44077: धुरो यड्ढकौ¶
Padacheda: धुरः | S | 5 | 1 |
यत्-ढकौ | S | 1 | 2 |
Sutrartha¶
‘वहति’ अस्मिन् अर्थे द्वितीयासमर्थात् धुर्-शब्दात् यत् तथा ढक्-प्रत्ययौ भवतः ।
‘धुर्’ इति रेफान्तः शब्दः, ‘भारः’ इत्यर्थः । ‘भारम् वहति’ अस्मिन् अर्थे द्वितीयासमर्थात् धुर्-शब्दात् ‘यत्’ तथा ‘ढक्’ प्रत्ययौ भवतः । ‘धुर्वीँ हिंसायाम्’ अस्मात् धातोः क्विप्-प्रत्यये कृते ‘धुर्’ इति प्रातिपदिकम् सिद्ध्यति । ‘क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति’ इत्यनेन सिद्धान्तेन ‘धुर्’ इति प्रातिपदिकस्य धातुसंज्ञा अपि वर्तते । अस्यां स्थितौ अनेन सूत्रेण ‘यत्’-प्रत्यये कृते ‘धुर् + यत्’ इति स्थिते हलि च (8.2.77) इत्यनेन उकारस्य दीर्घादेशः प्राप्नोति । परन्तु अत्र धुर्-शब्दस्य भसंज्ञा अपि भवति, अतः न भर्कुछुराम् (8.2.79) इत्यनेन तस्य निषेधः क्रियते, अतः अन्ते केवलं वर्णमेलनं कृत्वा रूपनिर्माणं भवति। धुर् + यत् → धुर्य । पक्षे ढक्-प्रत्ययः अपि विधीयते । धुर् + ढक् → धुर् + एय → धौर् + एय → धौरेय । ज्ञातव्यम् - 1. अस्मिन् सूत्रे वस्तुतः पूर्वसूत्रात् ‘यत्’ इति अनुवर्तते । अतः अत्र ‘यत्’ इति निर्देशः अनावश्यकः अस्ति । अस्मिन् विषये तत्वबोधिन्यामुच्यते - ‘धुरः ढक् च - इत्येव सुवचम्’ । इत्युक्ते, अस्य सूत्रस्य स्थाने ‘धुरः ढक् च’ इत्येव उक्त्वा ‘यत्’ इत्यस्य अनुवृत्तिः स्वीकरणीया । परन्तु न्यासकारस्य मतेन अत्र यत्-ग्रहणमपि आवश्यकमस्ति । अस्मिन् विषये न्यासकारः ब्रूते - ‘यो हि धुरं वहति, धुरः असौ वोढा भवति। तस्य यथाविहिते प्रत्यये विज्ञायमाने तस्येदम् (4.3.120) इति अण्-अपि स्यात्। यद्-ग्रहणात् तस्येदम्-विवक्षायामपि यदेव भवति’ । इत्युक्ते, ‘धुरः वोढा’ (भारस्य वाहकः) अस्मिन् अर्थे वस्तुतः तस्येदम् (4.3.120) इत्यनेन अण्-प्रत्ययः भवेत्, परन्तु अत्र यत्-इत्यस्य पुनर्ग्रहणेन एतत् निर्दिश्यते, यत् ‘धुरः वोढा’ अस्मिन् अर्थे अपि ‘यत्’प्रत्ययः एव कर्तव्यः । धुरः वोढा सः धुर्यः । 2. अस्य सूत्रस्य विषये बालमनोरमाकारः वदति - ‘यड्ढकञौ इति पाठान्तरम्’ । इत्युक्ते, पाठभेदेन ढक्-इत्यस्य स्थाने ढकञ्-प्रत्ययः अपि कुत्रचित् क्रियते । धुरम् वहति सः = धुर् + ढकञ् → धौरेयक । परन्तु इमम् पाठभेदम् पदमञ्जरीकारः न स्वीकरोति । तस्य मतेन ‘ढञ् अत्र विधीयते, न तु ढकञ्’ । इत्युक्ते, अत्र पाठभेदेन ढञ्-प्रत्ययः भवितुमर्हति, न हि ढकञ्-प्रत्ययः ।
Vasu English Summary¶
The affixes यत् and ढक् comes in the sense of ‘what bears it’ after the word धुर in the Accusative -2nd case in construction.
