44078: खः सर्वधुरात्¶
Padacheda: खः | S | 1 | 1 |
सर्वधुरात् | S | 5 | 1 |
Sutrartha¶
द्वितीयासमर्थात् ‘सर्वधुरा’ शब्दात् ‘वहति’ अस्मिन् अर्थे वाहकस्य निर्देशं कर्तुम् ‘ख’-प्रत्ययः भवति ।
‘सर्वधुरा’ इत्युक्ते सम्पूर्णः भारः । अयम् स्त्रीलिङ्गशब्दः । अस्मात् शब्दात् ‘वहति’ अस्मिन् अर्थे ख-प्रत्ययः भवति । सर्वधुराम् वहति सः = सर्वधुरा + ख → सर्वधुरा+ ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ख-प्रत्ययस्य ईन-आदेशः] → सर्वधुर् + ईन [यस्येति च (6.4.148) इति आकारलोपः] → सर्वधुरीण [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम्] सर्वधुरां वहति सः सर्वधुरीणः । ज्ञातव्यम् 1. अस्मिन् सूत्रे ‘सर्वधुरा’ इति स्त्रीलिङ्गवाचिशब्दात् प्रत्ययः उच्यते, अतः अत्र वस्तुतः ‘सर्वधुरायाः खः’ इति वक्तव्यम् । परन्तु अस्मिन् सूत्रे ‘सर्वधुरात्’ इति नपुंकसस्य प्रयोगः कृतः अस्ति । अयम् प्रयोगः मूलप्रातिपदिकमात्रस्य (सर्वधुर-इत्यस्य) ग्रहणम् कृत्वा कृतः अस्तीति व्याख्यानेषु स्पष्टीक्रियते । न्यासकारः अस्मिन् विषये वदति - ‘सर्वधुरादिति नपुंसकलिङ्गेन निर्देशः स शब्दरूपापेक्षः, अर्थापेक्षे हि निर्देशे परवल्लिङ्गता भवति’ । इत्युक्ते, ‘अर्थग्रहणे (तद्धितप्रत्यययोजने) तु स्त्रीलिङ्गस्यैव प्रयोगः कर्तव्यः’ इति अत्र आशयः अस्ति । 2. अस्य सूत्रस्य ‘योगविभागः करणीयः’ इति काशिकाकारः वदति । इत्युक्ते, ‘ख’ इति भिन्नं सूत्रम् स्वीकृत्य अन्येषां शब्दानां विषये अपि ख-प्रत्ययविधानम् कर्तव्यम् । यथा , उत्तरधुरम् वहति सः उत्तरधुरीणः, दक्षिणधुरं वहति सः दक्षिणधुरीणः ।
Vasu English Summary¶
The affix ख comes in the sense of ‘what bears it’ after the word सर्वधुरा being in Accusative -2nd case construction.
Vasu English Translation¶
The affix ख comes in the sense of ‘what bears it’ after the word सर्वधुरा being in Accusative -2nd case construction. Thus सर्वधुरां वहति = सर्वधुरीणः (7.1.2). The affix ख applies to other compounds also ending in धुर, e.g. उत्तरधुरीणः, दक्षिनधुरीणः ॥ The word सर्वधुर is a compound of सर्वा + धुर् (2.1.49), the samasanta अ being added by (5.4.74). The word धूः being feminine, the whole compound would be feminine by (2.4.26). The word सर्वधुरात् in the sutra should not be taken, therefore, as regulating the gender, for though it is in the masculine gender, the affix comes after the feminine word. In fact सर्वधुर in the sutra should be taken as a nominal-stem or pratipadika equal to सवधुरा ॥
Kashika¶
तद् वहतीत्येव। सर्वधुराशब्दाद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति। सर्वधुरां वहति सर्वधुरीणः। स्त्रीलिङ्गे न्याय्ये सर्वधुरादिति प्रातिपदिकमात्रापेक्षो निर्देशः। ख इति योगविभागः कर्तव्य इष्टसंग्रहार्थः। उत्तरधुरीणः। दक्षिणधुरीणः॥
Siddhanta Kaumudi¶
सर्वधरां वहतीति सर्वधुरीणः ॥
Balamanorama¶
खः सर्वधुरात् - खः सर्वधुरात् । सर्वा धूः सर्वधुरा । ‘पूर्वकाल’ इति तत्पुरुषः ।ऋक्पू॑रिति समासान्तः ।परवल्लिङ्ग॑मिति स्त्रीत्वाट्टाप् । इह तु शब्दस्वरूपापेक्षया नपुंसकनिर्देशः । द्वितीयान्तात्सर्वधुराशब्दाद्वहतीत्यर्थे खः स्यादित्यर्थः । सर्वधुरीण इति । सर्वधुरां वहतीत्यर्थः ।स तु सर्वधुरीणो यो भवेत्सर्वधुरावहः॑ इत्यमरः ।
Tattvabodhini¶
खः सर्वधुरात् - खः सर्वधुरात् ।सर्वधुराया॑इति वक्तव्ये नपुंसकनिर्देशः शब्दस्वरूपापेक्षयाबन्धुनि बहुव्रीहौ॑इतिवत् । सर्वधुरामिति ।पूर्वकालैके॑ति समासः ।ऋक्पूरब्धुः -॑इति समासान्ते अप्रत्यये टाप् ।
Padamanjari¶
स्त्रीलिङ्गनिर्देशो न्याय्य इति । सर्वा चासौ धूश्चेति’पूर्वकाल’ इत्यादिना समासः, ऋक्पूरब्धूःऽ इत्यकारः समासान्तः, तत्र धूः शब्दस्य स्त्रीलिङ्गत्वात्’परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इति वचनात् स्त्रीलिङ्गनिर्देशस्य न्याय्यत्वम्, यथा -‘बन्धुनि बहुव्रीहौ’ इत्यत्र । दक्षिणधुरीणः । दक्षिणां धुरं वहति, उतरां धुरं वहतीति तद्धितार्थे समासः, ततोऽकारः समासान्तः ॥
Nyaas¶
सर्वधुरम् इति। सर्वा चासौ धूश्चेति पूर्वकालैक (2.1.48) इत्यादिना समासः। ऋक्पूरब्धूः (5.4.74) इत्यादिना समासान्तः।स्त्रीलिङ्गे न्याय्ये इति। तत्पुरुषस्योत्तरपदार्थप्रधानत्वात् परवलिह्घं द्वन्द्वतत्पुरुषयोः (2.4.26) इति धूःशब्दस्य यल्लिङ्गं तदेव न्याय्यमिति। तत्र सर्वधुरायाः इति सूत्रे कर्तव्ये यतः सर्वधुरादिति नपुंसकलिङ्गेन निर्देशः स शब्दरूपापेक्षः, अर्थापेक्षे हि निर्देशे परवल्लिङ्गता भवति। अयन्तु शब्दरूपापेक्षः,शब्दरूपञ्च नपुंसकमिति नपुंसकेनैव निर्देशो युक्तः। अर्थविवक्षायां तु स्त्रीलिङ्गमेव भवति - सर्वधुरां वहतीति॥
Prakriyasarvasvam¶
सर्वधुरां वहन् सर्वधुरीणः । ख इति विभागाद् धुर एव खः धुरीणः । उत्तरधुरीणः ॥