44072: कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति¶
Padacheda: कठिन-अन्त-प्रस्तार-संस्थानेषु | S | 7 | 3 |
व्यवहरति | T | | |
Sutrartha¶
‘व्यवहरति’ अस्मिन् अर्थे सप्तमीसमर्थात् कठिनान्तशब्दात्, प्रस्तारशब्दात् तथा संस्थानशब्दात् ठक्-प्रत्ययः भवति ।
‘व्यवहरति’ इत्युक्ते ‘सम्यक् / यथायोग्यम् व्यवहारम् / आचरणम् करोति’ । यस्य शब्दस्य अन्ते ‘कठिन’ इति पदम् विद्यते, तस्मात् शब्दात्, ‘प्रस्तार’ (=अवयवः / विभागः ) शब्दात् तथा च ‘संस्थान’ (=संघटनम् / सन्निवेशः) शब्दात् ‘व्यवहरति’ अस्मिन् अर्थे ठक्-प्रत्ययः भवति । उदाहरणानि एतानि - 1) यस्मिन् क्षेत्रे कठिनाः वंशाः (वेणवः) सन्ति, सः प्रदेशः ‘वंशकठिन’ नाम्ना ज्ञायते । अस्मिन् क्षेत्रे यः सम्यक् रूपेण व्यवहारं करोति सः = वंशकठिन + ठक् → वांशकठिनिकः । 2) यस्मिन् क्षेत्रे कठिनाः वर्ध्राः (चर्माणि) सन्ति, सः प्रदेशः ‘वर्ध्रकठिन’ नाम्ना ज्ञायते । अत्र यः सम्यक् रूपेण व्यवहारं करोति सः = वर्ध्रकठिन + ठक् → वार्ध्रकठिनिकः । 3) प्रस्तारे (विभागे) व्यवहरति सः प्रास्तारिकः । 4) संस्थाने (संघटने) व्यवहरति सः सांस्थानिकः ।
Vasu English Summary¶
The affix ठक् comes in the sense of ‘who transacts business therein’, after compounds ending in कठिन and after प्रस्तार, being in the Locative -7th case in construction.
Vasu English Translation¶
The affix ठक् comes in the sense of ‘who transacts business therein’, after compounds ending in कठिन and after प्रस्तार, being in the Locative -7th case in construction. Thus वंशकठिने व्यवहरति = वांशकठिनिकः ‘whose occupation is in a bamboo thicket’ or ‘who does what is proper to be done in such a place’ i.e. तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथैवानुतिष्ठेति ॥ So also वार्ध्रकठिनिकः ॥ So also प्रास्तारिकः, सांस्थानिकः ॥
Kashika¶
तत्रेत्येव। कठिनशब्दान्तात् सप्तमीसमर्थात् प्रस्तारसंस्थानशब्दाभ्यां च ठक् प्रत्ययो भवति व्यवहरतीत्येतस्मिन्नर्थे। व्यवहारः क्रियातत्त्वम्, यथा लौकिकव्यवहार इति। वंशकठिने व्यवहरति वांशकठिनिकः चक्रचरः। वार्ध्रकठिनिकः। प्रास्तारिकः। सांस्थानिकः॥
Siddhanta Kaumudi¶
तत्रेत्येव । वंशकठिने व्यवहरति वांशकठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठिनस्तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः ॥
Balamanorama¶
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति - कठिनान्तप्रस्तार । अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान एभ्यः सप्तम्यन्तेभ्यष्ठगित्यर्थः । वंशकठिनशब्दं विवृणोति — वंशा इति । व्यवहरणम्-उचितक्रिया । तदाह — यस्मिन्देशे इति । प्रस्तारसंस्थानशब्दौ अवयवसंनिवेशपर्यायौ ।
Tattvabodhini¶
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति - कठिनान्त । प्रस्तारसंस्थानशब्दौ सन्निवेशपर्यायाविति बहवः । प्रस्तारो यज्ञः ।प्रे स्त्रोऽयज्ञे॑इति घञ् । संस्थानं संनिवेश इत्येके ।
Padamanjari¶
व्यवहरति सम्भवति पणिना समानार्थः, आह हि -‘व्यवहृपणोः समर्थयोः’ इति; अस्ति विवादे - व्यवहारे पराजित इति, अस्ति विक्षेपे - शलाकां व्यहरतीति, अस्ति क्रियातत्वे; तदिह चरमस्य ग्रहणं तद्धितस्वभावादित्याह - व्यवहारः क्रियातत्वमिति । यत्र देशे या क्रिया यथानुष्ठेया तत्र तस्यास्तथानुष्ठानमित्यर्थः । वंशाःउवेणवः कठिना यस्मिन्वंशकठिनो देशः । वर्ध्री उ चर्मविकारः कठिना अस्मिन्वर्ध्रकठिनः, आहिताग्न्यादित्वाद्विशेषणस्य परनिपातः । चक्रयुक्तेन शकटेन चरतीति चक्रचरः, स देशाननुक्रमेण चरन् तत्रानुष्ठेयाविपरीतं चरन्नेवमुच्यते । संस्थानप्रस्तारौ सन्निवेशौ ॥
Nyaas¶
अल्पाच्तरस्य प्रस्तारशब्दस्य च पूर्वनिपातमकुर्वन्नेतत् सूचयति - अन्यदपि कार्यं लक्षणप्राप्तं न भवति। तेन कठिनान्तशब्दस्य ग्रहणं न भवतीति कठिनशब्दान्तं प्रातिपदिकं गृह्रते। {हरतिरयम् - प्रांउ। पाठः} व्यवहरतिरयमस्ति पणिना समानार्थः - यस्य `व्यवह्मपणोः समर्थयोः (2.3.57) इत्यत्र ग्रहणम्, अस्ति विवादे - व्यवहारे परिह्मतमिति, अस्ति च विक्षेपे शलाकां व्यवहरतीति, अस्ति च लौकिके क्रियातत्वे - लौकिको व्यवहार इति। इह तु क्रियातत्त्वे वर्तमानस्य ग्रहणमित्येतद्दर्शयितुमाह -व्यवहारः क्रियातत्त्वम् इति। क्रियाया अविपरीतस्वभावत्वादि क्रियातत्त्वम्। यथा इत्यादि। लौकिको व्यवहार इत्यत्र यथा व्यवहारः क्रियातत्त्वे वर्तते, तथेहापि दर्शयति। क्रियातत्त्वे वर्तमानस्य ग्रहणम्। तत्र (4.4.69) इतिसप्तम्यधिकारे सप्तमीनिर्देशात् प्रसिद्ध्युपसंग्रहणं लभ्यते। वांशकठिनिकश्छक्रचरःर इति। यश्चक्रचरः सन्ननुष्ठेयां क्रियां शास्त्रोक्तमविगीता वंशकठिनेऽनुतिष्ठति स एवमुच्यते॥
Prakriyasarvasvam¶
कठिनान्ताद् वंशकठिनाख्यदेशे व्याप्रियमाणो वांशकठिनिकः । व्रीह्यादेः प्रस्तारणे व्यापृतः प्रास्तारिकः । प्रतिमादेः संस्थानशिक्षापरः सांस्थानिकः ॥