्ययार्थैकदेशस्य व्यधनस्य करणविशेषणित्यसापेक्षत्वाच्चेति शब्देन्दुशेखरे विस्तरः ।
Tattvabodhini¶
विध्यत्यधनुषा - पद्या इति ।पद्यत्यतदर्थे॑इति पद्भावः । अधनुषा किम् । चोरं विध्यति । सम्भाव्यते हि चोरब्यधने धनुषः करणता । यदा तु धनुषेति प्रयुज्यते तदा सापेक्षत्वादेव न भवति । एवं चन चेत्तत्र धनुः करण॑मित्यत्रसम्भव्यते॑इति शेषो बोध्याः ।
Padamanjari¶
पादौ विध्यन्ति पद्या इति । तदन्तीत्यर्थः ।’पद्यत्यतदर्थे इति पद्भावः । ऊरव्या इति । ठोर्गुणः’ ,’वान्तो यि प्रत्यये’ । नन्वसमर्थत्वादिति । सापक्षमसमर्थं भवतीत्यसामर्थ्यम्, प्रत्ययार्थो ह्यत्र बाह्यम्, करणं धनुरपेक्षते । ननु व्यधनमत्र सापेक्षम्, करणक्रिययोः सम्बन्धात्, व्यधनं च प्रधानम्, क्रियाप्रधानत्वादाख्यातस्य, भवति च प्रधानस्यं सापेक्षस्यापि वृत्तिः, यथा - राजपुरुषः शोभन इति ? भवतु क्रियाप्रधानमाख्यातम्, तद्धितस्तु स्वभावात्साधनप्रधानः । क्रिया तु गुणभूतेत्युक्तम् सा च धनुरपेक्षत इत्यसामर्थ्यम् । अनभिधानच्चेति । अत्रैकोपपत्यन्तरमनभिधानमेव दर्शयति । न हीति ।’धनुषा पद्यः’ इत्युक्ते इत्थम्भूतलक्षणा सहयोगलक्षणा वा तृतीया गम्यते, न तु पादौ धनुषा विध्यतीत्ययं विवक्षितोऽर्थः । अवश्यं चैतदेवं विज्ञेयम् - असमर्थत्वादनभिधाअनाच्चात्र प्रत्ययो न भवतीति । यो हि मन्यते - ठधनुषेति प्रतिषेधात्प्रत्ययो न भवतिऽ इति, तस्य शर्कराभिः पादौ विद्ध्यति कण्टकैरूरू विद्ध्यतीत्यत्र प्रत्ययः स्यादेव ? एवं तर्हि विशेषोपलक्षणपरोऽत्र धनुषेति निर्देशः, न तु धनुषः करणत्वप्रतिषेधपर इत्यर्थः । धनुष्प्रतिषेधेनेति ।’नित्यं समासे’ नुतरपदस्थस्यऽ इति षत्वमुपलक्षणत्वमेव प्रतिपादयति । यस्यामिति । तेनेह न भवति - चौरं विद्ध्यतीति । सम्भाव्यते हि प्रच्यवच्छेदनादिकायां चोरस्य व्यधनक्रियायां धनुषः करणत्वम् ॥
Nyaas¶
पद्याः इति। पद् यत्यतदर्थे (6.3.53) इतिपादशब्दस्य पद्भावः। ऊरव्याः इति। वान्तो यि प्रत्यये (6.1.79) इत्यवादेशः।ननु च इत्यादि। धनुरत्र प्रकृत्यर्थः, प्रत्ययार्थेन वाह्रं करणमपेक्ष्यते, तेन सापेक्षमसमर्थं भवतीत्यसामर्थ्यम्? ननु चट व्यधनमेवात्र सापेक्षम्, क्रियया करणं सम्बध्यत इति कृत्वा, तच्च व्यधनं क्रियाप्रधानत्वादाख्यातस्य प्रधानं बवति, प्रधानस् सापेक्षस्य भवत्येव वृत्तिः, यथा - राजुपुरषोऽयमभिरूप इति? नैतदस्ति; यद्यपि क्रियाप्रधानमाख्यातम्, तथापीह प्रत्ययार्थं एव प्रधानम्। प्रत्ययार्थस्य साधनं व्यद्धा। तथा च प्रागुक्तम् - क्रियाप्रधानत्वेऽपि चाख्यातस्य तद्धितेः स्वभावात् साधनप्रधानः इति। अथ क्रियाद्वारेण व्यद्धुरपि करणं प्रत्यपेक्षा भवतीति कल्प्यते, तथा च सति प्रकृत्यर्थस्यापि क्रियाद्वारेणैव करणं प्रत्यपेक्षा भवतीति केन वार्यते ! न हि पादौ विध्यति धनुषेति करणविवक्षायां व्यधनमात्रस्य पादौ कर्म धनुष्करणविशिष्टस्य। तस्माद्व्यधनस्यापि क्रियाकरणे प्रत्यपेक्षेत्यसाम्रथ्यात्प्रत्ययो न भविष्यति। अनभिधानाच्च इति। अत्रैवोचपपत्त्यनतरम्। कथं पुनरुपपत्त्यन्तरमित्याह - न हि इत्यादि। धनुषा पद्य इत्युक्ते धनुष पद्यं प्रत्युपलक्षणभावः सम्भाव्यते, यथा -शिखया परिव्राजकमद्राक्षीदित्त्र शिखया परिव्राजकं प्रति। धनुषा सह दृष्टः पद्य इत्येषोऽप्यर्थश्चाशङ्क्यते। न तु पादौ विध्यति धनुषेत्ययमर्थो विवक्षितः प्रतीयते। एवं तर्हि ` इत्यादिना क्रियाविशेषणपरो धनुषेति निर्देशः; न धनुषः करणत्वप्रतिषेधः। प्रतिषेधे प्रधानमिति दर्शयति -`तेन इत्यादिना। क्रियत एव धनुषः प्रतिषेधः, तेन क्रिया विशेष्यते। तेन चौरं विध्यतीत्यादौ न भविष्यति। सम्भाव्यते हि चौरादिव्यधनक्रियया धनुषः करणत्वम्॥
Prakriyasarvasvam¶
यत् स्यात् तद् विध्यतीत्यर्थे धनुस्तत्करणं न चेत् । ऊरू विध्यन्तीत्यूरव्याः कण्टकाः । पद्याः शर्कराः । ‘पद्यति—‘(६-३-५३) इति पद्भावः । अधनुषेत्युक्तेर्धनुराद्यायुधैर्वेधे चोरं विध्यन् चौर्य इति न स्यात् ॥