44078: खः सर्वधुरात् ==================== **Padacheda:** खः | S | 1 | 1 | सर्वधुरात् | S | 5 | 1 | Sutrartha --------- **द्वितीयासमर्थात् 'सर्वधुरा' शब्दात् 'वहति' अस्मिन् अर्थे वाहकस्य निर्देशं कर्तुम् 'ख'-प्रत्ययः भवति ।** 'सर्वधुरा' इत्युक्ते सम्पूर्णः भारः । अयम् स्त्रीलिङ्गशब्दः । अस्मात् शब्दात् 'वहति' अस्मिन् अर्थे ख-प्रत्ययः भवति । सर्वधुराम् वहति सः = सर्वधुरा + ख → सर्वधुरा+ ईन [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ख-प्रत्ययस्य ईन-आदेशः] → सर्वधुर् + ईन [**यस्येति च** (6.4.148) इति आकारलोपः] → सर्वधुरीण [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] सर्वधुरां वहति सः सर्वधुरीणः । ज्ञातव्यम् 1. अस्मिन् सूत्रे 'सर्वधुरा' इति स्त्रीलिङ्गवाचिशब्दात् प्रत्ययः उच्यते, अतः अत्र वस्तुतः 'सर्वधुरायाः खः' इति वक्तव्यम् । परन्तु अस्मिन् सूत्रे 'सर्वधुरात्' इति नपुंकसस्य प्रयोगः कृतः अस्ति । अयम् प्रयोगः मूलप्रातिपदिकमात्रस्य (सर्वधुर-इत्यस्य) ग्रहणम् कृत्वा कृतः अस्तीति व्याख्यानेषु स्पष्टीक्रियते । न्यासकारः अस्मिन् विषये वदति - 'सर्वधुरादिति नपुंसकलिङ्गेन निर्देशः स शब्दरूपापेक्षः, अर्थापेक्षे हि निर्देशे परवल्लिङ्गता भवति' । इत्युक्ते, 'अर्थग्रहणे (तद्धितप्रत्यययोजने) तु स्त्रीलिङ्गस्यैव प्रयोगः कर्तव्यः' इति अत्र आशयः अस्ति । 2. अस्य सूत्रस्य 'योगविभागः करणीयः' इति काशिकाकारः वदति । इत्युक्ते, 'ख' इति भिन्नं सूत्रम् स्वीकृत्य अन्येषां शब्दानां विषये अपि ख-प्रत्ययविधानम् कर्तव्यम् । यथा , उत्तरधुरम् वहति सः उत्तरधुरीणः, दक्षिणधुरं वहति सः दक्षिणधुरीणः । Vasu English Summary -------------------- The affix ख comes in the sense of 'what bears it' after the word सर्वधुरा being in Accusative -2nd case construction. Vasu English Translation ------------------------ The affix ख comes in the sense of 'what bears it' after the word सर्वधुरा being in Accusative -2nd case construction. Thus सर्वधुरां वहति = सर्वधुरीणः (7.1.2). The affix ख applies to other compounds also ending in धुर, e.g. उत्तरधुरीणः, दक्षिनधुरीणः ॥ The word सर्वधुर is a compound of सर्वा + धुर् (2.1.49), the *samasanta* अ being added by (5.4.74). The word धूः being feminine, the whole compound would be feminine by (2.4.26). The word सर्वधुरात् in the *sutra* should not be taken, therefore, as regulating the gender, for though it is in the masculine gender, the affix comes after the feminine word. In fact सर्वधुर in the *sutra* should be taken as a nominal-stem or *pratipadika* equal to सवधुरा ॥ Kashika ------- तद् वहतीत्येव। सर्वधुराशब्दाद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति। सर्वधुरां वहति सर्वधुरीणः। स्त्रीलिङ्गे न्याय्ये सर्वधुरादिति प्रातिपदिकमात्रापेक्षो निर्देशः। ख इति योगविभागः कर्तव्य इष्टसंग्रहार्थः। उत्तरधुरीणः। दक्षिणधुरीणः॥ Siddhanta Kaumudi ----------------- सर्वधरां वहतीति सर्वधुरीणः ॥ Balamanorama ------------ **खः सर्वधुरात्** - खः सर्वधुरात् । सर्वा धूः सर्वधुरा । 'पूर्वकाल' इति तत्पुरुषः ।ऋक्पू॑रिति समासान्तः ।परवल्लिङ्ग॑मिति स्त्रीत्वाट्टाप् । इह तु शब्दस्वरूपापेक्षया नपुंसकनिर्देशः । द्वितीयान्तात्सर्वधुराशब्दाद्वहतीत्यर्थे खः स्यादित्यर्थः । सर्वधुरीण इति । सर्वधुरां वहतीत्यर्थः ।स तु सर्वधुरीणो यो भवेत्सर्वधुरावहः॑ इत्यमरः । Tattvabodhini ------------- **खः सर्वधुरात्** - खः सर्वधुरात् ।सर्वधुराया॑इति वक्तव्ये नपुंसकनिर्देशः शब्दस्वरूपापेक्षयाबन्धुनि बहुव्रीहौ॑इतिवत् । सर्वधुरामिति ।पूर्वकालैके॑ति समासः ।ऋक्पूरब्धुः -॑इति समासान्ते अप्रत्यये टाप् । Padamanjari ----------- स्त्रीलिङ्गनिर्देशो न्याय्य इति । सर्वा चासौ धूश्चेति'पूर्वकाल' इत्यादिना समासः, ऋक्पूरब्धूःऽ इत्यकारः समासान्तः, तत्र धूः शब्दस्य स्त्रीलिङ्गत्वात्'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' इति वचनात् स्त्रीलिङ्गनिर्देशस्य न्याय्यत्वम्, यथा -'बन्धुनि बहुव्रीहौ' इत्यत्र । दक्षिणधुरीणः । दक्षिणां धुरं वहति, उतरां धुरं वहतीति तद्धितार्थे समासः, ततोऽकारः समासान्तः ॥ Nyaas ----- `सर्वधुरम्` इति। सर्वा चासौ धूश्चेति `पूर्वकालैक` (2.1.48) इत्यादिना समासः। `ऋक्पूरब्धूः` (5.4.74) इत्यादिना समासान्तः।`स्त्रीलिङ्गे न्याय्ये` इति। तत्पुरुषस्योत्तरपदार्थप्रधानत्वात् `परवलिह्घं द्वन्द्वतत्पुरुषयोः` (2.4.26) इति धूःशब्दस्य यल्लिङ्गं तदेव न्याय्यमिति। तत्र `सर्वधुरायाः` इति सूत्रे कर्तव्ये यतः सर्वधुरादिति नपुंसकलिङ्गेन निर्देशः स शब्दरूपापेक्षः, अर्थापेक्षे हि निर्देशे परवल्लिङ्गता भवति। अयन्तु शब्दरूपापेक्षः,शब्दरूपञ्च नपुंसकमिति नपुंसकेनैव निर्देशो युक्तः। अर्थविवक्षायां तु स्त्रीलिङ्गमेव भवति - सर्वधुरां वहतीति॥ Prakriyasarvasvam ----------------- सर्वधुरां वहन् सर्वधुरीणः । ख इति विभागाद् धुर एव खः धुरीणः । उत्तरधुरीणः ॥