44082: संज्ञायां जन्याः¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
जन्याः | S | 5 | 1 |
Sutrartha¶
‘वहति’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘जनी’शब्दात् संज्ञायां गम्यमानायाम् यत्-प्रत्ययः भवति ।
‘जनी’ इत्युक्ते वधूः । विवाहस्य पश्चात् नववधूम् तस्याः पत्युः समीपम् या प्रापयति, सा स्त्री (= प्रायः पत्युः सखी) ‘जन्या’ नाम्ना ज्ञायते । जनीम् ( = वधूम्) या वहति सा = जनी + यत् + टाप् → जन्या । ज्ञातव्यम् - 1. यद्यप्यत्र व्याख्यानेषु ‘पत्युः सखी / वयस्या’ इत्यस्य निर्देशार्थम् ‘जन्या’ शब्दस्य प्रयोगः प्रोक्तः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः ‘जनीम् वहति’ अस्मिन् अर्थे अस्ति, न हि ‘पत्युः सखी’ अस्मिन् विषये । अतः विवाहानन्तरम् यः कोऽपि / या कापि वधूं प्रापयेत्, तस्य संज्ञा अपि ‘जन्य / जन्या’ इति भवितुमर्हति । यथा, वधुं पतिं प्रति प्रापयति भृत्या साऽपि जन्या एव । यथा, कालिदासः रघुवंशे वदति - अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी । नासौ न काम्यो न च वेद सम्यक् द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥ रघुवंशः, 6.30 ॥ अत्र ‘जन्या’ शब्दः कालिदासेन ‘मातुः सखी’ अस्मिन् अर्थे प्रयुक्तः अस्ति - इति रघुवंशस्य व्याख्याता मल्लिनाथः वदति । 2. अस्मिन् सूत्रे ‘संज्ञायाम्’ इति उच्यते । अयम् शब्दः ‘जन्या’ इत्यस्य प्रयोगव्याप्तिं दर्शयति । ‘जनीं विवाहानन्तरम् पतिं प्रति प्रेषणम्’ अस्य कार्यस्य विषये एव ‘जन्या’शब्दस्य प्रयोगः क्रियते, न अन्यस्य, इति अर्थः अत्र अभिप्रीयते ।
Vasu English Summary¶
The affix यत् comes in the sense of ‘what bears it’ after the word जनी being in Accusative -2nd case construction, the whole word being a Name.
Vasu English Translation¶
The affix यत् comes in the sense of ‘what bears it’ after the word जनी being in Accusative -2nd case construction, the whole word being a Name. Thus जनीं वहति = जन्यः ‘a friend of a bridegroom,’ fem. जन्याः ‘a bridesmaid.’ The word जनी means ‘bride.’ जन्या lit. means ‘what bears the bride’ i. e. who carries the coy bride to the bride-groom at the time of play &c.
Bhashya¶
संज्ञायां जन्याः(1820) (सूत्रार्थोपपादकभाष्यम्) किं निपात्यते? जनन्या जनीभावो निपात्यते यच्च प्रत्ययः॥ (5578 सूत्राक्षेपवार्तिकम्॥ 1 ॥) - जन्या इति निपातनानर्थक्यं पञ्ञ्चमीनिर्देशात् - (भाष्यम्) जन्या इति निपातनमनर्थकम्। किं कारणम्? पञ्ञ्चमीनिर्देशात्। जनीशब्दादेषा पञ्ञ्चमी॥ (सूत्रफलबोधकं भाष्यम्) इदं तर्हि प्रयोजनम् -सर्वकालः प्रत्ययविधिर्यथा विज्ञायेत। जनीं वहन्ति जन्याः। जनीं वोढारो जन्याः। जनीमवाक्षुर्जन्या इति॥
Kashika¶
तद् वहतीत्येव। जनीशब्दाद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। जनीं वहति जन्या, जामातुर्वयस्या। सा हि विहारादिषु जामातृसमीपं प्रापयति। जनी वधूरुच्यते॥
Siddhanta Kaumudi¶
जनी वधूः तां वहति प्रापयति जन्या ॥
Balamanorama¶
संज्ञायां जन्याः - संज्ञायां जन्याः । जनीशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः । जनी वधूरिति । जायतेऽस्यां गर्भ इत्यर्थेजनिघसिभ्या॑मिति जनधातोरिणिजनिवध्योश्चे॑ति वृद्धिप्रतिषेधेकृदिकारा॑दिति ङीषि जनीशब्दस्य निष्पत्तेरिति भावः ।समाः स्नुषाजनीवध्वः॑ इत्यमरः । वहन्तीत्यस्य विवरणं — ॒प्राप्यन्ती॑ति । ‘वरगृह’ मिति शेषः । जन्या इ ।ति । ‘जामातुर्वयस्या’ इति शेषः ।जन्याः स्निग्धा वरस्य ये॑ इत्यमरः ।
Tattvabodhini¶
संज्ञायां जन्याः - जनी वधूरिति ।जनिघसिभ्यामिण् ।जनिवध्योश्चे॑ति न वृद्धि ।कृदिकारा॑दिति ङीष् । ततोऽनेन सूत्रेण यति जन्या=जामातुर्वयस्या । सा हि विवादादिषु वधूं जामातृसमीपं प्रापयति । कालिदासस्तु वध्वा यानवाहेष्वपि प्रायुङ्क्तः -॒यतोति जन्यानवदत्कुमारी॑ति । जनीं वहन्तीति जन्यस्तानित्यर्थः ।
Padamanjari¶
जामातुर्वयस्येति । सा हि प्रणयकलहादौ जनीं जामातुः समीपं प्रापयति । जनी वधूरुच्यत इति । जायतेऽस्यां गर्भ इति कृत्वा ।’जनिवध्योश्च’ इति वृद्धिप्रतिषेधे’कृदिकारादक्तिनः’ इति ङीष् ॥
Nyaas¶
अस्त्यत्र यर्भ इति {इन् इत्येव सूत्रम् - द।उ।} इन् सर्वधातुभ्यः (द।उ।1।46) जनयतीति वा। अत्र कृदिकारादक्तिनः (ग।सू।50) सर्वतोऽक्तिन्नर्थात् (ग।सू।51) इति ङीप् - जनी, तां वहन्ति जन्याः = जामातुर्वयस्याः। विवाहमानिताभिधीयते। केचित्तु कर्तरि जायतेऽस्यां गर्भ इति कृत्यल्युटो बहुलम् (3.3.113) इति ल्युटि जननशब्दाच्च ङीपि नकाराकारयोर्लोपेन साधयन्ति। ननु च जनीशब्दादेव यद्विधेयः? सर्वकालार्थं निपातनमित्येके॥
Prakriyasarvasvam¶
जनीशब्दाद् वहत्यर्थे नाम्नि यत् स्याज्जनी वधूः । <karika>जन्यस्तच्छिबिकाधारी तां पतिं प्रापयन्नपि ॥ २८६ ॥</karika> तेन जन्यो वरसुहृज्जन्या चैवं वधूसखी ।
Sutra Prayogas¶
जन्याम् (रघुवंशम्): संज्ञायां जन्या इति यत्प्रत्ययान्ते निपातः।