44085: अन्नाण्णः

Padacheda: अन्नात् | S | 5 | 1 |

णः | S | 1 | 1 |

Sutrartha

‘अन्नम् लब्धा’ इत्यस्मिन् अर्थे कर्तारम् निर्देशयितुम् द्वितीयासमर्थात् अन्न-शब्दात् ण-प्रत्ययः भवति ।

अन्नम् लभते सः = अन्नम् लब्धा = अन्न + ण → आन्नः भिक्षुः । स्त्रीत्वे अजाद्यतष्टाप् (4.1.4) इति टाप् - अन्नम् लब्ध्री सा आन्ना सेविका । ज्ञातव्यम् - अत्र ‘लब्धा’ इति लभ्-धातोः तृन्-प्रत्ययान्तरूपमस्ति । लभते सः लब्धा ।

Vasu English Summary

The affix ण comes in the sense of ‘who obtains it’ after the word अन्न , in the Accusative -2nd case in construction.

Vasu English Translation

The affix ण comes in the sense of ‘who obtains it’ after the word अन्न , in the Accusative -2nd case in construction. Thus अन्नं लब्धा = आन्नः ‘fed’ ‘who has obtained food.’

Kashika

अन्नशब्दात् तदिति द्वितीयासमर्थात् लब्धेत्येतस्मिन्नर्थे णः प्रत्ययो भवति। अन्नं लब्धा आन्नः॥

Siddhanta Kaumudi

अन्नं लब्धा आन्नः ॥

Balamanorama

अन्नाण्णः - अन्नाण्णः ।लब्धेत्यर्थे द्वितीयान्ता॑दिति शेषः ।

Prakriyasarvasvam

अन्नं लब्धा आन्नः ॥