44082: संज्ञायां जन्याः ======================= **Padacheda:** संज्ञायाम् | S | 7 | 1 | जन्याः | S | 5 | 1 | Sutrartha --------- **'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् 'जनी'शब्दात् संज्ञायां गम्यमानायाम् यत्-प्रत्ययः भवति ।** 'जनी' इत्युक्ते वधूः । विवाहस्य पश्चात् नववधूम् तस्याः पत्युः समीपम् या प्रापयति, सा स्त्री (= प्रायः पत्युः सखी) 'जन्या' नाम्ना ज्ञायते । जनीम् ( = वधूम्) या वहति सा = जनी + यत् + टाप् → जन्या । ज्ञातव्यम् - 1. यद्यप्यत्र व्याख्यानेषु 'पत्युः सखी / वयस्या' इत्यस्य निर्देशार्थम् 'जन्या' शब्दस्य प्रयोगः प्रोक्तः अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः 'जनीम् वहति' अस्मिन् अर्थे अस्ति, न हि 'पत्युः सखी' अस्मिन् विषये । अतः विवाहानन्तरम् यः कोऽपि / या कापि वधूं प्रापयेत्, तस्य संज्ञा अपि 'जन्य / जन्या' इति भवितुमर्हति । यथा, वधुं पतिं प्रति प्रापयति भृत्या साऽपि जन्या एव । यथा, कालिदासः रघुवंशे वदति - अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी । नासौ न काम्यो न च वेद सम्यक् द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥ रघुवंशः, 6.30 ॥ अत्र 'जन्या' शब्दः कालिदासेन 'मातुः सखी' अस्मिन् अर्थे प्रयुक्तः अस्ति - इति रघुवंशस्य व्याख्याता मल्लिनाथः वदति । 2. अस्मिन् सूत्रे 'संज्ञायाम्' इति उच्यते । अयम् शब्दः 'जन्या' इत्यस्य प्रयोगव्याप्तिं दर्शयति । 'जनीं विवाहानन्तरम् पतिं प्रति प्रेषणम्' अस्य कार्यस्य विषये एव 'जन्या'शब्दस्य प्रयोगः क्रियते, न अन्यस्य, इति अर्थः अत्र अभिप्रीयते । Vasu English Summary -------------------- The affix यत् comes in the sense of 'what bears it' after the word जनी being in Accusative -2nd case construction, the whole word being a Name. Vasu English Translation ------------------------ The affix यत् comes in the sense of 'what bears it' after the word जनी being in Accusative -2nd case construction, the whole word being a Name. Thus जनीं वहति = जन्यः 'a friend of a bridegroom,' fem. जन्याः 'a bridesmaid.' The word जनी means 'bride.' जन्या lit. means 'what bears the bride' i. e. who carries the coy bride to the bride-groom at the time of play &c. Bhashya ------- संज्ञायां जन्याः(1820) (सूत्रार्थोपपादकभाष्यम्) किं निपात्यते? जनन्या जनीभावो निपात्यते यच्च प्रत्ययः॥ (5578 सूत्राक्षेपवार्तिकम्॥ 1 ॥) - जन्या इति निपातनानर्थक्यं पञ्ञ्चमीनिर्देशात् - (भाष्यम्) जन्या इति निपातनमनर्थकम्। किं कारणम्? पञ्ञ्चमीनिर्देशात्। जनीशब्दादेषा पञ्ञ्चमी॥ (सूत्रफलबोधकं भाष्यम्) इदं तर्हि प्रयोजनम् -सर्वकालः प्रत्ययविधिर्यथा विज्ञायेत। जनीं वहन्ति जन्याः। जनीं वोढारो जन्याः। जनीमवाक्षुर्जन्या इति॥ Kashika ------- तद् वहतीत्येव। जनीशब्दाद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। जनीं वहति जन्या, जामातुर्वयस्या। सा हि विहारादिषु जामातृसमीपं प्रापयति। जनी वधूरुच्यते॥ Siddhanta Kaumudi ----------------- जनी वधूः तां वहति प्रापयति जन्या ॥ Balamanorama ------------ **संज्ञायां जन्याः** - संज्ञायां जन्याः । जनीशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः । जनी वधूरिति । जायतेऽस्यां गर्भ इत्यर्थेजनिघसिभ्या॑मिति जनधातोरिणिजनिवध्योश्चे॑ति वृद्धिप्रतिषेधेकृदिकारा॑दिति ङीषि जनीशब्दस्य निष्पत्तेरिति भावः ।समाः स्नुषाजनीवध्वः॑ इत्यमरः । वहन्तीत्यस्य विवरणं — ॒प्राप्यन्ती॑ति । 'वरगृह' मिति शेषः । जन्या इ ।ति । 'जामातुर्वयस्या' इति शेषः ।जन्याः स्निग्धा वरस्य ये॑ इत्यमरः । Tattvabodhini ------------- **संज्ञायां जन्याः** - जनी वधूरिति ।जनिघसिभ्यामिण् ।जनिवध्योश्चे॑ति न वृद्धि ।कृदिकारा॑दिति ङीष् । ततोऽनेन सूत्रेण यति जन्या=जामातुर्वयस्या । सा हि विवादादिषु वधूं जामातृसमीपं प्रापयति । कालिदासस्तु वध्वा यानवाहेष्वपि प्रायुङ्क्तः -॒यतोति जन्यानवदत्कुमारी॑ति । जनीं वहन्तीति जन्यस्तानित्यर्थः । Padamanjari ----------- जामातुर्वयस्येति । सा हि प्रणयकलहादौ जनीं जामातुः समीपं प्रापयति । जनी वधूरुच्यत इति । जायतेऽस्यां गर्भ इति कृत्वा ।'जनिवध्योश्च' इति वृद्धिप्रतिषेधे'कृदिकारादक्तिनः' इति ङीष् ॥ Nyaas ----- अस्त्यत्र यर्भ इति `{इन् इत्येव सूत्रम् - द।उ।} इन् सर्वधातुभ्यः` (द।उ।1।46) जनयतीति वा। `अत्र कृदिकारादक्तिनः` (ग।सू।50) `सर्वतोऽक्तिन्नर्थात्` (ग।सू।51) इति ङीप् - जनी, तां वहन्ति जन्याः = जामातुर्वयस्याः। विवाहमानिताभिधीयते। केचित्तु कर्तरि जायतेऽस्यां गर्भ इति **कृत्यल्युटो बहुलम्** (3.3.113) इति ल्युटि जननशब्दाच्च ङीपि नकाराकारयोर्लोपेन साधयन्ति। ननु च जनीशब्दादेव यद्विधेयः? सर्वकालार्थं निपातनमित्येके॥ Prakriyasarvasvam ----------------- जनीशब्दाद् वहत्यर्थे नाम्नि यत् स्याज्जनी वधूः । जन्यस्तच्छिबिकाधारी तां पतिं प्रापयन्नपि ॥ २८६ ॥ तेन जन्यो वरसुहृज्जन्या चैवं वधूसखी । Sutra Prayogas -------------- * **जन्याम्** (रघुवंशम्): `संज्ञायां जन्या` इति यत्प्रत्ययान्ते निपातः।