Vasu English Translation¶
The affixes यत् and ढक् comes in the sense of ‘what bears it’ after the word धुर in the Accusative -2nd case in construction. Thus धुरं वहति = धुर्यः (formed by यत्) the lengthening ordained by (8.2.77) is prevented by (7.2.79) because धुर is Bha-stem, or धौरेयः (formed by डक् (7.1.2)) ‘a beast of burden’. This sutra might have stood as धुरो ढक् च, for यत् would have been read into it from (4.4.75).
Kashika¶
तद् वहतीत्येव। धुर् इत्येतस्माद् द्वितीयासमर्थाद् वहतीत्येतस्मिन्नर्थे यत् ढक् इत्येतौ प्रत्ययौ भवतः। धुरं वहतीति धुर्यः। धौरेयः॥
Siddhanta Kaumudi¶
हलि च (SK354) इति दीर्घे प्राप्ते ॥
Laghu Siddhanta Kaumudi¶
हलि चेति दीर्घे प्राप्ते - न भकुर्छुराम् (LSK675) । भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात् । धुर्यः । धौरेयः ॥
Balamanorama¶
धुरो यड्ढकौ - धुरो यड्ढकौ । धुरशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे यत्, ढक्च स्यादित्यर्थः ।यड्ढकञो॑विति पाठान्तरम् । हलि चेतीति । ‘धुर्वी हिंसायां’भ्राजभासे॑ति क्विप् । ‘राल्लोपः’ इति लोपः । अआआदिस्कन्धवाह्रप्रदेशो युगावयवो धुः । धुर्शब्दाद्यतिहलि चे॑ति दीर्घे प्राप्ते सतीत्यर्थः ।
Tattvabodhini¶
धुरो यड्ढकौ - धुरो ।धुरो ढक् चे॑त्येव सुवचम् ।
Padamanjari¶
धूर्धूर्वतेः,’भ्राजभास’ इति क्विप्, राल्लोपःऽ । धुरं वहतीति धुर्य इति ।’न भकुर्छुअराम्’ इति प्रतिषेधात्’हलि च’ इतीति दीर्घाभावः । ढञत्र विधीयते, न तु ढकञ् । धौरेयो भविता पितुरिति च दृश्यते, धौरेयक इति स्वार्थिके कनि भवति । इह’धुरो ढक् च’ इति वक्तव्यम्, चकारात्प्राग्घतीयो यद्भविष्यति ॥
Nyaas¶
अथ धुरो ठक् च इत्येवं कस्मान्नोक्तम्, चकारः समुच्चयार्थः, यथाभिहिते प्रत्यये विज्ञायमाने यदेव भविष्यति? नैतदेवम्; यो हि धुरं वहति धुसोऽसौ वोढा भवति।तस्य यथाविहिते प्रत्यये विज्ञायमाने तस्येदम् (4.3.120) इत्यणपि स्यात्। यद्गर्हणात् तस्येदंविवक्षायामपि यदेव भवति॥
Prakriyasarvasvam¶
धुर् य, रान्तत्वात् ‘दलि च’ (८-२-७७) इत्युपधादीर्घे प्राप्ते ॥
Sutra Prayogas¶
धुर्यान् (रघुवंशम्): धुरो यड्ढकौ इति यत्प्रत्ययः।
धुर्यैः (कुमारसम्भवम्): धुरो यड्ढको इति यत्प्रत्ययः।
धुर्यताम् (शिशुपालवधम्): धुरो यड्ढकौ इति यत्प्रत्ययः।
पिशाच-मुख-धौरेयं (भट्टिकाव्यम्): धुरो यकौ इति।
धुर्यान् (भट्टिकाव्यम्): धुरो यडकौ इति यत्।